🕉️ 16 October 2026, Friday · 05:20:37 AM · CDSHARMA.IN

📜 लघुसिद्धान्तकौमुदी

वरदराजाचार्य कृत · पाणिनीय सूत्र, मूल वृत्ति, हिन्दी अनुवाद एवं सरल व्याख्या

← सभी प्रकरण

१८. रुधादयः

रुधादिगण · सूत्र 665–671 (7)
६६५ विधिसूत्रम् अष्टा० 3.1.78
रुधादिभ्यः श्नम् ॥
अनुवृत्ति/अधिकार: सार्वधातुके, कर्तरि, प्रत्ययः, परश्च, आद्युदात्तश्च, धातोः
वृत्तिः
॥ 〔धातु 1: रुधिर् — आवरणे〕 ॥ शपोऽपवादः। रुणद्धि। श्नसोरल्लोपः। रुन्धः। रुन्धन्ति। रुणत्सि। रुन्धः। रुन्ध। रुणध्मि। रुन्ध्वः। रुन्ध्मः। रुन्धे। रुन्धाते। रुन्धते। रुन्त्से। रुन्धाथे। रुन्ध्वे। रुन्धे। रुन्ध्वहे। रुन्ध्महे। रुरोध, रुरुधे। रोद्धासि, रोद्धासे। रोत्स्यसि, रोत्स्यसे। रोत्स्यति, रोत्स्यते। रुणद्धु, रुन्धात्। रुन्धाम्। रुन्धन्तु। रुन्धि। रुणधानि। रुणधाव। रुणधाम। रुन्धाम्। रुन्धाताम्। रुन्धताम्। रुन्त्स्व। रुणधै। रुणधावहै। रुणधामहै। अरुणत्, अरुणद्। अरुन्धताम्। अरुन्धन्। अरुणः, अरुणत्, अरुणद्। अरुन्ध। अरुन्धाताम्। अरुन्धत। अरुन्धाः। रुन्ध्यात्। रुन्धीत। रुध्यात्, रुत्सीष्ट। अरुधत्, अरौत्सीत्। अरुद्ध। अरुत्साताम्। अरुत्सत। अरोत्स्यत्, अरौत्सीत्। अरुद्ध। अरुत्साताम्। अरुत्सत। अरोत्स्यत्, अरोत्स्यत॥ 〔धातु 2: भिदिर् — विदारणे〕 ॥ 〔धातु 3: छिदिर् — द्वैधीकरणे〕 ॥ 〔धातु 4: युजिर् — योगे〕॥ 〔धातु 5: रिचिर् — विरेचने〕 ॥ रिणक्ति, रिङ्क्ते। रिरेच। रेक्ता रेक्ष्यति अरिणक्। अरिचत्, अरैक्षीत्, अरिक्त॥ 〔धातु 6: विचिर् — पृथग्भावे〕 ॥ विनक्ति विङ्क्ते॥ 〔धातु 7: क्षुदिर् — संपेषणे〕 ॥ क्षुणत्ति, क्षुन्ते। क्षोत्ता॥ अक्षुदत्, अक्षौत्सीत्, अक्षुत्त। ॥ 〔धातु 8: उच्छृदिर् — दीप्तिदेवनयोः〕 ॥ छृणत्ति छृन्ते। चच्छर्द। सेऽसिचीति वेट्। चच्छृदिषे, चच्छृत्से। छर्दिता। छर्दिष्यति, छर्त्स्यति। अच्छृदत्, अच्छर्दीत्, अच्छर्दिष्ट॥ 〔धातु 9: उत्तृदिर् — हिंसानादरयोः〕 ॥ तृणत्ति, तृन्ते॥ 〔धातु 10: कृती — वेष्टने〕 ॥ कृणत्ति॥ 〔धातु 11-12: तृह, हिसि — हिंसायाम्〕(धातुपाठे , ) ॥
हिन्दी अनुवाद
(रुधादिगण। धातु 1: रुधिर् — रोकना।) रुधादि से श्नम् (न) होता है — शप् का अपवाद। रुणद्धि; 'श्नसोः' से अ-लोप — रुन्धः, रुन्धन्ति, रुणत्सि, रुन्धः, रुन्ध, रुणध्मि, रुन्ध्वः, रुन्ध्मः; रुन्धे, रुन्धाते, रुन्धते, रुन्त्से, रुन्धाथे, रुन्ध्वे, रुन्धे, रुन्ध्वहे, रुन्ध्महे; रुरोध/रुरुधे; रोद्धासि/रोद्धासे; रोत्स्यति/रोत्स्यते; रुणद्धु, रुन्धात्, रुन्धाम्, रुन्धन्तु, रुन्धि, रुणधानि; रुन्धाम्, रुन्त्स्व, रुणधै; अरुणत्/अरुणद्, अरुन्धताम्, अरुन्धन्, अरुणः; अरुन्ध, अरुन्धाताम्, अरुन्धत; रुन्ध्यात्, रुन्धीत; रुध्यात्, रुत्सीष्ट; अरुधत्/अरौत्सीत्, अरुद्ध, अरुत्साताम्, अरुत्सत; अरोत्स्यत्/अरोत्स्यत। (2) भिदिर् — फाड़ना; (3) छिदिर् — दो टुकड़े करना; (4) युजिर् — जोड़ना; (5) रिचिर् — खाली करना: रिणक्ति, रिङ्क्ते, रिरेच, रेक्ता, रेक्ष्यति, अरिणक्, अरिचत्/अरैक्षीत्, अरिक्त। (6) विचिर् — अलग करना: विनक्ति, विङ्क्ते। (7) क्षुदिर् — पीसना: क्षुणत्ति, क्षुन्ते, क्षोत्ता, अक्षुदत्/अक्षौत्सीत्, अक्षुत्त। (8) उच्छृदिर् — चमकना, खेलना/वमन: छृणत्ति, छृन्ते, चच्छर्द; 'सेऽसिचि' से वेट् — चच्छृदिषे/चच्छृत्से, छर्दिता, छर्दिष्यति/छर्त्स्यति, अच्छृदत्/अच्छर्दीत्, अच्छर्दिष्ट। (9) उत्तृदिर् — हिंसा और अनादर: तृणत्ति, तृन्ते। (10) कृती — लपेटना: कृणत्ति। (11-12) तृह्, हिसि — हिंसा।
सरल व्याख्या
रुधादिगण में धातु के बीच में 'न' घुसता है: रुध् → रु-ण-ध् → रुणद्धि (रोकता है); भिद् → भिनत्ति, छिद् → छिनत्ति, युज् → युनक्ति, भुज् → भुनक्ति।
६६६ विधिसूत्रम् अष्टा० 7.3.92
तृणह इम् ॥
अनुवृत्ति/अधिकार: पिति, सार्वधातुके, हलि, अङ्गस्य
वृत्तिः
तृहः श्नमि कृते इमागमो हलादौ पिति सार्वधातुके। तृणेढि। तृण्ढः। ततर्ह। तर्हिता। अतृणेट्॥
हिन्दी अनुवाद
श्नम् करने पर तृह् को हलादि पित् सार्वधातुक परे रहते इम् आगम होता है। तृणेढि, तृण्ढः, ततर्ह, तर्हिता, अतृणेट्।
सरल व्याख्या
तृह् → तृणेढि (मारता है)।
६६७ विधिसूत्रम् अष्टा० 6.4.23
श्नान्नलोपः ॥
अनुवृत्ति/अधिकार: अङ्गस्य, असिद्धवदत्राभात्
वृत्तिः
श्नमः परस्य नस्य लोपः स्यात्। हिनस्ति। जिहिंस। हिंसिता॥
हिन्दी अनुवाद
श्नम् से परे न का लोप होता है। हिनस्ति, जिहिंस, हिंसिता।
सरल व्याख्या
हिंस् → हि-न-स् (मूल न् हटा) → हिनस्ति (हिंसा करता है)।
६६८ विधिसूत्रम् अष्टा० 8.2.73
तिप्यनस्तेः ॥
अनुवृत्ति/अधिकार: सः, दः, पदस्य, पूर्वत्रासिद्धम्
वृत्तिः
पदान्तस्य सस्य दः स्यात्तिपि न त्वस्तेः। ससजुषोरुरित्यस्यापवादः। अहिनत्, अहिनद्। अहिंस्ताम्। अहिंसन्॥
हिन्दी अनुवाद
तिप् परे रहते पदान्त स को द होता है, पर अस् धातु को नहीं — 'ससजुषो रुः' का अपवाद। अहिनत्/अहिनद्, अहिंस्ताम्, अहिंसन्।
सरल व्याख्या
लङ्: अहिनस् + त् → अहिनत् (स् → द् → त्)।
६६९ विधिसूत्रम् अष्टा० 8.2.74
सिपि धातो रुर्वा ॥
अनुवृत्ति/अधिकार: दः, पदस्य, पूर्वत्रासिद्धम्
वृत्तिः
पदान्तस्य धातोः सस्य रुः स्याद्वा, पक्षे दः। अहिनः, अहिनत्, अहिनद्॥ 〔धातु 13: उन्दी — क्लेदने〕 ॥ उनत्ति। उन्तः। उन्दन्ति। उन्दाञ्चकार। औनत्, औनद्। औन्ताम्। औन्दन्। औनः, औनत्, औनद्। औनदम्॥ 〔धातु 14: अञ्जू — व्यक्तिम्रक्षणकान्तिगतिषु〕 ॥ अनक्ति। अङ्क्तः। अञ्जन्ति। आनञ्ज। आनञ्जिथ, आनङ्क्थ। अञ्जिता, अङ्क्ता। अङ्ग्धि। अनजानि। आनक्॥
हिन्दी अनुवाद
सिप् परे रहते धातु के पदान्त स को विकल्प से रु होता है, पक्ष में द। अहिनः, अहिनत्, अहिनद्। (धातु 13) उन्दी — गीला करना: उनत्ति, उन्तः, उन्दन्ति, उन्दाञ्चकार, औनत्/औनद्, औन्ताम्, औन्दन्, औनः/औनत्/औनद्, औनदम्। (14) अञ्जू — प्रकट करना, लेपन, कान्ति, गति: अनक्ति, अङ्क्तः, अञ्जन्ति, आनञ्ज, आनञ्जिथ/आनङ्क्थ, अञ्जिता/अङ्क्ता, अङ्ग्धि, अनजानि, आनक्।
सरल व्याख्या
उन्द् → उनत्ति (भिगोता है); अञ्ज् → अनक्ति (आँजता है) — अञ्जन शब्द इसी से।
६७० विधिसूत्रम् अष्टा० 7.2.71
अञ्जेः सिचि ॥
अनुवृत्ति/अधिकार: आर्धधातुकस्य, इट्, वलादेः, अङ्गस्य
वृत्तिः
अञ्जेः सिचो नित्यमिट् स्यात्। आञ्जीत्॥ 〔धातु 15: तञ्चू — संकोचने〕 ॥ तनक्ति। तञ्चिता, तङ्क्ता। ॥ 〔धातु 16: ओविजी — भयचलनयोः〕 ॥ विनक्ति॥ विङ्क्तः। विज इडिति ङित्त्वम्। विविजिथ। विजिता। अविनक्। अविजीत्॥ 〔धातु 17: शिषॢ — विशेषणे〕 ॥ शिनष्टि। शिंष्टः। शिंषन्ति। शिनक्षि। शिशेष। शिशेषिथ। शेष्टा। शेक्ष्यति। हेर्धिः। शिण्ड्ढि। शिनषाणि। अशिनट्। शिंष्यात्। शिष्यात्। अशिषत्॥ एवं 〔धातु 18: पिषॢ — संचूर्णने〕 ॥ 〔धातु 19: भञ्जो — आमर्दने〕 ॥ श्नान्नलोपः। भनक्ति। बभञ्जिथ, बभङ्क्थ। भङ्क्ता। भङ्ग्धि। अभाङ्क्षीत्॥ 〔धातु 20: भुज — पालनाभ्यवहारयोः〕 ॥ भुनक्ति। भोक्ता। भोक्ष्यति। अभुनक्॥
