🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
भूगोल संज्ञा पुं॰ [सं॰]
१. पृथ्वी ।
२. वह शास्त्र जिसके द्बारा पृथ्वी के ऊपरी स्वरुप और उसके प्राकृतिक विभागों आदि (जैसे, पहाड़, महादेश, देश, नगर, नदी, समुद्र, झील, ड़मरु- मध्य, उपत्यका अधित्यका, वन आदि) का ज्ञान होता है । विशेष— विद्बानों ने भूगोल के तीन मुख्य विभाग किए हैं । पहले विभाग में पृथ्वी का सौर जगत के अन्यान्य ग्रहों और उपग्रहों आदि से संबंध बतलाया जाता और उन सबके साथ उसके सापेक्षिक संबंध का वर्णन होता है । इस विभाग का बहुत कुछ संबंध गणित ज्योतिष से भी है । दूसरे विभाग में पृथ्वी के भौतिक रूप का वर्णन होता है और उससे यह जाना जाता है कि नदी, पहाड़, देश नगर आदि किसी कहते है और अमुक देश, नगर, नदी य़ा पहाड़ आदि कहाँ हैं । साधारणतः भूगोल से उसके इसी विभाग का अर्थ लिया जाता है । भूगोल का तीसरा विभाग राजनीतिक होता है और उसमें इस बात का विवेचन होता है कि राजनीति, शासन, भाषा, जाति और सभ्यता आदि के विचार से पृथ्वी के कौन विभाग है और उन बिभागों का विस्तार और सीमा आदि क्या है ।
३. वह ग्रंथ जिसमें पृथ्वी के ऊपरी स्वरुप और प्राकृतिक विभागों आदि का वर्णन होता है ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
भूगोल पु० भूगोल इव । गोलाकारे मण्डले “मध्ये समन्तादण्डस्य भूगोलो व्योम्नि तिष्ठति । विभ्राणः परमां शक्तिं ब्रह्मणो धारणात्मिकाम्” सू० सि० । तत्स्थानभेदस्तन्मानादिकं च सि० शि० उक्तं यथा “मूमेः पिण्डः शशाङ्कज्ञकविरविकुजेज्यार्किनक्षत्रकक्षा- वृत्तैर्वृत्तो वृतः सन् मृदनिलसलिलव्योमतेजेमयोऽयम् । नान्याधारः स्वशक्त्यैव वियति नियतं तिष्ठतीहास्य पृष्ठे निष्ठं विश्वं च शश्वत् सदनुजमनुजादित्यदैत्यं समन्तात् । सर्वतः पर्वतारामग्रामचैत्यचयैश्चितः । कद- म्बकुसुमग्रन्थिः केसरप्रसरैरिव । मूर्तो धर्त्ता चेद्धरि- त्र्यास्ततोऽन्यस्तस्याप्यन्योऽस्यैवमत्रानवस्था । अन्त्ये कल्प्या चेत् स्वशक्तिः किमाद्ये किं नो भूमेः साष्टमूर्तेश्च मूर्त्तिः? । यथोष्णताऽर्कानलयोश्च, शीतता विधौ, द्रुतिः के, काठिनत्वमश्मनि । मरुच्चलो भूरचला स्वभावतो यतो विचित्रा वत वस्तुशक्तयः । आकृष्टिशक्तिश्च मही- तया यत् स्वस्थं गुरु स्वाभिमुखं स्वशक्त्या । आकृ- ष्यत तत् पततीव भाति समे समन्तात् क्व पतत्वियं खे । भपञ्चरस्य भ्रमणावलोकादाधारशून्या कुरिति प्रतीतिः । खस्थं न दृष्टं च गुरु क्षमातः खेऽधः प्रयातीति वदन्ति