श्रीशुक्लयजुर्वेदीय रुद्राष्टाध्यायी
ॐ
मङ्गलाचरणम्
वन्दे सिद्धिप्रदं देवं गणेशं प्रियपालकम् ।
विश्वगर्भं च विघ्नेशं अनादिं मङ्गलं विभूम् ॥
अथ ध्यानम् –
ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारु चन्द्रवतंसम् ।
रत्नाकल्पोज्ज्वलाङ्गं परशु मृगवरं भीतिहस्तं प्रसन्नम् ॥
पद्मासीनं समन्तात् स्तुतममरगणैर्व्याघ्रकृतिं वसानम् ।
विश्वाद्यं विश्ववन्द्यं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रम् ॥
अथ प्रथमोऽध्यायः ।
शुभ सङ्कल्पम् ॥ प्रार्थना मन्त्राः
हरिः ॐ गणानां त्वा गणपतिं हवामहे प्रियाणां त्वा प्रियपतिं हवामहे निधीनां त्वा
निधीपतिं हवामहे वसो मम ।
आऽहमजानिगर्भधमात्त्वमजाऽसि गर्भधम् ॥ १॥
गायत्रीत्रिष्टुब्जगत्यनुष्टुप्पङ्क्त्यासह ॥
बृहत्युष्णिहाककुप्सूचीभिः शम्यन्तु त्वा ॥ २॥
द्विपदायाश्चतुषपदास्त्रिपदायाश्चषट्पदाः ।
विच्छन्दा याश्च सच्छन्दाः सूचीभिः शम्यन्तु त्वा ॥ ३॥
सहस्तोमाः सहछन्दस आवृतः सहप्रमाः ऋषयः सप्तदैव्याः ॥
पूर्वेषां पन्थामनुदृश्य धीरा अन्यालेभिरे रथ्यो न रश्मीन् ॥ ४॥
यज्जाग्रतो दूरमुदैति दैवं तदु सुप्तस्य तथैवैति ॥
दूरङ्गमं ज्योतिषां ज्योतिरेकं तन्मे मनः शिवसङ्कल्पमस्तु ॥ ५॥
येन कर्माण्यपसो मनीषिणो यज्ञे कृण्वन्ति विदथेषु धीराः ॥
यदपूर्वं यक्षमन्तः प्रजानां तन्मे मनः शिवसङ्कल्पमस्तु ॥ ६॥
यत्प्रज्ञानमुतचेतो धृतिश्च यज्ज्योतिरन्तरमृतं प्रजासु ॥
यस्मान्न ऋते किञ्चन कर्म क्रियते तन्मे मनः शिवसङ्कल्पमस्तु ॥ ७॥
येनेदं भूतं भुवनं भविष्यत्परिगृहीतममृतेन सर्वम् ॥
येन यज्ञः स्तायते सप्तहोता तन्मे मनः शिवसङ्कल्पमस्तु ॥ ८॥
यस्मिन् ऋचः सामयजूंषि यस्मिन्प्रतिष्ठिता रथनाभाविवाराः ॥
यस्मिन् चित्तं सर्वमोतं प्रजानां तन्मे मनः शिवसङ्कल्पमस्तु ॥ ९॥
सुषारथिरश्वानिव यन्मनुष्प्यान्नेनीयतेऽभीशुभिरार्वाजिनऽइव ॥
हृत्प्रतिष्ठं यदजिरं जविष्ठं तन्मे मनः शिवसङ्कल्पमस्तु ॥ १०॥
इति रुद्रे प्रथमोऽध्यायः ॥ १
अथ द्वितीयोऽध्यायः ।
अथ पुरुष सूक्तम् –
हरिः ॐ सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।
स भूमिं सर्वतः स्पृत्वाऽत्यतिष्ठद्दशाङ्गुलम् ॥ १॥
पुरुष एवेदं सर्वं यद्भूतं यच्च भाव्यम् ।
उतामृतत्त्वस्येशानो यदन्नेनातिरोहति ॥ २॥
एतावानस्य महिमाऽतो ज्यायाँश्च पूरुषः ।
पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ॥ ३॥
त्रिपादूर्ध्व उदैत्पुरुषः पादोऽस्येहाभवत् पुनः ।
ततो विष्वङ् व्यक्रामत्साशनानशने अभि ॥ ४॥
ततो विराडजायत विराजो अधि पूरुषः ।
स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः ॥ ५॥
तस्माद्यज्ञात् सर्वहुतः सम्भृतं पृषदाज्यम् ।
पशूँस्ताँश्चक्रे वायव्यानारण्या ग्राम्याश्च ये ॥ ६॥
तस्माद्यज्ञात् सर्वहुतः ऋचः सामानि जज्ञिरे ।
छन्दाꣳसि जज्ञिरे तस्माद्यजुस्तस्मादजायत ॥ ७॥
तस्मादश्वा अजायन्त ये के चोभयादतः ।
गावो ह जज्ञिरे तस्मात्तस्माज्जाता अजावयः ॥ ८॥
तं यज्ञं बर्हिषि प्रौक्षन् पुरुषं जातमग्रतः ।
तेन देवा अयजन्त साध्या ऋषयश्च ये ॥ ९॥
यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन् ।
मुखं किमस्यासीत् किं बाहू किमूरू पादा उच्येते ॥ १०॥
ब्राह्मणोऽस्य मुखमासीद्बाहू राजन्यः कृतः ।
ऊरू तदस्य यद्वैश्यः पद्भ्याꣳ शूद्रो अजायत ॥ ११॥
चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत ।
श्रोत्राद्वायुश्च प्राणश्च मुखादग्निरजायत ॥ १२॥
नाभ्या आसीदन्तरिक्षꣳ शीर्ष्णो द्यौः समवर्तत ।
पद्भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकाँऽकल्पयन् ॥ १३॥
यत्पुरुषेण हविषा देवा यज्ञमतन्वत ।
वसन्तोऽस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः ॥ १४॥
सप्तास्यासन् परिधयस्त्रिः सप्त समिधः कृताः ।
देवा यद्यज्ञं तन्वाना अबध्नन् पुरुषं पशुम् ॥ १५॥
यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् ।
ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥ १६॥
