📜 लघुसिद्धान्तकौमुदी
वरदराजाचार्य कृत · पाणिनीय सूत्र, मूल वृत्ति, हिन्दी अनुवाद एवं सरल व्याख्या
मूल वृत्ति
हिन्दी अनुवाद
सरल व्याख्या
६८१
विधिसूत्रम् अष्टा० 3.1.81
क्र्यादिभ्यः श्ना ॥
अनुवृत्ति/अधिकार: सार्वधातुके, कर्तरि, प्रत्ययः, परश्च, आद्युदात्तश्च, धातोः
वृत्तिः
॥ 〔धातु 1: डुक्रीञ् — द्रव्यविनिमये〕 ॥ शपोऽपवादः। क्रीणाति। ई हल्यघोः। क्रीणीतः। श्नाभ्यस्तयोरातः। क्रीणन्ति। क्रीणासि। क्रीणीथः। क्रीणीथ। क्रीणामि। क्रीणीवः। क्रीणीमः। क्रीणीते। क्रीणाते। क्रीणते। क्रीणीषे। क्रीणाथे। क्रीणीध्वे। क्रीणे। क्रीणीवहे। क्रीणीमहे। चिक्राय। चिक्रियतुः। चिक्रियुः। चिक्रयिथ, चिक्रेथ। चिक्रिय। चिक्रिये। क्रेता। क्रेष्यति, क्रेष्यते। क्रीणातु, क्रीणीतात्। क्रीणीताम्। अक्रीणात्, अक्रीणीत। क्रीणीयात्, क्रीणीत। क्रीयात्, क्रेषीष्ट। अक्रैषीत्, अक्रेष्यत॥॥ 〔धातु 2: प्रीञ् — तर्पणे कान्तौ च〕 ॥ प्रीणाति, प्रीणीते॥ 〔धातु 3: श्रीञ् — पाके〕 ॥ श्रीणाति, श्रीणीते॥ 〔धातु 4: मीञ् — हिंसायाम्〕 ॥
हिन्दी अनुवाद
(क्र्यादिगण। धातु 1: डुक्रीञ् — द्रव्य-विनिमय, खरीदना।) क्र्यादि से श्ना होता है — शप् का अपवाद। क्रीणाति; 'ई हल्यघोः' — क्रीणीतः; 'श्नाभ्यस्तयोरातः' — क्रीणन्ति, क्रीणासि, क्रीणीथः, क्रीणीथ, क्रीणामि, क्रीणीवः, क्रीणीमः; क्रीणीते, क्रीणाते, क्रीणते, क्रीणीषे, क्रीणाथे, क्रीणीध्वे, क्रीणे, क्रीणीवहे, क्रीणीमहे; चिक्राय, चिक्रियतुः, चिक्रियुः, चिक्रयिथ/चिक्रेथ, चिक्रिय, चिक्रिये; क्रेता, क्रेष्यति/क्रेष्यते; क्रीणातु, क्रीणीतात्, क्रीणीताम्; अक्रीणात्, अक्रीणीत; क्रीणीयात्, क्रीणीत; क्रीयात्, क्रेषीष्ट; अक्रैषीत्, अक्रेष्यत। (2) प्रीञ् — तृप्त करना, कान्ति: प्रीणाति, प्रीणीते। (3) श्रीञ् — पकाना: श्रीणाति, श्रीणीते। (4) मीञ् — हिंसा।
सरल व्याख्या
क्र्यादिगण में 'ना' जुड़ता है: क्री → क्रीणाति (खरीदता है), ज्ञा → जानाति, ग्रह् → गृह्णाति, अश् → अश्नाति।
६८२
विधिसूत्रम् अष्टा० 8.4.15
हिनुमीना ॥
अनुवृत्ति/अधिकार: रषाभ्याम्, उपसर्गात्, पूर्वत्रासिद्धम्, संहितायाम्
वृत्तिः
उपसर्गस्थान्निमित्तात्परस्यैतयोर्नस्य णः स्यात्। प्रमीणाति, प्रमीणीते। मीनातीत्यात्वम्। ममौ। मिम्यतुः। ममिथ, ममाथ। मिम्ये। माता। मास्यति। मीयात्, मासीष्ट। अमासीत्। अमासिष्टाम्। अमास्त॥ 〔धातु 5: षिञ् — बन्धने〕 ॥ सिनाति, सिनीते। सिषाय, सिष्ये। सेता॥ 〔धातु 6: स्कुञ् — आप्लवने〕 ॥
हिन्दी अनुवाद
उपसर्ग में स्थित निमित्त से परे हि और मीना के न को ण होता है। प्रमीणाति, प्रमीणीते; 'मीनाति' से आत्व — ममौ, मिम्यतुः, ममिथ/ममाथ, मिम्ये, माता, मास्यति, मीयात्/मासीष्ट, अमासीत्, अमासिष्टाम्, अमास्त। (धातु 5) षिञ् — बाँधना: सिनाति, सिनीते, सिषाय, सिष्ये, सेता। (6) स्कुञ् — कूदना/ढकना।
सरल व्याख्या
प्र + मीनाति → प्रमीणाति।
६८३
विधिसूत्रम् अष्टा० 3.1.82
स्तन्भुस्तुन्भुस्कन्भुस्कुन्भुस्कुञ्भ्यः श्नुश्च ॥
अनुवृत्ति/अधिकार: सार्वधातुके, कर्तरि, श्ना, प्रत्ययः, परश्च, आद्युदात्तश्च, धातोः
वृत्तिः
चात् श्ना। स्कुनोति, स्कुनाति। स्कुनुते, स्कुनीते। चुस्काव, चुस्कुवे। स्कोता। अस्कौषीत्, अस्कोष्ट॥ स्तन्भ्वादयश्चत्वारः सौत्राः। सर्वे रोधनार्थाः परस्मैपदिनः॥
हिन्दी अनुवाद
स्तन्भु, स्तुन्भु, स्कन्भु, स्कुन्भु, स्कुञ् — इनसे श्नु होता है, 'च' से श्ना भी। स्कुनोति/स्कुनाति, स्कुनुते/स्कुनीते, चुस्काव, चुस्कुवे, स्कोता, अस्कौषीत्, अस्कोष्ट। स्तन्भु आदि चार 'सौत्र' (सूत्र में ही पठित) हैं — सब रोकने के अर्थ में, परस्मैपदी।
सरल व्याख्या
इन धातुओं के दोनों गणों जैसे रूप: स्कुनोति / स्कुनाति।
६८४
विधिसूत्रम् अष्टा० 3.1.83
हलः श्नः शानज्झौ ॥
अनुवृत्ति/अधिकार: कर्तरि, प्रत्ययः, परश्च, आद्युदात्तश्च, धातोः
वृत्तिः
हलः परस्य श्नः शानजादेशः स्याद्धौ परे। स्तभान॥
हिन्दी अनुवाद
हि परे रहते हल् से परे श्ना को शानच् आदेश होता है। स्तभान।
सरल व्याख्या
लोट्: स्तभ् + ना + हि → स्तभान (रोको); अश् → अशान, ग्रह् → गृहाण।
६८५
विधिसूत्रम् अष्टा० 3.1.58
जॄस्तम्भुम्रुचुम्लुचुग्रुचुग्लुचुग्लुञ्चुश्विभ्यश्च ॥
अनुवृत्ति/अधिकार: लुङि, च्लेः, अङ्, परस्मैपदेषु, वा, प्रत्ययः, परश्च, आद्युदात्तश्च, धातोः
वृत्तिः
च्लेरङ् वा स्यात्॥
हिन्दी अनुवाद
जॄ, स्तम्भु, म्रुचु, म्लुचु, ग्रुचु, ग्लुचु, ग्लुञ्चु, श्वि — इनसे च्लि को विकल्प से अङ् होता है।
सरल व्याख्या
इनके लुङ् के दो रूप।
६८६
विधिसूत्रम् अष्टा० 8.3.67
स्तम्भेः ॥
अनुवृत्ति/अधिकार: सः, अड्व्यवाये, अपि, उपसर्गात्, पूर्वत्रासिद्धम्, संहितायाम्, अपदान्तस्य मूर्धन्यः, इण्कोः
वृत्तिः
स्तन्भेः सौत्रस्य सस्य षः स्यात्। व्यष्टभत्। अस्तम्भीत्॥ 〔धातु 7: युञ् — बन्धने〕 ॥ युनाति, युनीते। योता॥ 〔धातु 8: क्नूञ् — शब्दे〕 ॥ क्नूनाति, क्नूनीते॥ 〔धातु 9: द्रूञ् — हिंसायाम्〕 ॥ द्रूणाति, द्रूणीते॥ 〔धातु 10: पूञ् — पवने〕 ॥
हिन्दी अनुवाद
सौत्र स्तन्भ् के स को ष होता है। व्यष्टभत्, अस्तम्भीत्। (धातु 7) युञ् — बाँधना: युनाति, युनीते, योता। (8) क्नूञ् — शब्द: क्नूनाति, क्नूनीते। (9) द्रूञ् — हिंसा: द्रूणाति, द्रूणीते। (10) पूञ् — पवित्र करना।
सरल व्याख्या
वि + स्तभत् → व्यष्टभत्।
६८७
विधिसूत्रम् अष्टा० 7.3.80
प्वादीनां ह्रस्वः ॥
अनुवृत्ति/अधिकार: शिति, अङ्गस्य
वृत्तिः
पूञ्-लूञ्-स्तॄञ्-कॄञ्-वॄञ्-धूञ्-शॄ-पॄ-वॄ-भॄ-मॄ-दॄ-जॄ-झॄ-धