🕉️ 16 October 2026, Friday · 05:21:26 AM · CDSHARMA.IN

📜 लघुसिद्धान्तकौमुदी

वरदराजाचार्य कृत · पाणिनीय सूत्र, मूल वृत्ति, हिन्दी अनुवाद एवं सरल व्याख्या

← सभी प्रकरण

१९. तनादयः

तनादिगण · सूत्र 672–680 (9)
६७२ विधिसूत्रम् अष्टा० 2.4.79
तनादिभ्यस्तथासोः ॥
अनुवृत्ति/अधिकार: लुक्, सिचः, विभाषा
वृत्तिः
〔धातु 1: तनु — विस्तारे〕 ॥ «तनादिकृञ्भ्यः उः» [570] । तनोति, तनुते । ततान, तेने । तनितासि, तनितासे । तनिष्यति, तनिष्यते । तनोतु । तनुताम् । अतनोत्, अतनुत, तनुयात्, तन्वीत । तन्यात्, तनिषीष्ट । अतानीत्, अतनीत् ॥ «तनादिभ्यस्तथासोः» । तनादेः सिचो वा लुक् स्यात्तथासोः। अतत, अतनिष्ट। अतथाः, अतनिष्टाः। अतनिष्यत्, अतनिष्यत॥ 〔धातु 2: षणु — दाने〕 ॥ सनोति, सनुते॥
हिन्दी अनुवाद
(तनादिगण। धातु 1: तनु — फैलाना।) 'तनादिकृञ्भ्य उः' से — तनोति/तनुते, ततान/तेने, तनितासि/तनितासे, तनिष्यति/तनिष्यते, तनोतु, तनुताम्, अतनोत्/अतनुत, तनुयात्/तन्वीत, तन्यात्/तनिषीष्ट, अतानीत्/अतनीत्। (सूत्र) तनादि से सिच् का त और थास् परे रहते विकल्प से लुक् होता है — अतत/अतनिष्ट, अतथाः/अतनिष्ठाः, अतनिष्यत्/अतनिष्यत। (2) षणु — दान: सनोति, सनुते।
सरल व्याख्या
तनादिगण में 'उ' जुड़ता है: तन् → तनोति (फैलाता है), कृ → करोति। आत्मनेपद लुङ् के दो रूप: अतत / अतनिष्ट।
६७३ विधिसूत्रम् अष्टा० 6.4.43
ये विभाषा ॥
अनुवृत्ति/अधिकार: नलोपः, आत्, जन-सन-खनाम्, अङ्गस्य, असिद्धवदत्राभात्
वृत्तिः
जनसनखनामात्वं वा यादौ क्ङिति। सायात्, सन्यात्॥
हिन्दी अनुवाद
जन्, सन्, खन् — इनको यकारादि कित्-ङित् परे रहते विकल्प से आत्व होता है। सायात्/सन्यात्।
सरल व्याख्या
आशीर्लिङ्: सायात् / सन्यात्; जायात् / जन्यात्।
६७४ विधिसूत्रम् अष्टा० 6.4.42
जनसनखनां सञ्झलोः ॥
अनुवृत्ति/अधिकार: नलोपः, आत्, अङ्गस्य, असिद्धवदत्राभात्
वृत्तिः
एषामाकारेऽन्तादेशः स्यात् सनि झलादौ क्ङिति। असात, असनिष्ट॥॥ 〔धातु 3: क्षणु — हिंसायाम्〕 ॥ क्षणोति, क्षणुते॥ ह्म्यन्तेति न वृद्धिः। अक्षणीत्, अक्षत, अक्षणिष्ट। अक्षथाः, अक्षणिष्ठाः॥ 〔धातु 4: क्षिणु — च〕 ॥ अप्रत्यये लघूपधस्य गुणो वा। क्षेणोति, क्षिणोति। क्षेणिता। अक्षेणीत्, अक्षित, अक्षेणिष्ट॥ 〔धातु 5: तृणु — अदने〕 ॥ तृणोति, तर्णोति; तृणुते, तर्णुते॥ 〔धातु 6: डुकृञ् — करणे〕 ॥ करोति॥ «अत उत्सार्वधातुके» [571] - उप्रत्ययान्तस्य कृञोऽकारस्य उः स्यात्, सार्वधातुके क्ङिति । कुरुतः ॥
हिन्दी अनुवाद
सन् और झलादि कित्-ङित् परे रहते इन (जन्, सन्, खन्) को आकार अन्तादेश होता है। असात/असनिष्ट। (धातु 3) क्षणु — हिंसा: क्षणोति/क्षणुते; 'ह्म्यन्त' से वृद्धि नहीं — अक्षणीत्, अक्षत/अक्षणिष्ट, अक्षथाः/अक्षणिष्ठाः। (4) क्षिणु — (हिंसा) भी: प्रत्यय न होने पर लघूपध को विकल्प से गुण — क्षेणोति/क्षिणोति, क्षेणिता, अक्षेणीत्, अक्षित/अक्षेणिष्ट। (5) तृणु — खाना: तृणोति/तर्णोति, तृणुते/तर्णुते। (6) डुकृञ् — करना: करोति। 'अत उत् सार्वधातुके' — उ-प्रत्ययान्त कृञ् के अ को सार्वधातुक कित्-ङित् परे रहते उ होता है — कुरुतः।
सरल व्याख्या
जन् + क्त → जात, खन् → खात, सन् → सात। कृ (करना) → करोति, कुरुतः।
६७५ विधिसूत्रम् अष्टा० 8.2.79
न भकुर्छुराम् ॥
अनुवृत्ति/अधिकार: धातोः, र्वोः, दीर्घ, पदस्य, पूर्वत्रासिद्धम्
वृत्तिः
भस्य कुर्छुरोरुपधाया न दीर्घः। कुर्वन्ति ॥
हिन्दी अनुवाद
भ-संज्ञक, कुर् और छुर् की उपधा को दीर्घ नहीं होता। कुर्वन्ति।
सरल व्याख्या
कुरु + अन्ति → कुर्वन्ति (कूर्वन्ति नहीं)।
६७६ विधिसूत्रम् अष्टा० 6.4.108
नित्यं करोतेः ॥
अनुवृत्ति/अधिकार: क्ङिति, प्रत्ययात्, च, उतः, म्-वोः, लोपः, अङ्गस्य, असिद्धवदत्राभात्
वृत्तिः
करोतेः प्रत्ययोकारस्य नित्यं लोपो म्वोः परयोः। कुर्वः। कुर्मः। कुरुते। चकार, चक्रे। कर्तासि, कर्तासे। करिष्यति, करिष्यते। करोतु। कुरुताम्। अकरोत्। अकुरुत॥
हिन्दी अनुवाद
म और व परे रहते करोति के प्रत्यय-उकार का नित्य लोप होता है। कुर्वः, कुर्मः। कुरुते; चकार/चक्रे; कर्तासि/कर्तासे; करिष्यति/करिष्यते; करोतु, कुरुताम्; अकरोत्, अकुरुत।
सरल व्याख्या
कृ के लट् उत्तम पुरुष: करोमि, कुर्वः, कुर्मः (उ अवश्य हटता है)। लिट् चकार, लृट् करिष्यति, लङ् अकरोत्।
६७७ विधिसूत्रम् अष्टा० 6.4.109
ये च ॥
अनुवृत्ति/अधिकार: क्ङिति, उतः, च, प्रत्ययात्, लोपः, नित्यम्, करोतेः, अङ्गस्य, असिद्धवदत्राभात्
वृत्तिः
कृञ उलोपो यादौ प्रत्यये परे। कुर्यात्, कुर्वीत। क्रियात्, कृषीष्ट। अकार्षीत्, अकृत। अकरिष्यत्, अकरिष्यत॥
हिन्दी अनुवाद
यकारादि प्रत्यय परे रहते कृञ् के उ का लोप होता है। कुर्यात्, कुर्वीत; क्रियात्, कृषीष्ट; अकार्षीत्, अकृत; अकरिष्यत्, अकरिष्यत।
सरल व्याख्या
विधिलिङ्: कुर्यात् (करना चाहिए), आत्मनेपद कुर्वीत। लुङ्: अकार्षीत्, अकृत।
६७८ विधिसूत्रम् अष्टा० 6.1.137
सम्पर्युपेभ्यः करोतौ भूषणे ॥
अनुवृत्ति/अधिकार: संहितायाम्, सुट्कात्पूर्वः