अ॒द्भ्यः सम्भू॑तः पृथि॒व्यै रसा᳚च्च । वि॒श्वक॑र्मणः॒ सम॑वर्त॒ताग्रे ।
तस्य॒ त्वष्टा॑ वि॒दध॑द्रू॒पमे॑ति । तमर्त्यस्य॒ देवत्वमाजा॑न॒मग्रे᳚ ॥ १७॥
वेदा॒हमे॒तं पुरु॑षं म॒हान्तम्᳚ । आ॒दि॒त्यव॑र्णं॒ तम॑सः॒ पर॑स्तात् ।
तमे॒वं वि॒दित्वा मृत्युमत्येति । नान्यः पन्था॑ विद्य॒तेऽयनाय ॥ १८॥
प्र॒जाप॑तिश्चरति॒ गर्भे॑ अ॒न्तः । अ॒जाय॑मानो बहु॒धा विजा॑यते ।
तस्य॒ योनिम्᳚ परि॑पश्यन्ति॒ धीराः । तस्मिन् ह तस्थुः भुवनानि विश्वा ॥ १९॥
यो दे॒वेभ्य॒ आत॑पति । यो दे॒वानां᳚ पु॒रोहि॑तः ।
पूर्वो॒ यो दे॒वेभ्यो॑ जा॒तः । नमो॑ रु॒चाय॒ ब्राह्म॑ये ॥ २०॥
रुचं॑ ब्रा॒ह्मं ज॒नय॑न्तो दे॒वा अग्रे॒ तद॑ब्रुवन् ।
यस्त्वै॒वं ब्रा᳚ह्म॒णो वि॒द्यात्तस्य॑ दे॒वा अस॒न् वशे᳚ ॥ २१॥
श्रीश्च॑ ते ल॒क्ष्मीश्च॒ पत्न्यौ᳚ ।
अ॒हो॒रा॒त्रे पा॒र्श्वे नक्ष॑त्राणि रू॒पमश्विनौ॒ व्यात्तम्᳚ ।
इ॒ष्णन्निषाणामुं म॑ इषाण । सर्व॑लोकं म इषाण ॥ २२॥
ॐ तच्छं॒ योरावृ॑णीमहे । गा॒तुं य॒ज्ञाय॑ । गा॒तुं यज्ञप॑तये । दैवी᳚स्स्व॒स्तिर॑स्तु नः ।
स्व॒स्तिर्मानु॑षेभ्यः । ऊ॒र्ध्वं जि॑गातु भेष॒जम् । शन्नो॑ अस्तु द्वि॒पदे᳚ । शं चतु॑ष्पदे ।
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ।
॥ इति शुक्लयजुर्वेदीयपुरुषसूक्तं सम्पूर्णम् ॥
इति रुद्रे द्वितीयोऽध्यायः ॥ २
अथ तृतीयोऽध्यायः ।
रुद्रस्तुति
आशुः शिशानो वृषभो न भीमो घनाघनः क्षोभणश्चर्षणीनाम् ॥
सङ्क्रन्दनोऽ निमिष एकवीरः शतसेना अजयत्साकमिन्द्रः ॥ १॥
सङ्क्रन्दनेनानिमिषेण जिष्णुना युत्कारेण दुश्च्यवनेन धृष्णुना ।
तदिन्द्रेण जयत तत्सहध्वं युधो नर इषुहस्तेन वृष्णा ॥ २॥
स इषुहस्तैः सनिषङ्गिभिर्वशी संस्रष्टा स युध इन्द्रोगणेन ॥
संसृष्टजित्सौमपा बाहुशर्द्ध्युग्रधन्वा प्रतिहिताभिरस्ता ॥ ३॥
बृहस्पते॒ परिदीया रथेन रक्षोहाऽमित्रान् अपबाधमानः ॥
प्रभञ्जन्त्सेनाः प्रमृणो युधाजयन्नस्माकमेध्यविता रथानाम् ॥ ४॥
बलविज्ञायस्स्थविर प्रवीरः सहस्वान्वाजी सहमान उग्रः ॥
अभिवीरोऽभिसत्त्वा सहोजा जैत्रमिन्द्ररथमात्तिष्ठ गोवित् ॥ ५॥
गोत्रभिदं गोविदं वज्रबाहुं जयन्तमज्म प्रमृणन्तमोजसा ॥
इमं सजाता अनुवीरयध्वमिन्द्रं सखायोऽनुसंरभध्वम् ॥ ६॥
अभिगोत्राणि सहसाऽभिगाहमानोऽदयोवीरः शतमन्युरिन्द्रः ।
दुश्च्यवनः पृतनाषाडयुध्योऽस्माकं सेनाः प्रावतु युत्सु ॥ ७॥
इन्द्र आसां नेता बृहस्पतिर्दक्षिणायज्ञ पुर एतु सोमः ॥
देवसेनानाममिभञ्जतीनां मरुतो यन्त्वग्रम् ॥ ८॥
इन्द्रस्य वृष्णो वरुणस्य॒ राज्ञ आदित्यानां मरुतां शर्ध उग्रम् ॥
महामनसां भुवनच्यवानां घोषो देवानां जयतामुदस्थात् ॥ ९॥
उद्धर्षय मघवन्नायुधान्यत्सत्त्वनां मामकानां मनांसि ।
उद्र्वृत्रहन् वाजिनां वाजिनान्युद्रथानां जयतामुद्यन्तु घोषाः ॥ १०॥
अस्माकमिन्द्रः समृतेषु ध्वजेष्वस्माकं या इषवस्ताः जयन्तु ॥
अस्माकं वीरा उत्तरे भवन्त्व॒स्माँ उ देवा अवताहवेषु ॥ ११॥
अमीषां चित्तं प्रतिलोभयन्ती गृहाणाङ्गान्यप्वपरेहि ॥
अभिप्रेहि निर्दह हृत्सु शोकैरन्धेनामित्रास्तमसा सचन्ताम् ॥ १२॥
अवसृष्टा परापतशरव्ये ब्रह्मसंशिते ।
गच्छामित्रान् प्रपद्यस्व मामीषां कञ्चनोच्छिषः ॥ १३॥
प्रेत जयत नर इन्द्रो वः शर्म यच्छन्तु ॥
उग्रा वः सन्तु बाहवोऽनाधृष्याः व यथा असथ ॥ १४॥
असौ या सेना मरुतः परेषाम्मभ्यैति न ओजसा स्पर्धमाना ॥
तां गूहत तमसाऽपव्रतेन यथाऽमी अन्योऽन्यं न जानन् ॥ १५॥
यत्र बाणाः सम्पतन्ति कुमारा विशिखा इव ।
तन्न इन्द्रो बृहस्प्पतिरदितिः शर्म यच्छतु विश्वाहा शर्म यच्छतु ॥ १६॥
मर्माणि ते वर्मणा च्छादयामि सोमस्त्वा राजाऽमृतेनानुवस्ताम् ॥
उरोर्वरीयो वरुणस्ते कृणोतु जयन्तं त्वा देवा अनुमदन्तु ॥ १७॥
इति रुद्रे तृतीयोऽध्यायः ॥ ३
अथ चतुर्थोऽध्यायः ।
सूर्यस्तुति
विभ्राड् बृहत्पिबतु सोम्यं मध्वायुर्दधद्यज्ञपतावविहृतम् ॥
वातजूतो योऽभिरक्षतित्मनाप्रजाः पुपोष पुरुधा विराजति ॥ १॥
उदुत्त्यं जातवेदसं देवमुदवहन्ति हन्ति केतवो दृशे विश्वाय सूर्यम् ॥ २॥
येन पावकचक्षसा भुरण्यन्तं जनाँ त्वं वरुण पश्यसि ॥ ३॥
दैव्यावद्ध्वर्यू आगतं रथेन सूर्यत्वचा ॥
मद्धा यज्ञं समञ्जाथे ॥ तं प्रत्क्नथा अयं वेनश्चित्रं देवानाम् ॥ ४॥
तं प्रत्नथा पूर्वथा विश्वथेमथा ज्येष्ठतातिं बर्हिषदं स्वर्विदम् ॥
प्रतीचीनं वृजनं दोहसे धुनिमाशुं जयन्तमनुयासु वर्धसे ॥ ५॥
अयं वेनश्चोदयत्पृश्निगर्भाज्ज्योतिर्जरायुः रजसो विमाने ।
इममपां सङ्गमे सूर्यस्य॒ शिशुं न विप्राः मतिभिः रिहन्ति ॥ ६॥
चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य॒ वरुणस्याग्नेः ॥
आप्राद्यावापृथिवी अन्तरिक्षं सूर्य॑ आत्मा जगतस्तस्थुषश्च ॥ ७॥
आन इडाभिः विदथे सुशस्ति विश्वानरः सविता देव एतु ॥
अपि यथा युवानो मत्सथा नो विश्वं जगदभिपित्वे मनीषा ॥ ८॥
यदद्य कच्च वृत्रहन्नुदगा अभिसूर्य ॥ सर्वं तदिन्द्र ते वशे ॥ ९॥
तरणिर्विश्वदर्शतो ज्योतिष्कृदसि सूर्य । विश्वमाभासि रोचनम् ॥ १०॥
तत्सूर्यस्य देवत्वं तन्महित्वं मध्या कर्तोः वितत सञ्जभार ॥
यदेदयुक्तहरितः सधस्थादाद्रात्रीवासस्तनुते सिमस्मै ॥ ११॥
तन्मित्रस्य वरुणस्याभिचक्षे सूर्योरूपं कृणुते द्योरुपस्थे ।
अनन्तमन्यद्रुशदस्य॒ पाजः कृष्णमन्यद्धरितः सम्भरन्ति ॥ १२॥
बण्महानसि सूर्य बडादित्य महानसि ॥
महस्ते सतो महिमा पनस्यतेऽद्धा देव महानसि ॥ १३॥
बट्सूर्य्य श्रवसा महानसि सत्रादेव महानसि ।
मन्हा देवानामसुर्यः पुरोहितो विभुज्योतिरदाभ्यम् ॥ १४॥
श्रायन्त इव॒ सूर्य विश्वेदिन्द्रस्य भक्षत ॥
वसूनिजाते जनमाने ओजसा प्रतिभागं न दीधिम ॥ १५॥
अद्य देवा उदिता सूर्यस्य निरंहसः पिपृता निरवद्यात्
तन्नो मित्रो वरुणो मां महन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥ १६॥
आकृष्णेन रजसाऽऽवर्तमानो निवेशयन्नमृतं मर्त्यञ्च ॥
हिरण्ययेन सविता रथेन देव आयाति भुवनानि पश्यन् ॥ १७॥
इति रुद्रे चतुर्थोऽध्यायः ॥ ४
अथ पञ्चमोऽध्यायः ॥
नमकं
हरिः ॐ नमस्ते रुद्र मन्यवे उत ते इषवे नमः । बाहुभ्यामुत ते नमः ॥ १॥
या ते रुद्र शिवा तनूरघोराऽपापकाशिनी ।
तया नस्तन्वा शन्तमया गिरिशन्ताभिचाकशीहि ॥ २॥
यामिषुं गिरिशन्त हस्ते बिभर्ष्यस्तवे ।
शिवां गिरित्रतां कुरु मा हिंसीः पुरुषं जगत् ॥ ३॥
शिवेन वचसा त्वा गिरिशच्छा वदामसि ।
यथा नः सर्वमिज्जगदयक्ष्मं सुमना असत् ॥ ४॥
अध्यवोचदधिवक्ता प्रथमो दैव्यो भिषक् ।
अहींश्च सर्वाञ्जम्भयन्त्सर्वाश्च यातुधान्योःधराचीः परासुव ॥ ५॥
असौ यस्ताम्रोऽरुण उत बभ्रुः सुमङ्गलः ।
ये चैनं रुद्रा अभितो दिक्षु श्रिताः सहस्रशः एषां हेड अवेमहे ॥ ६॥
असौ योऽवसर्पति नीलग्रीवो विलोहितः ।
उतैनं गोपा अदृश्रन्नदृश्रन्नुदहार्यः स दृष्टो मृडयाति नः ॥ ७॥
नमोस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे ।
अथो येऽस्य सत्त्वानोऽहं तेभ्योऽकरं नमः ॥ ८॥
प्रमुञ्च धन्वनस्त्वमुभयोरार्त्न्योर्ज्याम् ।
याश्च ते हस्ते इषवः परा ता भगवो वप ॥ ९॥
विज्यं धनुः कपर्दिनो विशल्यो बाणवानुत ।
अनेशन्नस्य या इषव आभुरस्य निषङ्गधिः ॥ १०॥
या ते हेतिर्मीढुष्टम हस्तै बभूव ते धनु ।
तयाऽस्मान्विश्वतस्त्वमयक्ष्मया परिभुज ॥ ११॥
परि ते धन्वनो हेतिरस्मान्वृणक्तु विश्वतः ।
अथो य ईषुधिस्तवारेऽस्मन्निधेहि तम् ॥ १२॥
अवतत्त्य धनुस्त्वं सहस्राक्ष शतेषुधे ।
निशीर्य शल्यानां मुखाः शिवो नः सुमना भव ॥ १३॥
नमस्ते आयुधायानातताय धृष्णवे ।
उभाभ्यामुत ते नमो बाहुभ्यां तव धन्वने ॥ १४॥
मा नो महान्तमुत मा नोऽर्भकं मा न उक्षमुत मा न उक्षितम् ।
मा नो वधीः पितरं मा उत मातरं मा नः प्रियास्तन्वो रुद्र रीरिषः ॥ १५॥
मा नस्तोके तनये मा न आयुषि मा नो गोषु मा नोऽश्वेषु रीरिषः ।
मा नो वीरान् रुद्र भामिनो वधीर्हविष्म॑न्तः सदमित्त्वा हवामहे ॥ १६॥
नमो हिरण्यबाहवे सेनान्ये दिशां च पतये नमो नमो वृक्षेभ्यो
हरिकेशेभ्यः पशूनां पतये नमो नमः शष्पिञ्जराय त्विषीमते
पथीनां पतये नमो नमो हरिकेशायोपवीतिने पुष्टानां पतये नमो ॥ १७॥
नमो बभ्लुशाय व्याधिनेऽन्नानां पतये नमो नमो भवस्य हेत्यै जगतां पतये नमो
