🕉️ 16 October 2026, Friday · 05:22:34 AM · CDSHARMA.IN

📜 लघुसिद्धान्तकौमुदी

वरदराजाचार्य कृत · पाणिनीय सूत्र, मूल वृत्ति, हिन्दी अनुवाद एवं सरल व्याख्या

← सभी प्रकरण

१५. दिवादयः

दिवादिगण · सूत्र 628–643 (16)
६२८ विधिसूत्रम् अष्टा० 3.1.69
दिवादिभ्यः श्यन् ॥
अनुवृत्ति/अधिकार: सार्वधातुके, कर्तरि, प्रत्ययः, परश्च, आद्युदात्तश्च, धातोः
वृत्तिः
॥ 〔धातु 1: दिवु — क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु〕 ॥ शपोऽपवादः। हलि चेति दीर्घः। दीव्यति। दिदेव। देविता। देविष्यति। दीव्यतु। अदीव्यत्। दीव्येत्। दीव्यात्। अदेवीत्। अदेविष्यत्॥ एवं ॥ 〔धातु 2: षिवु — तन्तुसन्ताने〕 ॥ 〔धातु 3: नृती — गात्रविक्षेपे〕 ॥ नृत्यति। ननर्त। नर्तिता॥
हिन्दी अनुवाद
(दिवादिगण। धातु 1: दिवु — क्रीड़ा, जीतने की इच्छा, व्यवहार, चमक, स्तुति, आनन्द, मद, स्वप्न, कान्ति, गति।) दिवादि से श्यन् होता है — शप् का अपवाद। 'हलि च' से दीर्घ — दीव्यति, दिदेव, देविता, देविष्यति, दीव्यतु, अदीव्यत्, दीव्येत्, दीव्यात्, अदेवीत्, अदेविष्यत्। इसी प्रकार (2) षिवु — सीना; (3) नृती — नाचना: नृत्यति, ननर्त, नर्तिता।
सरल व्याख्या
दिवादिगण में धातु के बाद 'य' (श्यन्): दिव् → दीव्यति (खेलता है), नृत् → नृत्यति (नाचता है), सिव् → सीव्यति।
६२९ विधिसूत्रम् अष्टा० 7.2.57
सेऽसिचि कृतचृतच्छृदतृदनृतः ॥
अनुवृत्ति/अधिकार: आर्धधातुकस्य, इट्, वलादेः, वा, अङ्गस्य
वृत्तिः
एभ्यः परस्य सिज्भिन्नस्य सादेरार्धधातुकस्येड्वा। नर्तिष्यति, नर्त्स्यति। नृत्यतु। अनृत्यत्। नृत्येत्। नृत्यात्। अनर्तीत्। अनर्तिष्यत्, अनर्त्स्यत्॥॥ 〔धातु 4: त्रसी — उद्वेगे〕 ॥ वा भ्राशेति श्यन्वा। त्रस्यति, त्रसति। तत्रास॥
हिन्दी अनुवाद
कृत्, चृत्, छृद्, तृद्, नृत् — इनसे परे सिच्-भिन्न सकारादि आर्धधातुक को विकल्प से इट् होता है। नर्तिष्यति/नर्त्स्यति, नृत्यतु, अनृत्यत्, नृत्येत्, नृत्यात्, अनर्तीत्, अनर्तिष्यत्/अनर्त्स्यत्। (धातु 4) त्रसी — भय। 'वा भ्राश' से श्यन् विकल्प से — त्रस्यति, त्रसति, तत्रास।
सरल व्याख्या
लृट् के दो रूप: नर्तिष्यति / नर्त्स्यति (नाचेगा)।
६३० विधिसूत्रम् अष्टा० 6.4.124
वा जॄभ्रमुत्रसाम् ॥
अनुवृत्ति/अधिकार: क्ङिति, अभ्यासलोपः, अतः, थलि, सेटि, अङ्गस्य, असिद्धवदत्राभात्
वृत्तिः
एषां किति लिटि सेटि थलि च एत्वाभ्यासलोपौ वा। त्रेसतुः, तत्रसतुः। त्रेसिथ, तत्रसिथ। त्रसिता॥ 〔धातु 5: शो — तनूकरणे〕 ॥
