ततो पुष्पाक्षत बिल्वपत्राणि गृहीत्वा ध्यायेत्
ॐ ह्रौं ह्रीं जूं सः पशुपतये नमः॥
ॐ ततो मणिस्तम्भ विराजमानं हिरण्मयं द्वारकपाट तोरणं,
महार्हनीलामणिवर्य वेदिका तदैव ध्यायेच्छिखरे शिवालयम्।
संतप्त हेमकलशैर्बहुभिर्विचित्रैः प्रोद्भासितं स्फटिक सौधवलाभिरामं,
रम्यं च तच्छिववरंपुरपीठमध्ये लिंगंस्वरत्नसहितं मनसाभिध्याये॥
ॐ ह्रौं ह्रीं जूं सः शिवाय नमः। प्रपन्नपारिजाताय स्वाहा॥
आवाहनम्
अक्षतेन्
ॐ नमस्ते रुद्र मन्न्यव ऽउतोत इषवे नमः। बाहुभ्यां मुतते नमः॥
आगच्छ देवदेवश महादेवा भयंकरः।
गृहाणसहपार्वत्या तव पूजां करोम्यहम्॥
(पूजा मयाकृतम्)॥
आसनम्
पुष्पेन्
ॐ या ते रुद्र शिवातनूर घोरा पापकाशिनी।
तया नस्तन्वाशन्तमया गिरिशन्ताभिचाकशीहि॥
विश्वेश्वर महादेव राजराज प्रियेश्वर।
आसनं दिव्यमीशान दासोऽहं परमेश्वर॥
पाद्यम्
जलेन्
ॐ यामिषुं गिरिशन्त हस्ते विभर्ष्यस्तवे।
शिवां गिरित्रतां कुरु मा हिꣳसीः पुरुषं जगत्॥
महादेव महेशान महानन्द परात्परं।
गृहाण पाद्यं पाद्यन्ते पार्वती सहितेश्वर॥
हस्तयोः अर्घम्
जलाक्षत पुष्प बिल्वपत्र गन्धैः
ॐ शिवेन वचसा त्वा गिरिशाच्छा वदामसि।
यथा नः सर्वमिज्जगद् यक्ष्मꣳसुमना असत्॥
तापत्रय हरं दिव्यं परमानन्द लक्षणम्।
तापत्रय विमोक्षाय तवार्घ्यं कल्पयाम्यहम्॥
ॐ तत्पुरुषाय विद्महे महादेवाय धीमहि। तन्नो रुद्रः प्रचोदयात्॥
आचमनम्
ॐ अध्यवोचदधिवक्ता प्रथमोदैव्योभिषक्।
अहींश्च सर्वान्जम्भयन्त्सर्वांश्च यातुधान्योऽधराचीः परासुवः॥
त्रिपुरान्तक दीनार्तनाशिन् श्रीकण्ठभूपते।
गृहाणाचमनं चारु पवित्रोदककल्पितम्॥
मधुपर्कम्
ॐ अन्नपतेन्नस्य नो देह्यमीवस्य शुष्मिणः।
प्र पदातारं तारिषं ऊर्ज्जनो धेहि द्विपदे चतुष्पदे॥
उमाकान्त महादेव तत्वज्ञान स्वरूपिणम्।
मधुपर्क गृहाणेदं पार्वतीपतये विभो।
इदं मधु मया दत्तं तव तुष्ट्यर्थमेव च।
गृहाणशम्भोमे भक्त्या सुप्रसन्नो भव प्रभो॥
आचमनम्
ॐ आच्याजानु दक्षिणतो निषधेमं यज्ञमभि गृणीत विश्वे।
मा हिꣳसिष्टः पितरः केनचिन्नो यद्वड आगः पुरुषता कराम्॥
त्रिपुरारि नमस्तुभ्यं त्रिदशैरभिवन्दितं।
गंगाहृतेन तोयेन शीघ्रमाचमनं कुरु॥
पयः स्नानम्
ॐ पयः पृथिव्यां पय ओषधीषु पयोदिव्यऽन्तरिक्षे पयोधाः।
पयस्वतीः प्रदिशः सन्तु मह्यम्॥
शुद्धस्नानम्
ॐ आपोहिष्ठा मयोभुवस्ता न ऊर्जे दधातनः। महेरणाय चक्षसे॥
