📜 लघुसिद्धान्तकौमुदी
वरदराजाचार्य कृत · पाणिनीय सूत्र, मूल वृत्ति, हिन्दी अनुवाद एवं सरल व्याख्या
← सभी प्रकरण
१०. हलन्तनपुंसकलिङ्गाः
हलन्त नपुंसकलिंग · सूत्र 362–365 (4)
मूल वृत्ति
हिन्दी अनुवाद
सरल व्याख्या
स्वमोर्लुक् । दत्वम् । स्वनडुत्, स्वनडुद् । स्वनडुही । चतुरनडुहोरित्याम् । स्वनड्वांहि । पुनस्तद्वत् । शेषं पुंवत् ॥ वाः । वारी । वारि । वार्भ्याम् ॥ चत्वारि ॥ किम् । के । कानि ॥ इदम् । इमे । इमानि ॥ «अन्वादेशे नपुंसके वा एनद्वक्तव्यः» (वार्त्तिकम्) । एनत् । एने । एनानि । एनेन । एनयोः ॥ अहः । «विभाषा डिश्योः» । अह्नी, अहनी । अहानि ॥
(स्वनडुह्) सु और अम् का लुक्, द-त्व — स्वनडुत्, स्वनडुद्; स्वनडुही; 'चतुरनडुहोः' से आम् — स्वनड्वांहि; फिर वैसे ही; शेष पुंलिङ्ग के समान। (वार्) वाः, वारी, वारि, वार्भ्याम्। (चतुर्) चत्वारि। (किम्) किम्, के, कानि। (इदम्) इदम्, इमे, इमानि। (वार्तिक) अन्वादेश में नपुंसक में विकल्प से 'एनत्' कहना चाहिए — एनत्, एने, एनानि, एनेन, एनयोः। (अहन्) अहः; 'विभाषा ङिश्योः' — अह्नी, अहनी; अहानि।
सरल व्याख्या: हलन्त नपुंसक शब्दों के रूप — चत्वारि (चार), किम् (क्या), इदम् (यह), अहः (दिन), वाः (जल)।
३६२
विधिसूत्रम् अष्टा० 8.2.68
अहन् ॥
अनुवृत्ति/अधिकार: पदस्य, पूर्वत्रासिद्धम्
वृत्तिः
अहन्नित्यस्य रुः पदान्ते । अहोभ्याम् ॥ दण्डि । «सम्बुद्धौ नपुंसकानां नलोपो वा वाच्यः» (वार्त्तिकम्) । हे दण्डिन्, हे दण्डि । दण्डिनी । दण्डीनि । दण्डिना । दण्डिभ्याम् ॥ सुपथि । टेर्लोपः । सुपथी । सुपन्थानि ॥ ऊर्क्, ऊर्ग् । ऊर्जी । ऊन्र्जि । नरजानां संयोगः । तत् । ते । तानि ॥ यत् । ये । यानि ॥ एतत् । एते । एतानि ॥ गवाक्, गवाग् । गोची । गवाञ्चि । पुनस्तद्वत् । गोचा । गवाग्भ्याम् ॥ शकृत् । शकृती । शकृन्ति ॥ ददत् ॥
हिन्दी अनुवाद
पदान्त में अहन् को रु होता है। अहोभ्याम्। दण्डि — (वार्तिक) सम्बुद्धि में नपुंसकों के न का लोप विकल्प से कहना चाहिए — हे दण्डिन्, हे दण्डि; दण्डिनी, दण्डीनि, दण्डिना, दण्डिभ्याम्। सुपथि — टि-लोप — सुपथी, सुपन्थानि। ऊर्क्, ऊर्ग्; ऊर्जी, ऊर्न्जि (न, र, ज का संयोग)। तत्, ते, तानि; यत्, ये, यानि; एतत्, एते, एतानि। गवाक्, गवाग्; गोची, गवाञ्चि; फिर वैसे ही; गोचा, गवाग्भ्याम्। शकृत्, शकृती, शकृन्ति। (अब) ददत्।
सरल व्याख्या
हलन्त नपुंसक: अहन् (दिन) → अहोभ्याम्; दण्डिन् → दण्डि, दण्डीनि; तत् → तत्, ते, तानि; जगत् → जगती, जगन्ति।
३६३
विधिसूत्रम् अष्टा० 7.1.79
वा नपुंसकस्य ॥
अनुवृत्ति/अधिकार: नुम्, न, अभ्यस्तात्, शतुः, अङ्गस्य
वृत्तिः
अभ्यस्तात्परो यः शता तदन्तस्य क्लीबस्य वा नुम् सर्वनामस्थाने। ददन्ति, ददति॥ तुदत्॥
हिन्दी अनुवाद
अभ्यस्त से परे जो शतृ, तदन्त नपुंसक को सर्वनामस्थान परे रहते विकल्प से नुम् होता है। ददन्ति, ददति। (अब) तुदत्।
सरल व्याख्या
ददत् (नपुं.) प्रथमा बहुवचन: ददन्ति / ददति।
३६४
विधिसूत्रम् अष्टा० 7.1.80
आच्छीनद्योर्नुम् ॥
अनुवृत्ति/अधिकार: नुम्, शतुः, वा, अङ्गस्य
वृत्तिः
अवर्णान्तादङ्गात्परो यः शतुरवयस्तदन्तस्य नुम् वा शीनद्योः। तुदन्ती, तुदती। तुदन्ति॥
हिन्दी अनुवाद
अवर्णान्त अङ्ग से परे जो शतृ का अवयव, तदन्त को शी और नदी परे रहते विकल्प से नुम् होता है। तुदन्ती, तुदती; तुदन्ति।
सरल व्याख्या
तुदत् (नपुं.) द्विवचन: तुदन्ती / तुदती। स्त्रीलिङ्ग में भी: तुदन्ती/तुदती।
३६५
विधिसूत्रम् अष्टा० 7.1.81
शप्श्यनोर्नित्यम् ॥
अनुवृत्ति/अधिकार: नुम्, शतुः, शी-नद्योः, नुम्, अङ्गस्य
वृत्तिः
शप्श्यनोरात्परो यः शतुरवयवस्तदन्तस्य नित्वं नुम् शीनद्योः । पचन्ती । पचन्ति ॥ दीव्यत् । दीव्यन्ती । दीव्यन्ति ॥ धनुः । धनुषी । सान्तेति दीर्घः । नुम्विसर्जनीयेति षः । धनूंषि । धनुषा । धनुर्भ्याम् । एवं चक्षुर्हविरादयः ॥ पयः । पयसी । पयांसि । पयसा । पयोभ्याम् ॥ सुपुम् । सुपुंसी । सुपुमांसि ॥ अदः । विभक्तिकार्यम् । उत्वमत्वे । अमू । अमूनि । शेषं पुंवत् ॥
हिन्दी अनुवाद
शप् और श्यन् के अ से परे जो शतृ का अवयव, तदन्त को शी और नदी परे रहते नित्य नुम् होता है। पचन्ती, पचन्ति। दीव्यत् — दीव्यन्ती, दीव्यन्ति। धनुः — धनुषी; 'सान्त' से दीर्घ, 'नुम्विसर्जनीय' से ष — धनूंषि, धनुषा, धनुर्भ्याम्; इसी प्रकार चक्षुस्, हविस् आदि। पयः — पयसी, पयांसि, पयसा, पयोभ्याम्। सुपुम् — सुपुंसी, सुपुमांसि। अदः — विभक्ति-कार्य, उत्व-मत्व — अमू, अमूनि; शेष पुंलिङ्ग के समान।
सरल व्याख्या
भ्वादि/दिवादि के शतृ रूपों में न् अवश्य: पचन्ती, भवन्ती (स्त्रीलिङ्ग भी)। सकारान्त नपुंसक: धनुः, धनुषी, धनूंषि; पयः, पयसी, पयांसि; मनः, मनसी, मनांसि। (सुबन्त प्रकरण पूर्ण।)
मूल पाठ: लघुसिद्धान्तकौमुदी (वरदराजाचार्य) — डिजिटल पाठ-स्रोत ashtadhyayi.com · हिन्दी अनुवाद व सरल व्याख्या: cdsharma.in