हिन्दी अनुवाद
जॄ, भ्रम्, त्रस् — इनको कित् लिट् और सेट् थल् में एत्व और अभ्यास-लोप विकल्प से होते हैं। त्रेसतुः/तत्रसतुः, त्रेसिथ/तत्रसिथ, त्रसिता। (धातु 5) शो — पतला करना।
सरल व्याख्या
त्रस् के लिट् द्विवचन के दो रूप।
६३१ विधिसूत्रम् अष्टा० 7.3.71
ओतः श्यनि ॥
अनुवृत्ति/अधिकार: लोपः, अङ्गस्य
वृत्तिः
लोपः स्यात्। श्यति। श्यतः। श्यन्ति। शशौ। शशतुः। शाता। शास्यति॥
हिन्दी अनुवाद
श्यन् परे रहते ओ का लोप होता है। श्यति, श्यतः, श्यन्ति; शशौ, शशतुः, शाता, शास्यति।
सरल व्याख्या
शो + य + ति → श्यति (तेज़ करता है/छीलता है)।
६३२ विधिसूत्रम् अष्टा० 2.4.78
विभाषा घ्राधेट्शाच्छासः ॥
अनुवृत्ति/अधिकार: लुक्, परस्मैपदेषु, सिचः
वृत्तिः
एभ्यस्सिचो लुग्वा स्यात्परस्मैपदे परे। अशात्। अशाताम्। अशुः। इट्सकौ। अशासीत्। अशासिष्टाम्॥॥ 〔धातु 6: छो — छेदने〕 ॥ छ्यति॥ 〔धातु 7: षो — अन्तकर्मणि〕 ॥ स्यति। ससौ॥ 〔धातु 8: दो — अवखण्डने〕॥ द्यति। ददौ। देयात्। अदात्॥॥ 〔धातु 9: व्यध — ताडने〕 ॥
हिन्दी अनुवाद
घ्रा, धेट्, शो, छो, सो — इनसे सिच् का परस्मैपद में विकल्प से लुक् होता है। अशात्, अशाताम्, अशुः; (पक्ष में) इट् और सक् — अशासीत्, अशासिष्टाम्। (धातु 6) छो — काटना: छ्यति। (7) षो — अन्त करना: स्यति, ससौ। (8) दो — काटना: द्यति, ददौ, देयात्, अदात्। (9) व्यध् — ताड़ना।
सरल व्याख्या
लुङ् के दो रूप: अशात् / अशासीत्। दो (काटना) → द्यति।
६३३ विधिसूत्रम् अष्टा० 6.1.16
ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च ॥
अनुवृत्ति/अधिकार: सम्प्रसारणम्, किति
वृत्तिः
एषां सम्प्रसारणं स्यात्किति ङिति च। विध्यति। विव्याध। विविधतुः। विविधुः। विव्यधिथ, विव्यद्ध। व्यद्धा। व्यत्स्यति। विध्येत्। विध्यात्। अव्यात्सीत्॥ 〔धातु 10: पुष — पुष्टौ〕 ॥ पुष्यति। पुपोष। पुपोषिथ। पोष्टा। पोक्ष्यति। पुषादीत्यङ्। अपुषत्॥ 〔धातु 11: शुष — शोषणे〕॥ शुष्यति। शुशोष। अशुषत्॥ 〔धातु 12: णश — अदर्शने〕 ॥ नश्यति। ननाश। नेशतुः॥
हिन्दी अनुवाद
ग्रह्, ज्या, वय्, व्यध्, वश्, व्यच्, व्रश्च्, प्रच्छ्, भ्रस्ज् — इनको कित् और ङित् परे रहते सम्प्रसारण होता है। विध्यति, विव्याध, विविधतुः, विविधुः, विव्यधिथ/विव्यद्ध, व्यद्धा, व्यत्स्यति, विध्येत्, विध्यात्, अव्यात्सीत्। (धातु 10) पुष् — पुष्टि: पुष्यति, पुपोष, पुपोषिथ, पोष्टा, पोक्ष्यति; 'पुषादि' से अङ् — अपुषत्। (11) शुष् — सूखना: शुष्यति, शुशोष, अशुषत्। (12) णश् — नष्ट होना: नश्यति, ननाश, नेशतुः।
सरल व्याख्या
सम्प्रसारण: व्यध् → विध्यति (बेधता है), ग्रह् → गृह्णाति, प्रच्छ् → पृच्छति। पुष्यति (पुष्ट होता है), नश्यति (नष्ट होता है)।
६३४ विधिसूत्रम् अष्टा० 7.2.45
रधादिभ्यश्च ॥
अनुवृत्ति/अधिकार: आर्धधातुकस्य, इट्, वलादेः, वा, अङ्गस्य
वृत्तिः
रध् नश् तृप् दृप् द्रुह् मुह् ष्णुह् ष्णिह् एभ्यो वलाद्यार्धधातुकस्य वेट् स्यात्। नेशिथ॥
हिन्दी अनुवाद
रध्, नश्, तृप्, दृप्, द्रुह्, मुह्, ष्णुह्, ष्णिह् — इनसे वलादि आर्धधातुक को विकल्प से इट् होता है। नेशिथ।
सरल व्याख्या
रधादि आठ धातुएँ वेट् (इट् वैकल्पिक) हैं।
६३५ विधिसूत्रम् अष्टा० 7.1.60
मस्जिनशोर्झलि ॥
अनुवृत्ति/अधिकार: नुम्, अङ्गस्य
वृत्तिः
नुम् स्यात्। ननंष्ठ। नेशिव, नेश्व। नेशिम, नेश्म। नशिता, नंष्टा। नशिष्यति, नङ्क्ष्यति। नश्यतु। अनश्यत्। नश्येत्। नश्यात्। अनशत्॥॥ 〔धातु 13: षूङ् — प्राणिप्रसवे〕 ॥ सूयते। सुषुवे। क्रादिनियमादिट्। सुषुविषे। सुषुविवहे। सुषुविमहे। सविता सोता॥॥ 〔धातु 14: दूङ् — परितापे〕 ॥ दूयते॥ 〔धातु 15: दीङ् — क्षये〕 ॥ दीयते॥
हिन्दी अनुवाद
झल् परे रहते मस्ज् और नश् को नुम् होता है। ननंष्ठ, नेशिव/नेश्व, नेशिम/नेश्म, नशिता/नंष्टा, नशिष्यति/नङ्क्ष्यति, नश्यतु, अनश्यत्, नश्येत्, नश्यात्, अनशत्। (धातु 13) षूङ् — जन्म देना: सूयते, सुषुवे; क्रादि-नियम से इट् — सुषुविषे, सुषुविवहे, सुषुविमहे; सविता/सोता। (14) दूङ् — दुःखी होना: दूयते। (15) दीङ् — क्षय: दीयते।
सरल व्याख्या
नश् के लुट्/लृट्: नशिता / नंष्टा, नशिष्यति / नङ्क्ष्यति। सू (जनना) → सूयते।
६३६ विधिसूत्रम् अष्टा० 6.4.63
दीङो युडचि क्ङिति ॥
अनुवृत्ति/अधिकार: अङ्गस्य, असिद्धवदत्राभात्, आर्धधातुके
वृत्तिः
दीङः परस्याजादेः क्ङित आर्धधातुकस्य युट्। «वुग्युटावुवङ्यणोः सिद्धौ वक्तव्यौ» (वार्त्तिकम्)। दिदीये॥
हिन्दी अनुवाद
दीङ् से परे अजादि कित्-ङित् आर्धधातुक को युट् (य्) आगम होता है। (वार्तिक) वुक् और युट् को उवङ् और यण् में सिद्ध कहना चाहिए। दिदीये।
सरल व्याख्या
दी का लिट्: दिदी + ए → दिदीये।
६३७ विधिसूत्रम् अष्टा० 6.1.50
मीनातिमिनोतिदीङां ल्यपि च ॥
अनुवृत्ति/अधिकार: आत्, एचः, उपदेशे
वृत्तिः
एषामात्वं स्याल्ल्यपि चादशित्येज्निमित्ते। दाता। दास्यति। «स्थाघ्वोरित्त्वे दीङः प्रतिषेधः» (वार्त्तिकम्) । अदास्त॥ 〔धातु 16: डीङ् — विहायसा गतौ〕 ॥ डीयते। डिड्ये। डयिता॥ 〔धातु 17: पीङ् — पाने〕 ॥ पीयते। पेता। अपेष्ट॥ 〔धातु 18: माङ् — माने〕 ॥ मायते। ममे ॥ 〔धातु 19: जनी — प्रादुर्भावे〕 ॥
हिन्दी अनुवाद
मी (मीनाति), मि (मिनोति), दीङ् — इनको ल्यप् में और अशित् एच्-निमित्त (प्रत्यय) में आत्व होता है। दाता, दास्यति। (वार्तिक) स्था-घु के इत्व में दीङ् का निषेध — अदास्त। (धातु 16) डीङ् — आकाश में उड़ना: डीयते, डिड्ये, डयिता। (17) पीङ् — पीना: पीयते, पेता, अपेष्ट। (18) माङ् — मापना: मायते, ममे। (19) जनी — उत्पन्न होना।
सरल व्याख्या
दी → दा: दाता, दास्यति। डी (उड़ना) → डीयते; पी (पीना) → पीयते।
६३८ विधिसूत्रम् अष्टा० 7.3.79
ज्ञाजनोर्जा ॥
अनुवृत्ति/अधिकार: शिति, अङ्गस्य
वृत्तिः
अनयोर्जादेशः स्याच्छिति। जायते। जज्ञे। जनिता। जनिष्यते॥
हिन्दी अनुवाद
शित् परे रहते ज्ञा और जन् को 'जा' आदेश होता है। जायते, जज्ञे, जनिता, जनिष्यते।
सरल व्याख्या
जन् → जायते (उत्पन्न होता है); ज्ञा → जानाति (क्र्यादि में)।
६३९ विधिसूत्रम् अष्टा० 3.1.61
दीपजनबुधपूरितायिप्यायिभ्योऽन्यतरस्याम् ॥
अनुवृत्ति/अधिकार: लुङि, च्लेः, चिण्, ते, प्रत्ययः, परश्च, आद्युदात्तश्च, धातोः
वृत्तिः
एभ्यश्च्लेश्चिण् वा स्यादेकवचने तशब्दे परे॥
हिन्दी अनुवाद
दीप्, जन्, बुध्, पूर्, ताय्, प्याय् — इनसे च्लि को, एकवचन 'त' परे रहते, विकल्प से चिण् होता है।
सरल व्याख्या
इन धातुओं के आत्मनेपद लुङ् प्रथम पुरुष एकवचन में 'इ' (चिण्) वाला रूप भी: अजनि / अजनिष्ट।
६४० विधिसूत्रम् अष्टा० 6.4.104
चिणो लुक् ॥
अनुवृत्ति/अधिकार: क्ङिति, अङ्गस्य, असिद्धवदत्राभात्
वृत्तिः
चिणः परस्य लुक् स्यात्॥
हिन्दी अनुवाद
चिण् से परे (प्रत्यय) का लुक् होता है।
सरल व्याख्या
अजन् + इ + त → त हटकर अजनि।
६४१ विधिसूत्रम् अष्टा० 7.3.35
जनिवध्योश्च ॥
अनुवृत्ति/अधिकार: वृद्धिः, ञ्णिति, चिण्कृतोः, न, अङ्गस्य
वृत्तिः
अनयोरुपधाया वृद्धिर्न स्याच्चिणि ञ्णिति कृति च। अजनि, अजनिष्ट॥ 〔धातु 20: दीपी — दीप्तौ〕 ॥ दीप्यते। दिदीपे। अदीपि, अदीपिष्ट॥ 〔धातु 21: पद — गतौ〕 ॥ पद्यते। पेदे। पत्ता। पत्सीष्ट॥
हिन्दी अनुवाद
जन् और वध् की उपधा को चिण् और ञित्-णित् कृत् परे रहते वृद्धि नहीं होती। अजनि, अजनिष्ट। (धातु 20) दीपी — चमकना: दीप्यते, दिदीपे, अदीपि/अदीपिष्ट। (21) पद् — जाना: पद्यते, पेदे, पत्ता, पत्सीष्ट।
सरल व्याख्या
अजनि (उत्पन्न हुआ — 'अजानि' नहीं)। दीप्यते (चमकता है), पद्यते (जाता है/प्राप्त करता है)।
६४२ विधिसूत्रम् अष्टा० 3.1.60
चिण् ते पदः ॥
अनुवृत्ति/अधिकार: लुङि, च्लेः, प्रत्ययः, परश्च, आद्युदात्तश्च, धातोः
वृत्तिः
पदश्च्लेश्चिण् स्यात्तशब्दे परे। अपादि। अपत्साताम्। अपत्सत॥ 〔धातु 22: विद — सत्तायाम्〕 ॥ विद्यते। वेत्ता। अवित्त॥ 〔धातु 23: बुध — अवगमने〕 ॥ बुध्यते। बोद्धा। भोत्स्यते। भुत्सीष्ट। अबोधि, अबुद्ध। अभुत्साताम्॥ 〔धातु 24: युध — संप्रहारे〕 ॥ युध्यते। युयुधे। योद्धा। अयुद्ध॥॥ 〔धातु 25: सृज — विसर्गे〕 ॥ सृज्यते। ससृजे। ससृजिषे॥
हिन्दी अनुवाद
'त' परे रहते पद् से च्लि को चिण् होता है। अपादि, अपत्साताम्, अपत्सत। (धातु 22) विद् — होना: विद्यते, वेत्ता, अवित्त। (23) बुध् — जानना: बुध्यते, बोद्धा, भोत्स्यते, भुत्सीष्ट, अबोधि/अबुद्ध, अभुत्साताम्। (24) युध् — युद्ध: युध्यते, युयुधे, योद्धा, अयुद्ध। (25) सृज् — छोड़ना/रचना: सृज्यते, ससृजे, ससृजिषे।
सरल व्याख्या
पद् का लुङ्: अपादि (नित्य)। विद्यते (है), बुध्यते (जानता है), युध्यते (लड़ता है)।
६४३ विधिसूत्रम् अष्टा० 6.1.58
सृजिदृशोर्झल्यमकिति ॥
अनुवृत्ति/अधिकार: उपदेशे
वृत्तिः
अनयोरमागमः स्याज्झलादावकिति । स्रष्टा । स्रक्ष्यति । सृक्षीष्ट । असृष्ट । असृक्षायाम् ॥ 〔धातु 26: मृष — तितिक्षायाम्〕 ॥ मृष्यते । ममर्षे । ममर्षिथ । ममृषिषे । मर्षितासि । मर्षिष्यति, मर्षिष्यते ॥ 〔धातु 27: णह — बन्धने〕 ॥ नह्यति, नह्यते । ननाह । नेहिथ, ननद्ध । नेहे । नद्धा । नत्स्यति । अनात्सीत्; अनद्ध ॥ इति दिवादयः ॥ ४ ॥
हिन्दी अनुवाद
सृज् और दृश् को झलादि अकित् (प्रत्यय) परे रहते अम् आगम होता है। स्रष्टा, स्रक्ष्यति, सृक्षीष्ट, असृष्ट, असृक्षाताम्। (धातु 26) मृष् — सहन करना: मृष्यते, ममर्षे, ममर्षिथ, ममृषिषे, मर्षितासि, मर्षिष्यति/मर्षिष्यते। (27) णह् — बाँधना: नह्यति/नह्यते, ननाह, नेहिथ/ननद्ध, नेहे, नद्धा, नत्स्यति, अनात्सीत्/अनद्ध। (दिवादिगण समाप्त।)
सरल व्याख्या
सृज् + ता → स्रष्टा (सृष्टिकर्ता), दृश् + ता → द्रष्टा — ऋ के बाद 'अ' जुड़कर 'र'। (दिवादि पूर्ण।)

मूल पाठ: लघुसिद्धान्तकौमुदी (वरदराजाचार्य) — डिजिटल पाठ-स्रोत ashtadhyayi.com · हिन्दी अनुवाद व सरल व्याख्या: cdsharma.in

💬 ज्योतिषीय प्रश्न पूछें