दधिम्
ॐ दधिक्राब्णो अकारिषं जिष्णोरश्वस्य वाजिनः।
सुरभिनो मुखाकरत्प्रण आयूꣳषितारिषत्॥
-पुनर्जलेन।
घृतम्
ॐ घृतं मिमिक्षे घृतमस्य योनिर्घृतेश्रितो घृतमवस्यधाम।
अनुष्वधमावहमादय स्व स्वाहा कृतं वृषभवर्क्षि हव्यम्॥
शुद्धस्नानम्
ॐ तस्माऽअरं गगाम वो अस्य क्षयाय जिन्वथ। आपो जन यथा च नः॥
मधुस्नानम्
ॐ मधुवाता ऋतायते मधुक्षरन्ति सिन्धवः।
माध्वीर्नः सन्त्वोषधि॥ मधुनक्त मुतोषसो मधुमत्पार्थिवꣳरजः।
मधुद्यौरस्तु नः पिता॥ मधुमान्नो वनस्पतिर्मधु मां २ अस्तु सूर्यः।
माध्वीर्गावो भवन्तु नः॥
शुद्धस्नानम्
ॐ आपो अस्मान्मातरः शुन्धयन्तु घृतेन नो घृतस्य पुनन्तु।
विश्वꣳहिरि प्रं प्रवहन्ति देवी रुदिदाभ्यः शुचिरापूत एभि॥
शर्करास्नानम्
ॐ अपाꣳरसमुद्ववयसꣳसूर्ये सन्तꣳसमाहितम्।
अपाꣳरसस्य यो रसस्तं वो गृह्णाम्युत्तममुपयाम गृहीतोऽसीन्द्राय त्वा जुष्टं गृह्णाम्येष ते योनिरिन्द्राय त्वा जुष्टतमम्॥
शुद्धस्नानम्
ॐ यो वः शिवतमो रसस्तस्य भाजयते हनः। उशतीरिवमातरः॥
पंचामृतम्
ॐ पंचनद्यः सरस्वतीमपि यन्ति सस्त्रोतसः।
सरस्वती तु पंचधा सो देशेऽभवत्सरित॥
सर्पिस्सुदुग्धदधिमाक्षिकशर्कराद्यै र्भागैर्युतैः कनक कुम्भभृतैः समन्त्रैः।
कर्पूर केशर सुगन्धिभिरिन्दु मौले स्नानार्थमर्पितमिदं विधिवत् गृहाण॥
शुद्धोदक
ॐ शुद्धवालः सर्वशुद्धवालो मणिवालस्तआश्विनः।
श्येतः श्येताक्षो ऽरुणस्ते रुद्राय पशुपतये कर्णायामा अवलिप्ता रौद्रा नभो रूपाः पार्जन्याः॥
ईक्षुरस
ॐ उर्क्चमे सुनृताचमे पयश्चमे रसस्चमे घृतंचमे मधुचमे सग्धिश्चमे सपीतिश्चमे कृषिश्चमे वृष्टिश्चमे जैत्रंचम ऽऔद्भिद्यंचमे यज्ञेन कल्पन्ताम्।
-पुनर्जलेन।
गंधोदक
ॐ अꣳशुनाते अꣳशुः पृच्यतां परुषापरुः।
गन्धस्ते सोममवतु मदाय रसो अच्युतः।
-पुनर्जलेन।
कुशोदक
ॐ शरासः कुशरासो दर्भासाः सैर्याउत।
मोज्जाअदृष्टा वैरिणा सर्वेसाकं न्यलिप्सत्॥
-पुनर्जलेन।
पुष्पोदक
ॐ कोदण्ड खण्डित पुरत्रियारोषच्चूर्णीकृता, समशराप ललाट वक्त्रेत्स्तुत्या।
सुरादिभि रजतस्त्रमतिस्तु तापं, स्नानायतेस्तु सुरभिकृत पुष्पतोयं॥
-पुनर्जलेन।
फलोदक
ॐ खर्जूरजम्बुकदली पनसाम्रपक्व, पूगीकपित्थ बदरीजमुदुम्बराणि।
धात्रीफलानि मनोहराणि भक्त्या निरन्तरमहं स्नपयामि शम्भो॥
-पुनर्जलेन।
रत्नोदक
ॐ रत्नोदकैर्मणिगणैरुदितार्क बिम्ब तुल्यैसमान विमलैर्गुण मौक्तिकानि।
वज्रप्रवालमणिरन्जितनीलकाद्यैः भक्त्या निरन्तरमहं स्नपयामि शम्भो॥
-पुनर्जलेन।
उष्णोदक
ॐ नमः उष्णीषिणे गिरिचराय कुलुन्चानां पतये नमो नम इषुमद्भ्यो धन्वायिभ्यश्च वो नमो।
नम आतन्वानेभ्यः प्रतिदधानेभ्यश्च वो नमो नम आयच्छद्भ्योस्यद्भयश्च वो नमो नमो विसृजद्भ्यः॥
-पुनर्जलेन।
भस्मोदक
ॐ प्रसद्य भस्मना योनिमपश्च पृथिवीमग्ने।
सꣳसृज्ज्य मातृभिष्ट्वं ज्ज्योतिष्मान् पुनराऽसदः॥
ॐ गिरीशं गणेशं गले नीलवर्णं गवेन्द्राधिरूढ़ गुणातीतरूपम्।
भवं भास्वरं भस्मना भूषिताङ्गं भवानी कलत्रं भजेपंचवत्रम्॥
ॐ गंगाधरं शशिकिशोरधरं त्रिलोकी रक्षाधरं निटिल चन्द्रधरं।
भस्मावधूलनधरं गिरिराजकन्या दिव्यावलोकनधरं वरदं प्रपद्ये॥
-पुनर्जलेन।
कर्पूरोदक
ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम्।
उर्वारुकमिव बन्धनान्मृत्योर्मुक्षिय मामृतात्॥
-पुनर्जलेन।
सुगन्धोदक
(गुलाबजल, केवड़ाजल, इत्र)
ॐ अꣳशुश्चमे रश्मिश्चमे ऽदाभ्यश्चमे ऽधिपतिश्चम ऽउपाꣳशुश्चमे ऽन्तर्यामश्चम ऽऐन्द्रवायवश्चमे मैत्रावरुणश्चम ऽआश्विनश्चमे प्रतिप्रस्थानश्चमे शुक्क्रश्चमे मन्थी च मे यज्ञेन कल्पन्ताम्॥
-पुनर्जलेन।
वर्षाजल
ॐ त्र्यम्बकं यजामहे सुगन्धिं पतिवेदनम्।
उर्वारुकमिव बन्धनादितो मुक्षीयमामुतः॥
-पुनर्जलेन।
अभ्रोदक
ॐ आशुः शिशानो वृषभो न भीमो घनाघनः।
क्षोभणश्चर्षणीनाम्। सङ्क्रन्दनो निमिष ऽएकवीरः शतꣳसेना अजयत्साकमिन्द्रः॥
-पुनर्जलेन।
औषधी
ॐ या ओषधीः पूर्वाजाता देवेभ्यस्त्रियुगं पुरा।
मनैनुबभ्रुणामहꣳशतं धामानि सप्त च॥
ॐ या ऽओषधीः सोमराज्ञीर्विष्ठिता पृथिवीमनु।
बृहस्पतिप्प्रसूता ऽअस्यै सन्दत्तवीर्य्यम्॥
-पुनर्जलेन।
गंगोदक
ॐ स्वात्राः पीता भवत यूमगापो ऽअस्माकमन्तरुदरे सुशेवा ताऽअस्मब्भ्यः म यक्ष्मथा ऽअनमीवा ऽअनागसः स्वदन्तु देवी स्मृताऽ ऋतावृधः॥
गङ्गोदकं च यमुनोदकमेतदीश गोदावरीजलमिदं सरयूजलं च।
रेवोदकं च मम भावनया प्रणीत शुद्धोदकं परिगृहाण सुनुप्रसन्नः॥
ॐ गंगागंगेति यो बू्रयात् योजनानां शतैरपि।
मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति॥
स्मृत्वा जन्मशतं पापं दृष्ट्वा जन्मशतद्वयं।
पीत्वा जन्मसहस्रेषु हरेद्गंगा कलौयुगे॥
-पुनर्जलेन।
अभिषेकस्नानम्
ॐ नमस्ते रुद्र मन्यव उता त इषवे नमः।
बाहुभ्यामुत ते नमः॥१॥