नमो रुद्रायाततायिने क्षेत्राणां पतये नमो नमः सूतायाहन्त्यै वनानां पतये नमो नमो रोहिताय ॥ १८॥
नमो रोहिताय स्थपतये वृक्षाणां पतये नमो नमो भुवन्तये वारिवस्कृतायौषधीनां
पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणां पतये नमो नमो उच्चैर्घोषायाक्रन्दयते
पत्तीनां पतये नमो नमः कृत्स्नायतया ॥ १९॥
नमः कृत्स्नायतया धावते तसत्त्वनां पतये नमो नमः सहमानाय निव्याधिने
आव्याधिनीनां पतये नमो नमो निषङ्गिणे ककुभाय स्तेनानां पतये नमो नमो निचेरवे
परिचरायारण्यानां पतये नमो नमो वञ्चते ॥ २०॥
नमो वञ्चते परिवञ्चते स्तायूनां पतये नमो नमो निषङ्गिण इषुधिमते तस्कराणां
पतये नमो नमः सृकायिभ्यो जिघांसद्भ्यो मुष्णतां पतये नमो नमोऽसिमद्भ्यो
नक्तञ्चरद्भ्यो विकृन्तानां पतये नमः ॥ २१॥
नम उष्णीषिणे गिरिचराय कुलुञ्चानां पतये नमो नम इषुमद्भ्यो
धन्वाविभ्यश्च वो नमो नम
आतन्वानेभ्यः प्रतिदधानेभ्यश्च वो नमो नम
आयच्छद्भ्योऽस्यद्भ्यश्च वो नमो नमो विसृजद्भ्यःः ॥ २२॥
नमो विसृजद्भ्यो विध्यद्भ्यश्च वो नमो नमः स्वपद्भ्यो
जाग्रद्भ्यश्च वो नमो नमः
शयानेभ्य आसीनेभ्यश्च वो नमो नमस्तिष्ठद्भ्यो धावद्भ्यश्च वो नमो नमः सभाभ्यः ॥ २३॥
नमः सभाभ्यः सभापतिभ्यश्च वो नमो नमोऽश्वेभ्योऽश्वपतिभ्यश्च वो नमो नम
व्याधिनीभ्यो विविध्यन्तीभ्यश्च वो नमो नम उगणाभ्यस्तृंहतीभ्यश्च वो नमो नमो गणेभ्यः ॥ २४॥
नमो गणेभ्यो गणपतिभ्यश्च वो नमो नमो व्रातेभ्यो व्रातपतिभ्यश्च वो नमो
नमो गृत्सेभ्यो गृत्सपतिभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो
नमः सेनाभ्यः ॥ २५॥
नमः सेनाभ्यः सेनानिभ्यश्च वो नमो नमो रथिभ्योऽरथेभ्यश्च वो नमो नमः क्षत्तृभ्यः
सङ्ग्रहीतृभ्यश्च वो नमो नमो महद्भ्यो अर्भकेभ्यश्च वो नमः ॥ २६॥
नमस्तक्षभ्यो रथकारेभ्यश्च वो नमो नमः कुलालेभ्यः कर्मारेभ्यश्च वो नमो
नमो निषादेभ्यः पुञ्जिष्टेभ्यश्च वो नमो नमः श्वनिभ्यो मृगयुभ्यश्च वो नमो
नमः श्वभ्यः ॥ २७॥
नमः श्वभ्यः श्वपतिभ्यश्च वो नमो नमो भवाय च रुद्राय च नमः शर्वाय च
पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च नमः कपर्दिने ॥ २८॥
नमः कपर्दिने च व्युप्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो
गिरिशयाय च शिपिविष्टाय च नमो मीढुष्टमाय चेषुमते च नमो ह्रस्वाय ॥ २९॥
नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च
सवृधे च नमोऽग्र्याय च प्रथमाय च नम आशवे ॥ ३०॥
नम आशवे चाजिराय च नमः शीघ्राय च शीभ्याय च नम
ऊर्म्याय चावस्वन्याय च नमो नादेयाय च द्वीप्याय च ॥ ३१॥
नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय चापरजाय च नमो मध्यमाय चापगल्भाय च
नमो जघन्याय च बुध्न्याय च नमः सोभ्याय ॥ ३२॥
नमः सोभ्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नमः श्लोक्याय
चावसान्याय च नम उर्वर्याय च खल्याय च नमो वन्याय ॥ ३३॥
नमो वन्याय च कक्ष्याय च नमः श्रवाय च प्रतिश्रवाय च नम
आशुषेणाय चाशुरथाय च नमः शूराय चावभेदिने च नमो बिल्मिने ॥ ३४॥
नमो बिल्मिने च कवचिने च नमो वर्मिणे च वरूथिने च नमः श्रुताय॑ च
श्रुतसेनाय च नमो दुन्दुभ्याय चाहनन्याय च नमो धृष्णवे ॥ ३५॥
नमो धृष्णवे च प्रमृशाय च नमो निषङ्गिणे चेषुधिमते च नमस्तीक्ष्णेषवे
चायुधिने च नमः स्वायुधाय च सुधन्वने च ॥ ३६॥
नम स्रुत्याय च पथ्याय च नमः काट्याय च नीप्याय च नमः कुल्याय च
सरस्याय च नमो नादेयाय च वैशन्ताय च नमः कूप्याय ॥ ३७॥
नमो कूप्याय चावट्याय च नमो वीध्राय चातप्याय च नमो मेध्याय च
विद्युत्याय च नमो वार्याय चावर्षाय च नमो वात्याय ॥ ३८॥
नमो वात्याय च रेष्म्याय च नमो वास्तव्याय च वास्तुपाय च नमः सोमाय च
रुद्राय च नमस्ताम्राय चारुणाय च नमः शङ्गवे ॥ ३९॥
नमः शङ्गवे च पशुपतये च नम उग्राय च भीमाय च नमोऽग्रेवधाय च दूरेवुधाय च
नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय ॥ ४०॥
नमः शम्भवाय च मयोभवाय च नमः शङ्कराय च मयस्कराय च
नमः शिवाय च शिवतराय च ॥ ४१॥
नमः पार्याय चावार्याय च नमः प्रतरणाय चोत्तरणाय च नमस्तीर्थ्याय च कूल्याय च
नमुह शव्याय च फेन्याय च नमः सिकत्याय ॥ ४२॥
नमः सिकत्याय च प्रवाह्याय च नमः किंशिलाय च क्षयणाय च
नमः कपर्दिने च पुलस्तये च नम इरिण्याय च प्रपथ्याय च नमो व्रज्याय ॥ ४३॥
नमो व्रज्याय च गोष्ठ्याय च नमस्तल्प्याय च गेह्याय च नमो हृदयाय च
निवेष्प्याय च नमः काट्याय च गह्वरेष्ठाय च नमः शुष्क्याय ॥ ४४॥
नमः शुष्क्याय च हरित्याय च नमः पांसव्याय च रजस्याय च नमो लोप्या॑य चोलप्याय च
नम ऊर्व्याय च सूर्व्याय च नमः पर्णाय ॥ ४५॥
नमः पर्णाय च पर्णशदाय च नम उद्गरमाणाय चाभिघ्नते च नम आखिदते च
प्रखिदते च नम इषुकृद्भ्यो धनुष्कृद्भ्यश्च वो नमो नमो वः किरिकेभ्यो
देवानां हृदयेभ्यो नमो विचिन्वत्केभ्यो नमो विक्षिणत्केभ्यो नम आनिर्हतेभ्यः ॥ ४६॥
द्रापेऽअन्धसस्पते दरिद्र नीललोहित । आसां प्रजानामेषां
पशूनां मा भेर्मा रोङ्मा च नः किञ्चनाममत् ॥ ४७॥
इमा रुद्राय तवसे कपर्दिने क्षयद्वीराय प्रभरामहे मतीः ।
यथा शमसद्विपदे चतुष्पदे विश्वं पुष्टं ग्रामेऽअस्मिन्ननातुरम् ॥ ४८॥
या ते रुद्र शिवा तनूः शिवा विश्वाहा भेषजी ।
शिवा रुतस्य भेषजी तया नो मृड जीवसे ॥ ४९॥
परि नो रुद्रस्य हेति वृणक्तु त्वेषस्य दुर्मतिरघायोः ।
अव स्थिरा मघवद्भ्यस्तनुष्व मीढ्वस्तोकाय तनयाय मृड ॥ ५०॥
मीढुष्टम शिव॑तम शिवो नः सुमना भव ।
परमे वृक्ष आयुधं निधाय कृत्तिं वसान आचर पिनाकं बिभ्रदागहि ॥ ५१॥
विकिरिद्र विलोहित नमस्तेऽअस्तु भगवः ।
यास्ते सहस्रं हेतयोऽन्यमस्मन्निवपन्तु ताः ॥ ५२॥
सहस्राणि सहस्रशो बाह्वोस्तव हेतयः ।
तासामीशानो भगवः पराचीना मुखाः कृधि ॥ ५३॥
असङ्ख्याता सहस्राणि ये रुद्रा अधिभूम्याम् ।
तेषां सहस्रयोजने धन्वान्यवतन्मसि ॥ ५४॥
अस्मिन्महत्यर्णवेऽन्तरिक्षे भवा अधि ।
तेषां सहस्त्रयोजने धन्वान्यवतन्मसि ॥ ५५॥
नीलग्रीवाः शितिकण्ठाः दिवां रुद्राः उपश्रिताः ।
तेषां सहस्रयोजने धन्वान्यवतन्मसि ॥ ५६॥
नीलग्रीवाः शितिकण्ठाः शर्वा अधः क्षमाचराः ।
तेषां सहस्रयोजने धन्वान्यवतन्मसि ॥ ५७॥
ये वृक्षेषु शष्पिञ्जराः नीलग्रीवाः विलोहिताः ।
तेषां सहस्रयोजने धन्वान्यवतन्मसि ॥ ५८॥
ये भूतानामधिपतयो विशिखासः कपर्दिन ।
तेषां सहस्रयोजने धन्वान्यवतन्मसि ॥ ५९॥
ये पथां पथिरक्षयः ऐलबृदाः आयुर्युधः ।
तेषां सहस्रयोजने धन्वान्यवतन्मसि ॥ ६०॥
ये तीर्थानि प्रचरन्ति सृकाहस्ताः निषङ्गिणः ।
तेषां सहस्रयोजने धन्वान्यवतन्मसि ॥ ६१॥
येऽन्नेषु विविध्यन्ति पात्रेषु पिबतो जनान् ।
तेषां सहस्रयोजने धन्वान्यवतन्मसि ॥ ६२॥
य एतावन्तश्च भूयांसश्च दिशो रुद्राः वितस्थिरे ।
तेषां सहस्रयोजने धन्वान्यवतन्मसि ॥ ६३॥
नमोऽस्तु रुद्रेभ्यो ये दिवि येषां वर्षमिषवः ।
तेभ्यो दश प्राचीर्दर्श दक्षिणाः दश प्रतीचीर्दशोदीचीर्दशोर्ध्वाः ।
तेभ्यो नमोऽस्तु ते नोऽवन्तु ते नो मृडयन्तु ते यं द्विष्मो यश्च नो द्वेष्टि
तमेषां जम्भे दध्मः ॥ ६४॥
नमोऽस्तु रुद्रेभ्यो येऽन्तरिक्षे येषां वातः इषवः ।
तेभ्यो दश प्राचीर्दश दक्षिणाः दश प्रतीचीर्दशोदीचीर्दशोर्ध्वाः ।
तेभ्यो नमोऽस्तु ते नऽवन्तु ते नो मृडयन्तु ते यं द्विष्मो यश्च नो द्वेष्टि
तमेषां जम्भे दध्मः ॥ ६५॥
नमोऽस्तु रुद्रेभ्यो ये पृथिव्यां येषामन्नमिषवः ।
तेभ्यो दश प्राचीर्दश दक्षिणाः दश प्रतीचीर्दशोचीर्दशोर्ध्वाः ।
तेभ्यो नमोऽस्तु ते नोऽवन्तु ते नो मृडयन्तु ते यं द्विष्मो यश्च नो द्वेष्टि
तमेषां जम्भे दध्मः ॥ ६६॥
इति रुद्रे पञ्चमोऽध्यायः ॥ ५
अथ षष्ठोऽध्यायः ॥
त्र्यम्बक यजनं
हरिः ॐ ॥ वयं-सोमव्रते तव मनस्तनूषु बिभ्रतः ॥ प्रजावन्तः सचेमहि ॥ १॥
एष ते रुद्रभागः सहस्वस्राऽम्बिकया तं जुषस्व स्वाहैष ते रुद्रभाग आखुस्ते पशुः ॥ २॥
अव रुद्रमदीमहि अव देवं त्र्यम्बकम् ॥
यथा नो वस्यसस्करद्यथा नः श्रेयसस्करद्यथा नो व्यवसायात् ॥ ३॥
भेषजमसि भेषजं गवेऽश्वाय पुरुषाय भेषजम् । सुखं मेषाय मेष्यै ॥ ४॥