बौद्धाः । द्वौ द्वौ रवीन्दू भगणौ च तद्वदेका- न्तरौ तावदयं व्रजेताम् । यदब्रुवन्नेवमनम्बराद्या- ब्रुवीम्यतस्तान् प्रति युक्तयुक्तिम् । भूः खेऽधः खलु यातीति बुद्धिवौद्धीमुधा कथम् । यातायातं तु दृष्ट्वापि खे यत् क्षिप्तं गुरु क्षितिम् । किं गण्यं तव वैगुण्यं द्वैगुण्यं या वृथा कथा । भार्केन्दूनां विलोक्याह्ना ध्रुवमत्स्यपरिभ्रमम् । यदि समा मुकुरोदरसन्निभा भगवती धरणी तरणिः क्षितेः । उपरिदूरगतोऽपि परिभ्रमन् किमु नरैरमरैरिव नेक्ष्यते । यदि निशाजनकः कनकाचलः किमु तदन्तरगः स न दृश्यते । उदगयं ननु मेरुरथांशुमान् कथमुदेति च दक्षिण भागके । ममो यतः स्यात् परिधेः शतांशः पृथ्वी च पृथ्वी, नितरां तनीयान् । नरश्च, तत्पृष्ठगतस्य कृत्स्वा समेव तस्य प्रतिभात्यतः सा । पुरान्तरं चेदि- दमुत्तरं स्यात् तदक्षविश्लेषलवैस्तदा किम् । चक्रां- शकैरित्यनुपातयुक्त्या युक्तं निरुक्तं परिधेः प्रमाणम् । निरक्षदेशात् क्षितिषोडशांशे भवदबन्ती गणितेन य- स्मात् । तदन्तर षाडशसगुणं स्याद् भूमानमस्माद् बहु किं तदुक्तम् । शृङ्गीन्नतिग्रहयुतिग्रहणोदयास्तच्छा- [] यादिकं परिधिना घटतेऽमुना हि । नान्येन तेन जगु रुक्तमहीप्रमाणप्रामाण्यमन्वययुजा व्यतिरेककेण । लङ्का कुमध्ये यमकोटिरस्याः प्राक्, पश्चिमे रोमकपत्तनं च । अधस्ततः सिद्धपुरं सुमेरुः सौम्येऽथ याम्ये बडवानलश्च । कुवृत्तपादान्तरितानि तानि स्थानानि षड् गोलविदी वदन्ति । वसन्ति मेरौ सुरसिद्धसङ्घा और्बे च सर्वे नरकाः सदैत्याः । यो यत्र तिष्ठत्यवनीं तलस्था मात्मानमस्या उपरिस्थित च । स मन्यतेऽतः कुचतुर्थसंस्थामिथश्च ते तिर्थ्यगिवामनन्ति । अधःशिरस्काः कुदलान्तरस्थाश्छाया- मनुष्या इव नीरतीरे । अनाकुलास्तिर्यगधः स्थिताश्च तिष्ठन्ति ते तत्र वर्यं यथात्र । भूमेरर्धं क्षारसिन्धो रुदक्स्थं जम्बूद्वीपं प्राहुराचार्य्यवर्याः । अर्धेऽन्य- स्मिन् द्वीपषट्कस्य याम्य क्षारक्षीराद्यम्बुधीनां नि- वेशः । लवणजलधिरादौ दुग्धसिन्धुश्च तस्मादमृतममृत- रश्मिः श्रीश्च यस्माद्बभूव । महितचरणपद्मः पद्म- जन्मादिदेवैर्वसति सकलवासो वासुदेवश्च यत्र । दध्नो घृतस्येक्षुरसस्य तस्मान्मद्यस्य च स्वादुजलस्य चान्त्यः । स्वादूदकान्तर्बडवानलोऽसौ पाताललोकाः पृथिवीपु- टानि । चञ्चत्फणामणिगणांशुकृतप्रकाशा एतेषु सासुरगणाः फणिनो वसन्ति । दिव्यानि व्यरमणी रमणीयदेहैः सिद्धाश्च तत्र च लसत्कनकावभासैः । शाकं ततः शाल्मलमत्र कौशं
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।