हिन्दी अनुवाद
(वृत्ति नहीं) भूषण अर्थ में सम्, परि, उप से परे कृ को सुट् होता है।
सरल व्याख्या
सम् + कृ → संस्कृ (सजाना)।
६७९ विधिसूत्रम् अष्टा० 6.1.138
समवाये च ॥
अनुवृत्ति/अधिकार: सम्-परि-उपेभ्यः, करोतौ, संहितायाम्, सुट्कात्पूर्वः
वृत्तिः
सम्परिपूर्वस्य करोतेः सुट् स्याद् भूषणे संघाते चार्थे । संस्करोति । अलङ्करोतीत्यर्थः । संस्कुर्वन्ति । सङ्घीभवन्तीत्यर्थः । सम्पूर्वस्य क्वचिदभूषणेऽपि सुट् । संस्कृतं भक्षा इति ज्ञापकात् ॥
हिन्दी अनुवाद
समवाय (संघात) अर्थ में भी सम्-परि पूर्वक कृ को सुट् होता है — भूषण और संघात अर्थ में। संस्करोति — अर्थात् अलंकृत करता है। संस्कुर्वन्ति — अर्थात् इकट्ठे होते हैं। सम् पूर्वक को कहीं भूषण से भिन्न में भी सुट् — 'संस्कृतं भक्षाः' इस ज्ञापक से।
सरल व्याख्या
संस्करोति (सँवारता है), परिष्करोति (परिष्कार करता है)। 'संस्कृत' (परिष्कृत भाषा/भोजन) इसी से।
६८० विधिसूत्रम् अष्टा० 6.1.139
उपात् प्रतियत्नवैकृतवाक्याध्याहारेषु ॥
अनुवृत्ति/अधिकार: करोतौ, संहितायाम्, सुट्कात्पूर्वः
वृत्तिः
उपात्कृञः सुट् स्यादेष्वर्थेषु चात्प्रागुक्तयोरर्थयोः । प्रतियत्नो गुणाधानम् । विकृतमेव वैकृतं विकारः । वाक्याध्याहार आकाङ्क्षितैकदेशपूरणम् । उपस्कृता कन्या । उपस्कृता ब्राह्मणाः । एधो दकस्योपस्कुरुते । उपस्कृतं भुङ्क्ते । उपस्कृतं ब्रूते ॥ 〔धातु 7: वनु — याचने〕॥ वनुते ॥ 〔धातु 8: मनु — अवबोधने〕॥ मनुते ॥ मेने । मनिता । मनिष्यते । मनुताम् । अमनुत । मन्वीत । मनिषीष्ट । अमत, अमनिष्ट । अमनिष्यत ॥ इति तनादयः ॥ ८ ॥
हिन्दी अनुवाद
उप से परे कृञ् को प्रतियत्न, वैकृत, वाक्याध्याहार इन अर्थों में, और 'च' से पूर्वोक्त दोनों अर्थों में भी सुट् होता है। प्रतियत्न = गुण का आधान; वैकृत = विकार; वाक्याध्याहार = अपेक्षित एक भाग की पूर्ति। उपस्कृता कन्या, उपस्कृताः ब्राह्मणाः, एधो दकस्योपस्कुरुते, उपस्कृतं भुङ्क्ते, उपस्कृतं ब्रूते। (धातु 7) वनु — माँगना: वनुते। (8) मनु — जानना: मनुते, मेने, मनिता, मनिष्यते, मनुताम्, अमनुत, मन्वीत, मनिषीष्ट, अमत/अमनिष्ट, अमनिष्यत। (तनादिगण समाप्त।)
सरल व्याख्या
उपस्कृत = सँवारा/विकृत/पूरा किया हुआ; 'उपस्कर' (सामग्री) इसी से। (तनादि पूर्ण।)

मूल पाठ: लघुसिद्धान्तकौमुदी (वरदराजाचार्य) — डिजिटल पाठ-स्रोत ashtadhyayi.com · हिन्दी अनुवाद व सरल व्याख्या: cdsharma.in

💬 ज्योतिषीय प्रश्न पूछें