त्र्यम्बकं यजामहे । सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय माऽमृतात् ।
त्र्यम्बकं यजामहे सुगन्धिं पतिवेदनम् । उर्वारुकमिव बन्धनादितो मुक्षीय मामुतः ॥ ५॥
एतत्ते रुद्रावसं तेन परो यमूजवतोऽतीहि ॥
अवतत धन्वा पिनाकवासस्कृत्तिवासा अहिंसन् नः शिवोऽतीहि ॥ ६॥
त्र्यायुषं जमदग्ने कश्यपस्य त्र्यायुषम् ॥ यद्देवेषु त्र्यायुषं तन्नोऽस्तु त्र्यायुषम् ॥ ७॥
शिवो नामाऽसि स्वधितिस्ते पिता नमस्तेऽस्तु मा मा हिंसीः ॥
निवर्तयाम्यामुषेऽन्नाद्याय प्रजननाय रायस्पोषाय सुप्रजास्त्वाय सुवीर्याय ॥ ८॥
इति रुद्रे षष्ठोऽध्यायः ॥ ६
अथ सप्तमोऽध्यायः ॥
सर्वस्वार्पणं
उग्नश्च भीमश्च ध्वान्तश्च धुनिश्च । सासहवांश्चाभियुग्वा च विक्षिपः स्वाहा ॥ १॥
अग्निं हृदयेनाशनिं हृदयाग्रेण पशुपतिं कृत्स्नहृदयेन भवं यक्ना ॥
शर्वं मतस्नाभ्यामीशानं मन्युना महादेवमन्तःपर्शव्येनोग्रं देवं वनिष्ठुना
वसिष्ठहनुः शिङ्गीनि कोश्याभ्याम् ॥ २॥
उग्रँल्लोहितेन मित्रं सौव्रत्येन रुद्रं दौव्रत्येन इन्द्रं प्रक्रीडेन मरुतो बलेन साध्यान्प्रमुदा ।
भवस्य कण्ठ्यं रुद्रस्यान्तः पार्श्व्यं महादेवस्य यकृच्छर्वस्य वनिष्ठुः पशुपतेः पुरीतत् ॥ ३॥
लोमभ्यः स्वाहा लोमभ्यः स्वाहा त्वचे स्वाहा त्वचे स्वाहा लोहिताय स्वाहा लोहिताय स्वाहा
मेदोभ्यः स्वाहा मेदोभ्यः स्वाहा मांसेभ्यः स्वाहा मांसेभ्यः स्वाहा स्नावभ्यः स्वाहा स्नावभ्यः स्वाहा
अस्थभ्यः स्वाहा अस्थभ्यः स्वाहा मज्जभ्यः स्वाहा मज्जभ्यः स्वाहा ॥
रेतसे स्वाहा पायवे स्वाहा ॥ ४॥
आयासाय स्वाहा प्रायासाय स्वाहा संयासाय स्वाहा वियासाय स्वाहोद्यासाय स्वाहा ॥
शुचे स्वाहा शोचते स्वाहा शोचमानाय स्वाहा शोकाय स्वाहा ॥ ५॥
तपसे स्वाहा तप्यते स्वाहा तप्यमानाय स्वाहा तप्ताय स्वाहा घाय स्वाहा ॥
निष्कृत्यै स्वाहा प्रायश्चित्यै स्वाहा भेषजाय स्वाहा ॥ ६॥
यमाय स्वाहा अन्तकाय स्वाहा मृत्यवे स्वाहा ॥
ब्रह्मणे स्वाहा ब्रह्महत्यायै स्वाहा विश्वेभ्यो देवेभ्यः स्वाहा द्यावापृथिवीभ्यां स्वाहा ॥ ७॥
इति रुद्रे सप्तमोऽध्यायः ॥ ७
अथ अष्टमोऽध्यायः ॥
॥ चमकप्रश्नः ॥
वाज॑श्च मे प्रसवश्च मे प्रय॑तिश्च मे प्रसितिश्च मे धीतिश्च मे क्रतुश्च मे स्वरश्च मे
श्लोकश्च मे श्रवश्च मे श्रुतिश्च मे ज्योतिश्च मे स्वश्च मे यज्ञेन कल्पन्ताम् ॥ १॥
प्राणश्च मेऽपानश्च मे व्यानश्च मेऽसुश्च मे चित्तञ्च मेऽधीतं च मे वाक्च मे मनश्च मे
चक्षुश्च मे श्रोत्रं च मे दक्षश्च मे बलं च मे यज्ञेन कल्पन्ताम् ॥ २॥
ओजश्च मे सहश्च मात्मा च मे तनूश्च मे शर्म च मे वर्म च मेऽङ्गानि च
मेऽस्थीनि च मे परूंषि च मे शरीराणि च म आयुश्च मे जरा च मे यज्ञेन कल्पन्ताम् ॥ ३॥
ज्यैष्ठ्ंय च माधिपत्यं च मे मन्युश्च मे भाम॑श्च मे अम्भश्च जेमा च मे
महिमा च मे वरिमा च मे प्रथिमा च मे वर्षिमा च मे द्राधिमा च मे
वृद्धं च मे वृद्धिश्च मे युज्ञेन कल्पन्ताम् ॥ ४॥
सत्यं च मे श्रद्धा च मे जगच्च मे धनं च मे विश्वं च मे महश्च मे क्रीडा च मे
मोद॑श्च मे जातं च मे जनिष्याणं च मे सूक्तं च मे सुकृतं च मे यज्ञेन कल्पन्ताम् ॥ ५॥
ऋतं च मेऽमृतं च मे युक्ष्मं च मे नामयच्च मे जीवातुश्च मे दीर्घायुत्वं च मे
ऽनमित्रं च मेऽभयं च मे सुखं च मे शय॑नं च मे सूषाश्च मे सुदिनं च मे
यज्ञेन कल्पन्ताम् ॥ ६॥
यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वं च मे महश्च मे सँविच्च मे
ज्ञात्रं च मे प्रसूश्च मे प्रसूश्च मे सीर च मे लय॑श्च मे यज्ञेन कल्पन्ताम् ॥ ७॥
शं च मे मयश्च मे प्रियं च मेऽनुकामश्च मे कामश्च मे सौमनसश्च मे
भगश्च मे द्रविणं च मे भद्रं च मे श्रेयश्च मे वसीयश्च मे यशश्च मे यज्ञेन कल्पन्ताम् ॥ ८॥
ऊर्क्च मे सूनृता च मे पयश्च मे रसश्च मे घृतं च मे मधु च मे सग्धिश्च मे
सपीतिश्च मे कृषिश्च मे वृष्टिश्च मे जैत्र च मे औद्भिद्यं च मे यज्ञेन कल्पन्ताम् ॥ ९॥
रयिश्च मे रायश्च मे पुष्टं च मे पुष्टिश्च मे विभु च मे प्रभु च मे पूर्णं च मे
पूर्णतरं च मे कुयवं च मेऽक्षितं च मेऽन्नं च मे क्षुच्च मे यज्ञेन कल्पन्ताम् ॥ १०॥
वित्तं च मे वेद्यं च मे भूतं च मे भविष्यच्च मे सुगं च मे सुपथ्य च मे ऋद्धं च मे
ऋद्धिश्च मे क्लृप्तं च मे क्लृप्तिश्च मे मतिश्च मे सुमतिश्च मे यज्ञेन कल्पन्ताम् ॥ ११॥
व्रीहयश्च मे यवाश्च मे माषाश्च मे तिलाश्च मे मुद्गाश्च मे खल्वाश्च मे प्रियङ्गवश्च मे
अणवश्च मे श्यामाकाश्च मे नीवाराश्च मे गोधूमाश्च मे मसूराश्च मे यज्ञेन कल्पन्ताम् ॥ १२॥
अश्मा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे सिकताश्च मे वनस्पतयश्च मे
हिरण्यं च मेऽयश्च मे श्यामं च मे लोहं च मे सीसं च मे त्रपु च मे यज्ञेन कल्पन्ताम् ॥ १३॥
अग्निश्च मे आपश्च मे वीरुधश्च मे ओषधयश्च मे कृष्टपच्याश्च मेऽकृष्टपुच्याश्च मे
ग्राम्याश्च मे पशवः आरण्याश्च मे वित्तं च मे वित्तिश्च मे भूतं च मे भूतिश्च मे यज्ञेन कल्पन्ताम् ॥ १४॥
वसु च मे वसतिश्च मे कर्म च मे शक्तिश्च मेऽर्थश्च मे एमश्च मे
इत्या च मे गतिश्च मे यज्ञेन कल्पन्ताम् ॥ १५॥
अग्निश्च मे इन्द्रश्च मे सोम॑श्च मे इन्द्रश्च मे सविता च मे इन्द्रश्च मे सरस्वती च मे
इन्द्रश्च मे पूषा च मे इन्द्रश्च मे बृहस्पतिश्च मे इन्द्रश्च मे यज्ञेन कल्पन्ताम् ॥ १६॥
मित्रश्च मे इन्द्रश्च मे वरुणश्च मे इन्द्रश्च मे धाता च मे इन्द्रश्च मे त्वष्टा च मे
इन्द्रश्च मे मरुतश्च मे इन्द्रश्च मे विश्वेदेवाश्च च मे इन्द्रश्च मे यज्ञेन कल्पन्ताम् ॥ १७॥
पृथिवी च मे इन्द्रश्च मे अन्तरिक्षं च मे इन्द्रश्च मे द्यौश्च मे इन्द्रश्च मे समाश्च मे
इन्द्रश्च मे नक्षत्राणि च मे इन्द्रश्च मे दिशश्च मे इन्द्रश्च मे यज्ञेन कल्पन्ताम् ॥ १८॥
अंशुश्च मे रश्मिश्च मेऽदाभ्यश्च मेऽधिपतिश्च मेऽउपांशुश्च मेऽन्तर्यामश्च मे
ऐन्द्रवायवश्च मे मैत्रावरुणश्च मे आश्विनश्च मे प्रतिप्रस्थानश्च मे शुक्रश्च मे
मन्थी च मे यज्ञेन कल्पन्ताम् ॥ १९॥
आग्रयणश्च मे वैश्वदेवश्च मे ध्रुवश्च मे वैश्वानरश्च मे
ऐन्द्राग्नश्च मे मुहावैश्वदेवश्च मे मरुत्वतीयाश्च मे
निष्केवल्यश्च मे सावित्रश्च मे सारस्वतश्च मे पात्क्नीवतश्च मे
हारियोजनश्च मे यज्ञेन कल्पन्ताम् ॥ २०॥
स्रुचश्च मे चमसाश्च मे वायव्यानि च मे द्रोणकलशश्च मे ग्रावाणश्च
मेऽधिषवणे च मे पतभृच्च मे आधवनीय॑श्च मे वेदिश्च मे बर्हिश्च मेऽवभृथश्च मे
स्वगाकारश्च मे यज्ञेन कल्पन्ताम् ॥ २१॥
अग्निश्च मे घर्मश्च मेऽर्कश्च मे सूर्यश्च मे प्राणश्च मेऽश्वमेधश्च मे पृथिवी च
मेदितिश्च मेऽदितिश्च मे द्यौश्च मेऽङ्गुलय शक्वरयो दिशश्च मे यज्ञेन कल्पन्ताम् ॥ २२॥
व्रतं च मे ऋतवश्च मे तपश्च मे संवत्सरश्च मेऽहोरात्रे ऊर्वष्ठीवे
बृहद्रथन्तरे च मे यज्ञेन कल्पन्ताम् ॥ २३॥
एका च मे तिस्रश्च मे तिस्रश्च मे पञ्च च मे पञ्च च मे सप्त च मे सप्त च मे
नव च मे नव च मे एकादश च मे एकादश च मे त्रयोदश च मे त्रयोदश च मे
पञ्चदश च मे पञ्चदश च मे सप्तदश च मे सप्तदश च मे नवदश च मे नवदश च म
एकविंशतिश्च मे एकविंशतिश्च मे त्रयोविंशतिश्च मे त्रयोविंशतिश्च मे पञ्चविंशति च मे
पञ्चविंशतिश्च मे सप्तविंशतिश्च मे सप्तविंशतिश्च मे नवविंशतिश्च मे नवविंशतिश्च मे
एकत्रिंशच्च म एकत्रिंशच्च मे त्रयस्त्रिंशच्च मे यज्ञेन कल्पन्ताम् ॥ २४॥
इति रुद्रेऽष्टमोऽध्यायः ॥ ८
अथ रुद्रे नवमोऽध्यायः ॥
शान्तिमन्त्राः
ऋचं वाचं प्रपद्ये मनो यजुः प्रपद्ये सामप्राणं प्रपद्ये चक्षुः श्रोत्रं प्रपद्ये ॥
वागोजः सहौजो मयि प्राणापानौ ॥ १॥
यन्मे छिद्रं चक्षुषो हृदयस्य॒ मनसो वाऽतितृणं म्बृहस्पतिर्मे दधातु ॥
शं नो भवतु भुवनस्य यः पतिः ॥ २॥
भूर्भुवः स्वः । तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि ॥ धियो यो नः प्रचोदयात् ॥ ३॥
कया नश्चित्र आभुवदूतीः सदावृधः सखा । कया शचिष्ठया वृता ॥ ४॥
कस्त्वा । सत्यो दानां महिष्ठो मत्सदन्धसः ॥ दृढाचिदारुजे वसु ॥ ५॥
अभीषुणः सखीनामधिता जरितृणाम् ॥ शतं भवास्यूतिभिः ॥ ६॥