या ते रुद्र शिवा तनूर घोरा ऽपापकाशिनी।
तया नस्तन्वा शन्तमया गिरिशन्ताभिचाकशीहि॥२॥
यामिषुं गिरिशन्त हस्ते विभर्ष्यस्तवे।
शिवां गिरित्र तां कुरु मा हिꣳसीः पुरुषं जगत्॥३॥
शिवेन वचसा त्वा गिरिशाच्छावदामसि।
यथा नः सर्वमिज्जगदयक्ष्मꣳसुमना असत्॥४॥
अध्यवा च दधिवक्ता प्रथमो दैव्योभिषक्।
अहींश्च सर्वान्जम्भयन्त्सर्वाश्च यातुधान्यो ऽधराचीः परासुव॥५॥
असौयस्ताम्रो अरुण उत बभ्रुः सुमंगलः।
ये चैनꣳरुद्रा अभितो दिक्षुश्रिताः सहस्रशो वैषाꣳहेड ऽइमहे॥६॥
असौ यो ऽवसर्पति नीलग्रीवो विलोहितः।
उतैनं गोपा अदृश्रन्नुदहार्यः स दृष्टो मृडयाति नः॥७॥
नमोस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे।
अथो ये अस्य सत्वानोऽहं नेभ्योऽ करं नमः॥८॥
प्रमुन्च धन्वनस्त्वमुभयोरार्त्न्योर्ज्याम्।
याश्च ते हस्त इषवः पराता भगवोवप॥९॥
विज्यं धनुः कपर्दिनो विशल्यो बाणवाँ २ उत॥१०॥
या ते हेतिर्मीढुष्ठम हस्ते बभूव ते धनुः।
तया ऽस्मान्विश्वतस्त्वम यक्ष्मया परिभुज॥११॥
परि ते धन्वनो हेतिरस्मान्वृणक्तु विश्वतः।
अथो य इषुधिस्तवारे अस्मन्निधेहितम्॥१२॥
अवतत्य धनुष्ट्वꣳसहस्राक्ष शतेषुधे।
निशीर्य शल्यानां मुखा शिवो नः सुमनाभव॥१३॥
नमस्त आयुधायानातनाय धृष्णवे।
उभाभ्यामुत ते नमो बाहुभ्यां तव धन्वने॥१४॥
मानोमहान्तमुतमानो अर्भकं मान उक्षन्तमुतमानउक्षितम्।
मानो वधीः पितरं मोतमातरं मानः प्रियास्तन्वोरुद्ररीरिषः॥१५॥
मानस्तोके तनये मान आयुषिमानो गोषुमानो अश्वेषुरीरिषः।
मानो वीरान् रुद्रभामिनोवधीर्हविष्मन्तः सदमित्त्वा हवामहे॥१६॥
आचमनम्
ॐ अध्यवोचदधिवक्ता प्रथमोदैव्योभिषक्।
अहींश्च सर्वान्जम्भयन्त्सर्वाश्च यातु धान्योऽ धराचीः परासुव॥
त्रिपुरारि नमस्तुभ्यं त्रिदशैरभिवन्दितम्।
मयादत्तमिदं तोयं गृहाणाचमनं कुरु॥
सुगन्धित तैलाभ्यंगम्
ॐ द्रुपदादिव मुमुचानः स्विन्नः स्नातोमलादिव।
पूतं पवित्रेणे वाज्यमापः शुन्धन्तु मैनसः॥
वस्त्रम्
ॐ असौ योऽवसर्पति नीलग्रीवो विलोहितः।
उतैनंगोपा अदृश्रन्नुदहार्यः स दृष्टो मृडयातिनः॥
ॐ युवा सुवासाः परिवीतऽ आगात्सऽ उश्रेयान्भवति जायमानः।
तं धीरासः कवय उन्नयन्ति स्वाध्योमनसादेवयन्तः॥
वस्त्र युग्मं समानीतं पट्टसूत्रेण निर्मितम्।
सूक्ष्मं कार्पास तन्तूनां सुवर्णेन विराजितम्॥
-पुनर्जलेन(आचमनम्)।
यज्ञोपवीतम्