हिन्दी अनुवाद
अञ्ज् से (परे) सिच् को नित्य इट् होता है। आञ्जीत्। (धातु 15) तञ्चू — सिकोड़ना: तनक्ति, तञ्चिता/तङ्क्ता। (16) ओविजी — भय और चलन: विनक्ति, विङ्क्तः; 'विज इट्' से ङित्त्व — विविजिथ, विजिता, अविनक्, अविजीत्। (17) शिषॢ — विशिष्ट करना: शिनष्टि, शिंष्टः, शिंषन्ति, शिनक्षि, शिशेष, शिशेषिथ, शेष्टा, शेक्ष्यति; हि को धि — शिण्ड्ढि, शिनषाणि, अशिनट्, शिंष्यात्, शिष्यात्, अशिषत्। इसी प्रकार (18) पिषॢ — पीसना। (19) भञ्जो — तोड़ना: 'श्नान्नलोपः' — भनक्ति, बभञ्जिथ/बभङ्क्थ, भङ्क्ता, भङ्ग्धि, अभाङ्क्षीत्। (20) भुज् — पालन और भोजन: भुनक्ति, भोक्ता, भोक्ष्यति, अभुनक्।
सरल व्याख्या
शिष् → शिनष्टि (विशेष करता है), पिष् → पिनष्टि (पीसता है), भञ्ज् → भनक्ति (तोड़ता है), भुज् → भुनक्ति।
६७१ विधिसूत्रम् अष्टा० 1.3.66
भुजोऽनवने ॥
अनुवृत्ति/अधिकार: आत्मनेपदम्
वृत्तिः
तङानौ स्तः । ओदनं भुङ्क्ते । अनवने किम् ? महीं भुनक्ति ॥ 〔धातु 21: ञिइन्धी — दीप्तौ〕 ॥ इन्द्धे । इन्धाते । इन्धते । इन्त्से । इन्ध्वे । इन्धाञ्चक्रे । इन्धिता । इन्धाम् । इन्धाताम् । इनधै । ऐन्ध । ऐन्धाताम् । ऐन्धाः ॥ 〔धातु 22: विद — विचारणे〕 ॥ विन्दे । वेत्ता ॥ इति रुधादयः ॥ ७ ॥
हिन्दी अनुवाद
अवन (रक्षा) से भिन्न अर्थ में भुज् से तङ् और आन होते हैं। ओदनं भुङ्क्ते (भात खाता है)। अवन से भिन्न क्यों? महीं भुनक्ति (पृथ्वी का पालन करता है)। (धातु 21) ञिइन्धी — चमकना: इन्द्धे, इन्धाते, इन्धते, इन्त्से, इन्ध्वे, इन्धाञ्चक्रे, इन्धिता, इन्धाम्, इन्धाताम्, इनधै, ऐन्ध, ऐन्धाताम्, ऐन्धाः। (22) विद् — विचार करना: विन्दे, वेत्ता। (रुधादिगण समाप्त।)
सरल व्याख्या
भुज् = खाना → आत्मनेपद (भुङ्क्ते); भुज् = पालना → परस्मैपद (भुनक्ति)। इन्ध् → इन्द्धे (प्रज्वलित होता है) — 'इन्धन' इसी से। (रुधादि पूर्ण।)

मूल पाठ: लघुसिद्धान्तकौमुदी (वरदराजाचार्य) — डिजिटल पाठ-स्रोत ashtadhyayi.com · हिन्दी अनुवाद व सरल व्याख्या: cdsharma.in

💬 ज्योतिषीय प्रश्न पूछें