कया त्वं न ऊत्याऽभिप्रमन्दसे वृषन् । कया स्तोतृभ्यः आभर ॥ ७॥
इन्द्रो विश्वस्य राजति ॥ शं नोऽअस्तु द्विपदे शं चतुष्पदे ॥ ८॥
शं नो मित्रः शं वरुणः शं नो भवत्वर्यमा ॥ शं न इन्द्रो बृहस्पतिः शं नो विष्णुरुरुक्रमः ॥ ९॥
शं नो वातः पवतां शं नस्तपतु सूर्यः ॥ शं नः कनिक्रदद्देवः पर्जन्योऽभिवर्षतु ॥ १०॥
अहानि शं भवन्तु नः शं-रात्रीः प्रतिधीयताम् ॥
शं न इन्द्राग्री भवतामवोभिः शं न इन्द्रावरुणा रातहव्या ॥
शं न इन्द्रापूषणा वाजसातौ शं इन्द्रासोमा सुविताय शं योः ॥ ११॥
शं नो देवीरभिष्टये आपो भवन्तु पीतये ॥
शं योरभिस्रवन्तु नः ॥ १२॥
स्योना पृथिवि नो भवानुक्षरा निवेशनी ॥ यच्छा नः शर्म सप्रथाः ॥ १३॥
आपो हिष्ठामयोभुवस्ताः नः ऊर्जे दधातन ॥ महे रणाय चक्षसे ॥ १४॥
यो वः शिवतमो रसस्तस्य भाजयतेह न उशतीरिव मातर ः ॥ १५॥
तस्मै अरं गमाम वो यस्य क्षयाय जिन्वथ ॥ आपो जनयथा च नः ॥ १६॥
द्यौः शान्तिरन्तरिक्षः शान्तिः पृथिवी शान्तिरापः शान्तिरोषधयः शान्तिः ॥
वनस्पतयः शान्तिर्विश्वेदेवाः शान्तिर्ब्रह्म शान्तिः सर्वं शान्तिः शान्तिरेव शान्तिः
सा मा शान्तिरेधि ॥ १७॥
दृते-दृंह मा मित्रस्य मा चक्षुषा सर्वाणि भूतानि समीक्षन्ताम् ॥
मित्रस्याहं चक्षुषा सर्वाणि भूतानि समीक्षे ॥ मित्रस्य चक्षुषा समीक्षामहे ॥ १८॥
दृते-दृंह मा । ज्योक्ते सन्दृशि जीव्यासं ज्योक्ते सन्दृशि जीव्यासम् ॥ १९॥
नमस्ते हरसे शोचिषे नमस्तेऽस्त्वर्चिषे ॥ अन्याँस्तेऽस्मत्तपन्तु हेतयः पावकोऽस्मभ्यं शिवो भव ॥ २०॥
नमस्ते । अस्तु विद्युते नमस्ते स्तनयित्नवे ॥ नमस्ते भगवन्नस्तु- यतः स्वः समीहसे ॥ २१॥
यतो यतः समीहसे ततो नोऽभयं कुरु ॥
शं नः कुरु प्रजाभ्योऽभयं नः पशुभ्यः ॥ २२॥
सुमित्रिया न आपः ओषधयः सन्तु दुर्मित्रियास्तस्मै सन्तु योऽस्मान्द्वेष्टि यं च वयं द्विष्मः ॥ २३॥
तच्चक्षुर्देवहितं पुरस्ताच्छुक्रमुच्चरत् ॥ पश्येम शरदः शतं ज्जीवेम शरदः-शतं
शृणुयाम शरदः शतं प्रब्रवाम शरदः शतमदीनाः स्याम शरदः शतं भूयश्व शरदः शतात् ॥ २४॥
इति रुद्रे शान्त्यध्यायः ॥ ९
अथ रुद्रे दशमोऽध्यायः ॥
॥ अथ प्रार्थनामन्त्राः ॥
ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ॥
स्वस्ति नस्तार्क्ष्योऽरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥ १॥
पयः पृथिव्यां पय ओषधीषु पयो दिव्यन्तरिक्षे पयो धाः ।
पयस्वतीः प्रदिशः सन्तु मह्यम् ॥ २॥
विष्णो रराटमसि विष्णोः श्नप्त्रेस्थो विष्ष्णोः स्यूरसि विष्णोर्धृवोऽसि ॥
वैष्णवमसि वैष्णवे त्वा ॥ ३॥
अग्निर्देवता वातौ दे॒वता सूर्यो देवता चन्द्रमा देवता वसवो देवता
रुद्रा देवताऽऽदित्या देवता मरुतो देवता विश्वेदेवा देवता बृहस्पतिर्देवतेन्द्रो देवता वरुणो देवता ॥ ४॥
सद्योजातं प्रपद्यामि सद्योजाताय वै नमो नमः ॥ भवे भवे नातिभवे भवस्व मां भवोद्भयाय नमः ॥ ५॥
वामदेवाय नमो ज्येष्ठाय नमः श्रेष्ठाय नमो रुद्राय नमः कालाय नमः कलविकरणाय नमः
बलविकरणाय नमो बलाय नमो बलप्रमथनाय नमः सर्वभूतदमनाय नमो मनोन्मनाय नमः ॥ ६॥
अघोरेभ्योऽथ घोरेभ्यो धोरघोरतरेभ्यः । सर्वेभ्यः सर्वशर्वेभ्यो नमस्तेऽस्तु रुद्ररूपेभ्यः ॥ ७॥
तत्पुरुषाय विद्महे महादेवाय धीमहि । तन्नो रुद्रः प्रचोदयात् ॥ ८॥
ईशानः सर्वविद्यानामीश्वरः सर्वभूतानाम् ।
ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिर्ब्रह्मा शिवो मेऽस्तु सदाशिवोऽम् ॥ ९॥
शिवोनामासि स्वधितिस्ते पिता नमस्तेऽस्तु मां मा हिंसीः ॥
निवर्तयाम्यायुषेऽन्नाद्याय प्रजननाय रायस्पोपाय सुप्रजास्त्वाय सुवीर्याय ॥ १०॥
विश्वानि देव सवितर्दुरितानि परासुव ॥ यद्भद्रं तन्न आसुव ॥ ११॥
द्यौः शान्तिरन्तरिक्षः शान्तिः पृथिवी शान्तिरापः शान्तिरोषधय शान्ति ।
वनस्पतयः शान्तिर्विश्वेदेवाः शान्तिर्ब्रह्मशान्तिः सर्वं शान्तिः शान्तिरेव शान्तिः सामाशान्तिरेधि ॥ १२॥
अनेन रुद्राभिषेककर्मणा भवानीशङ्करः प्रीयतां न मम इति
रुद्राष्टाध्यायी समाप्ता ॥
इति श्रीशुक्लयजुर्वेदीय रुद्राष्टाध्यायी समाप्ता ।
0 Comments