ॐ नमोऽस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे।
अथो ये अस्य सत्वानोऽहं तेभ्योऽ करं नमः॥
ॐ यज्ञोपवीतं परमंपवित्रं प्रजापतेर्यत्सहजं पुरस्तात्।
आयुष्यमग्रयं प्रतिमुन्चशुभ्रं यज्ञोपवीतं बलमस्तु तेजः॥
-पुनर्जलेन(आचमनम्)।
पुनर्वसनम्
ॐ नमः कपर्दिने च व्युप्त केशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशयाय च शिपिविष्ठाय य॥
ॐ सुजातो ज्योतिषा सह शर्म वरुथमाऽ सदत्स्वः।
वासो अग्ने विश्वरूपꣳसंव्ययस्व विभावसो॥
-पुनर्जलेन(आचमनम्)।
गन्धम्
ॐ प्रमुन्च धन्वनस्त्वमुभयोरार्त्न्योर्ज्याम।
याश्चते हस्त इषवः पराता भगवोवपः॥
ॐ त्वां गन्धर्वाऽ अखनँस्त्वामिन्द्रस्त्वां बृहस्पतिः।
त्वमोषधे सोमोराजा विद्वानयक्ष्मादमुच्यत॥
कुंकुमम्
ॐ इन्द्रस्य रूपमृषयो बलाय कर्णाब्भ्याꣳश्रोतं मृतं गुहाब्भ्याम्।
यवानबर्हिर्श्रुविकेसराणि कर्कन्धु यज्ञे मधुरारघमुखात॥
भस्मम्
ॐ प्रसद्य भस्मना योनिमपश्च पृथिवीमग्ने।
सꣳसृज्य मातृभिष्ट्वं ज्ज्योतिष्मान् पुनराऽसदः॥
ॐ यदङ्गसंसर्गकृता वरेण्यं मौलौनिजे सङ्गमयन्ति देवाः।
देहे सदैवाहितविश्वभारे सारे जगत्या वितनोति भस्म॥
अक्षतम्
ॐ नमः शम्भवाय च मयोभवाय च नमशंकराय च मयस्करायच नमः शिवाय च शिवतरायच।
ॐ श्वेतैरखण्डित मनोहरशालिबीजैः संक्षालितैः शुचिजलैश्च सुगन्धिमिश्रैः।
त्वामर्चयामि भगवन्! मनसा सदाहं गौरीपतेमयि निधेहि कृपाकटाक्षम् ॥
सप्तधान्यम्
ॐ व्रीहयश्चमे यवाश्चमे माषाश्चमे तिलाश्चमे मुद्गाश्चमे खल्वाश्चमे प्रियङ्गवश्चमे ऽणचश्चमे श्यामाकाश्चमे नीवाराश्चमे गोधूमाश्चमे मसूराश्चमे यज्ञेनकल्पन्ताम्॥
बिल्वपत्रम्
ॐ नमो बिल्मिने च कवचिने च नमो वर्मिणे च वरुथिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय चाहनन्याय च।
ॐ अमृताद्भवं च श्रीवृक्षं शंकरस्य सदाप्रियम्।
बिल्वपत्रं प्रयच्छामि पवित्रं ते सुरेश्वर॥
त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रयायुधम्।
त्रिजन्मपाप संहारं बिल्वपत्रं शिवार्पणम्॥
मालूर वृक्ष जनितानि मनोहराणि भक्त्यात्वदर्थमनिशं प्रतिपादितानि।
श्रीबिल्वपत्र विपुलानि समर्पितानि गौरीपते परिगृहाण सुकोमलानि॥
बिल्वाष्टकेन नामलिखितं बिल्वपत्रम्
ॐ त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रिधायुतम्।
त्रिजन्म पाप संहारं बिल्व पत्रं शिवार्पणम्॥
काशीवास निवासी च कालभैरव दर्शनम्।
कोटीकन्यामहादानं बिल्वपत्रं शिवार्पणम्॥
दर्शनं बिल्वपत्रस्य स्पर्शनं पापनाशनम्।
अघोरपाप संकाशं बिल्वपत्रं शिवार्पणम्॥
अखण्डैर्बिल्वपत्रैश्च पूजयेच्छिवशंकरम्।
कोटीकन्यामहादानं बिल्वपत्रं शिवार्पणम्॥
गृहाण बिल्पपत्राणि सपुष्पाणि महेश्वरः।
सुगन्धीनि भवानीश शिव त्वं कुसुमप्रियः॥
त्रिशाखैर्बिल्वपत्रैश्च अच्छिद्रैः कोमलैः शुभैः।
तव पूजां करिष्यामि गृहाण परमेश्वर॥
श्रीवृक्षामृतसम्भूतं शंकरस्य सदाप्रियम्।
पवित्रं ते प्रयच्छामि बिल्वपत्रम् सुरेश्वरम्॥
त्रिशाखैर्बिल्वपत्रैश्च कोमलैश्चातिसुन्दरैः।
त्वां पूजयामि विश्वेश प्रसन्नो भव सर्वदा॥
ॐ अमृताद्भव श्रीवृक्षं शंकरस्य सदाप्रियम्।
तत्ते शम्भो प्रयच्छामि बिल्वपत्रं सुरेश्वर॥
पुष्पम्
ॐ नमः पार्याय चावार्याय च नमः प्रतरणाय चोत्तरणायच नमस्तीर्थ्याय च कूल्याय च नमः शष्प्याय च फेन्न्याय च॥
शमीपत्रम्
ॐ अग्नेस्तनूरसि वाचो विसर्जनं देववीयते त्वा गृह्णामि बृहद्ग्रावासि वानस्पत्यः स इदं देवेब्भ्यो हविः शमीष्व सुशमि शमीष्व। हविष्कृदेहि हविष्कृदेहि॥
ॐ ऋतवस्तऽ ऋतुथा पर्वशमीतारो विशासतु।
संवत्सरस्य तेजसा शमीभीः शम्यन्तुत्वा॥
अमंगलानां शमनीं शमनीं दुष्कृतस्य च।
दुःस्वप्न नाशिनीं धम्यां प्रपद्येऽहं शमींशुभाम्॥
तुलसीमन्जरीम्
ॐ शिवोभव प्रजाब्भ्यो मानुषीब्भ्यस्त्वमंगिरः।
म द्यावा पृथिवीऽ अभिशोचीर्म्मान्तरिक्षम्मावनस्पतीम्॥
कनकपुष्पं फलं वा
ॐ कार्षिरसि समुद्द्रस्य त्वाक्षित्याऽ उन्नयामि।
समापोऽ अद्भिरग्मत समोषधिभिरोषधीः॥
ॐ धीरंधैर्य परीक्षार्थ धारितं परमेष्ठिना।
धत्तूरं कण्टकाकीर्णं गृहाण परमेश्वर॥
सुगन्धित द्रव्यम्
ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम्।
उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीयमामृतात्॥
ॐ श्रीकेतकीबकुलचम्पकमल्लिकानां, संभृत्यसार सुचितं किल गन्धद्रव्यम्।
पात्रे हाटकमये मणिरन्जितान्मे। तुलगृहाण जगदीश सुगन्धि युक्ताम्॥
आभूषणम्
ॐ युवंतमिन्द्रा पर्व्वताः पुरोयुधा योनऽ एतन्याद पतन्तमिद्धत वज्रेणतन्तमिद्धतम्।
दूरेतत्ताय छन्त्सद्गहन यदिनक्षत्॥
वज्रमाणिक्यवैदूर्यमुक्ता विद्रुममण्डितम्।
पुष्पराग समायुक्तं भूषणं प्रतिगृह्यताम्॥
नानापरिमल द्रव्यम्
ॐ अहिरिव भोगैः पर्येतिबाहुं ज्यायाहेतिं परिबाधमानः।
