🕉️ 16 October 2026, Friday · 05:18:33 AM · CDSHARMA.IN

📜 लघुसिद्धान्तकौमुदी

वरदराजाचार्य कृत · पाणिनीय सूत्र, मूल वृत्ति, हिन्दी अनुवाद एवं सरल व्याख्या

← सभी प्रकरण

९. हलन्तस्त्रीलिङ्गाः

हलन्त स्त्रीलिंग · सूत्र 358–361 (4)
३५८ विधिसूत्रम् अष्टा० 8.2.34
नहो धः ॥
अनुवृत्ति/अधिकार: झलि, अन्ते, हः, धातोः, पदस्य, पूर्वत्रासिद्धम्
वृत्तिः
नहो हस्य धः स्याज्झलि पदान्ते च॥
हिन्दी अनुवाद
झल् परे रहते और पदान्त में नह् के ह को ध होता है।
सरल व्याख्या
नह् (बाँधना) → नध् → नत्/नद्।
३५९ विधिसूत्रम् अष्टा० 6.3.116
नहिवृतिवृषिव्यधिरुचिसहितनिषु क्वौ ॥
अनुवृत्ति/अधिकार: दीर्घः, उत्तरपदे, संहितायाम्
वृत्तिः
क्विबन्तेषु पूर्वपदस्य दीर्घः । उपानत्, उपानद् । उपानहौ । उपानत्सु ॥ क्विन्नन्तत्वात् कुत्वेन घः । उष्णिक्, उष्णिग् । उष्णिहौ । उष्णिग्भ्याम् ॥ द्यौः । दिवौ । दिवः । द्युभ्याम् ॥ गीः । गिरौ । गिरः ॥ एवं पूः ॥ चतस्रः ॥ चतसृणाम् ॥ का । के । काः । सर्वावत् ॥
हिन्दी अनुवाद
क्विप्-प्रत्ययान्त नह्, वृत्, वृष्, व्यध्, रुच्, सह्, तन् परे रहते पूर्वपद को दीर्घ होता है। उपानत्, उपानद्; उपानहौ, उपानत्सु। क्विन्-प्रत्ययान्त होने से कुत्व से घ — उष्णिक्, उष्णिग्; उष्णिहौ, उष्णिग्भ्याम्। द्यौः, दिवौ, दिवः, द्युभ्याम्। गीः, गिरौ, गिरः; इसी प्रकार पूः। चतस्रः, चतसृणाम्। का, के, काः — सर्वा के समान।
सरल व्याख्या
उप + नह् → उपानह् (जूता) → उपानत्। हलन्त स्त्रीलिङ्ग: गिर् → गीः (वाणी), पुर् → पूः (नगरी), दिव् → द्यौः।
३६० विधिसूत्रम् अष्टा० 7.2.110
यः सौ ॥
अनुवृत्ति/अधिकार: विभक्तौ, इदमः, अङ्गस्य
वृत्तिः
इदमो दस्य यः इयम्। त्यदाद्यत्वम्। पररूपत्वम्। टाप्। दश्चेति मः। इमे। इमाः। इमाम्। अनया। हलि लोपः। आभ्याम्। आभिः। अस्यै। अस्याः। अनयोः। आसाम्। अस्याम्। आसु॥ त्यदाद्यत्वम्। टाप्। स्या। त्ये। त्याः॥ एवं तद्, एतद्॥ वाक्, वाग्। वाचौ। वाग्भ्याम्। वाक्षु॥ अप्शब्दो नित्यं बहुवचनान्तः। अप्तृन्निति दीर्घः। आपः। अपः॥
हिन्दी अनुवाद
सु परे रहते इदम् के द को य होता है — इयम्। त्यदादि-अत्व, पररूप, टाप्, 'दश्च' से म — इमे, इमाः, इमाम्, अनया; 'हलि लोपः' — आभ्याम्, आभिः, अस्यै, अस्याः, अनयोः, आसाम्, अस्याम्, आसु। त्यदादि-अत्व, टाप् — स्या, त्ये, त्याः। इसी प्रकार तद्, एतद् (सा, एषा)। वाक्, वाग्; वाचौ, वाग्भ्याम्, वाक्षु। 'अप्' शब्द सदा बहुवचनान्त — 'अप्तृन्' से दीर्घ — आपः, अपः।
सरल व्याख्या
स्त्रीलिङ्ग इदम्: इयम्, इमे, इमाः; अनया; अस्यै; अस्याः; आसाम्; अस्याम्। वाच् (वाणी) → वाक्। अप् (जल) — सदा बहुवचन: आपः।
३६१ विधिसूत्रम् अष्टा० 7.4.48
अपो भि ॥
अनुवृत्ति/अधिकार: तः, अङ्गस्य
वृत्तिः
अपस्तकारो भादौ प्रत्यये । अद्भिः । अद्भ्यः / अपाम् । अप्सु ॥ दिक्, दिग् । दिशः । दिग्भ्याम् ॥ त्यदादिष्वति दृशेः क्विन्विधानादन्यत्रापि कुत्वम् । दृक्, दृग् । दृशौ । दृग्भ्याम् ॥ त्विट्, त्विड् । त्विषौ । त्विड्भ्याम् ॥ ससजुषो रुरिति रुत्वम् । सजूः । सजुषौ । सजूर्भ्याम् ॥ आशीः । आशिषौ । आशीर्भ्याम् ॥ असौ । उत्वमत्वे । अमू । अमूः । अमुया । अमूभ्याम् अमूभ्याम् अमूभ्याम् । अमूभिः । अमुष्यौ । अमूभ्यः अमूभ्यः । अमुष्याः । अमुयोः अमुयोः । अमूषाम् । अमुष्याम् । अमूषु ॥
हिन्दी अनुवाद
भकारादि प्रत्यय परे रहते अप् (के प) को तकार होता है। अद्भिः, अद्भ्यः, अपाम्, अप्सु। दिक्, दिग्; दिशः, दिग्भ्याम्। 'त्यदादिषु' से दृश् से क्विन् के विधान के कारण अन्यत्र भी कुत्व — दृक्, दृग्; दृशौ, दृग्भ्याम्। त्विट्, त्विड्; त्विषौ, त्विड्भ्याम्। 'ससजुषो रुः' से रुत्व — सजूः, सजुषौ, सजूर्भ्याम्। आशीः, आशिषौ, आशीर्भ्याम्। (स्त्रीलिङ्ग अदस्) असौ; उत्व-मत्व — अमू, अमूः, अमुया, अमूभ्याम् (तीन बार), अमूभिः, अमुष्यै, अमूभ्यः (दो बार), अमुष्याः, अमुयोः (दो बार), अमूषाम्, अमुष्याम्, अमूषु।
सरल व्याख्या
अप् + भिस् → अद्भिः (जल से); अप्सु। दिश् → दिक्, आशिस् → आशीः, स्त्रीलिङ्ग अदस् → असौ, अमू, अमूः।

मूल पाठ: लघुसिद्धान्तकौमुदी (वरदराजाचार्य) — डिजिटल पाठ-स्रोत ashtadhyayi.com · हिन्दी अनुवाद व सरल व्याख्या: cdsharma.in

💬 ज्योतिषीय प्रश्न पूछें