हस्तघ्नो विश्वावयुनानि विद्वान पुमान पुमाꣳसं परिपातु विश्वतः॥
ॐ श्वेतातिरेणु सहितं शुभरक्तचूर्णं सिंदूरचूर्ण विपुलान्वित पीतचूर्णम्।
कर्पूरकेसर सुगन्धि सुवासितं च सौभाग्य चूर्णमुररी कुरु दीनबन्धो॥
सिन्दूरम्
ॐ सिन्धोरिव प्राध्वनो शूघनाशोवातप्रमियः पतयन्ति यह्वाः।
घृतस्य धाराअरुषोनवाजी काष्ठा भिन्दन्नूर्मिभिः पिन्वमानः॥
अंगपूजनम्
ॐ शिवाय नमः पादौ पूजयामि।
ॐ सर्वात्मने नमः शिरः पूजयामि।
ॐ हराय नमः ललाटं पूजयामि।
ॐ त्रिनेत्राय नमः नेत्रान्पूजयामि।
ॐ इन्दुमुखाय नमः मुखं पूजयामि।
ॐ असितकण्ठाय नमः कण्ठं पूजयामि।
ॐ वामदेवाय नमः स्कन्धौ पूजयामि।
ॐ सद्योजाताय नमः कर्णौ पूजयामि।
ॐ वृषभध्वजाय नमः भुजौ पूजयामि।
ॐ अघोराय नमः हृदयं पूजयामि।
ॐ तत्पुरुषाय नमः स्तनौ पूजयामि।
ॐ ईशानाय नमः उदरं पूजयामि।
ॐ ज्ञानमूर्तये नमः कटिं पूजयामि।
ॐ अनन्तवैराग्य सिंहाय नमः उरुं पूजयामि।
ॐ अनन्तैश्वर्याय नमः जानुनीं पूजयामि।
ॐ प्रधानाय नमः जंघौ पूजयामि।
ॐ व्योमात्मने नमः गुल्फौ पूजयामि।
ॐ व्योमकेशाय नमः केशान्पूजयामि।
ॐ आत्मरूपाय नमः पृष्ठं पूजयामि।
ॐ वामेपार्वत्यै नमः हस्तौ पूजयामि।
ॐ तुष्टे नमः सर्वाङ्गं पूजयामि॥
- इत्यङ्ग पूजनम् ततो-
धूपम्
ॐ या ते हेतिर्मीढुष्टम हस्ते वभूव ते धनुः।
तयाऽस्मान्विश्व तस्त्वयक्ष्मया परिभुज॥
ॐ कालाङ्गुरोश्च घृतमिश्रित गुग्गुलस्य, धूपोमयाविरचितो भवतः पुरस्तात्।
आघ्राय तं शुचि मनोहर गन्धचूर्णं, तूर्णं विनाशय महेश्वर मोहजालम्॥
दीपम्
ॐ परितेधन्वनो हेतिरस्मान् वृणक्तुविश्वतः।
अथोयइषुधिस्तवारे अस्मन्निधेहितम्॥
ॐ पूर्णे घृतेन गिरिजेश सुवर्णपात्रे, कौसुम्भ सूत्र दृढ़वर्तिविराजमानः।
दीपः पुरस्तव मयारचितो य एष, शीघ्रं विनाशयतु मे दुरितान्धकारम्॥
नैवेद्यम्
ॐ अवतत्य धनुष्ट्वꣳसहस्राक्षशतेषुधे।
निशीर्य शल्यानां मुखाशिवो नः सुमना भव॥
ॐ जिह्वासुधां कनकपात्र विराजमान मन्त्रादिकं मधुरशाकफलावलीढम्।
पंचामृतल्पुतमनेकविधं रसौधं संकल्पितं त्वमुररी कुरु दीनबन्धोः॥
ॐ प्राणाय स्वाहा। ॐ अपानाय स्वाहा। ॐ व्यानाय स्वाहा। ॐ उदानाय स्वाहा। ॐ समानाय स्वाहा॥
आचमनीयं जलम्
मध्ये जलम्
ॐ नमः सोभ्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नमः श्लोक्याय च वसान्याय च नमः उर्वर्याय च खल्याय च॥
करोद्वर्तनम्
ॐ सिन्चति परिषिन्चन्त्युत्सिन्चन्ति पुनन्ति च।
सुरायै बभ्रवै मदे किन्त्वो वदति किन्त्वः॥
ॐ अꣳशुना ते अꣳशुः पृच्यतां परुषा परु।
गन्धस्ते सोममवतु मदायरसो ऽअच्युतः॥
ताम्बूलम्
ॐ नमस्त आयुधायानातनाय धृष्णवे।
उभाभ्यामुत ते नमो बाहुभ्यां तव धन्वने॥
ॐ मानस्तोके तनये मान आयुषिमानो गोषुमानो अश्वेषुरीरिषः।
मानो वीरान् रुद्रभामिनोवधीर्हविष्मन्तः सदमित्त्वा हवामहे॥
पूगीफलम्
ॐ इमारुद्राय तवसे कपर्दिने क्षयद्वीराय प्रभरामहेमतीः।
यथाशमसद्विपदे चतुष्पदे विश्वं पुष्टं ग्रामे अस्मिन्ननातुरम्॥
लवंगम्
ॐ सोमाय लवानालभते त्वष्ट्रे कौलीकान् गोषादिर्देवानां पत्नीब्भ्यः कुलीका देवजामिब्भ्योऽग्नये गृहपतये पारुष्णान्॥
इलायचिम्
ॐ ये पथां पथिरक्षय ऽऐलवृदाऽ आयुर्युधः।
तेषाꣳसहस्त्रयोजनेऽव धन्न्वानि तन्न्मसि॥
जायफलम्
ॐ त्वमग्नेद्युभिस्त्वमाशु शुक्षणिस्त्व मदब्भ्यस्त्व मश्मनस्परि त्वं वनेब्भ्य त्वमोषधिब्भ्य स्त्वं नृणां नृपते जायसे शुचिः॥
जावित्री
ॐ यावतिद्याधा पृथिवी यावच्च सप्त सिन्धवो वितस्थिरे।
तावन्तमिन्द्र ते ग्रहमूर्जा गृह्णाम्यक्षितं मयि गृह्णाम्यक्षितम्॥
ऋतुफलम्
ॐ उदीचीमारोहानुष्टुत्वावतु वैराजꣳसामैक विꣳशस्तोमः शरदृतः फलं द्रविणम्। सीसेन तन्त्रं मनसा मनीषिण ऽऊर्णा सूत्रेण कवयोवयन्ति। अश्विना यज्ञꣳसविता सरस्वतीन्द्रस्य रूपंवरुणोभिषज्यन्। अश्विना धर्मं पातꣳहाध्वनि महर्दिवाभिरुतिभिः॥
सुगन्धित द्रव्यम्
ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम्।
उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीयमामृतात्॥
ॐ श्रीकेतकीबकुलचम्पकमल्लिकानां, संभृत्यसार सुचितं किल गन्धद्रव्यम्।
पात्रे हाटकमये मणिरन्जितान्मे। तुलगृहाण जगदीश सुगन्धि युक्ताम्॥
श्रीफलम्
ॐ याः फलिनीर्या अफला अपुष्पा याश्च पुष्पिणीः।
बृहस्पति प्रसूतास्तानो मुन्चन्त्वꣳहसः॥
दक्षिणा द्रव्यम्
ॐ हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत्।
सदाधार पृथिवींद्यामुतेमां कस्मै देवाय हविषा विधेम्॥
प्रार्थना
शान्तं पद्मासनस्थं शशिधर मुकुटं पन्चवक्त्रं त्रिनेत्रम्।
शूलं वज्रं च खड्गं परशुमभयदं दक्षिणाङ्गे वहन्तम्॥
नगं पाशं च घण्टां डमरुक सहितं साङ्कुशं वामभागे।
ननालंकार युक्तं स्फटिक मणिनिभं पार्वतीशं नमामि ॥
(स्मरामि)॥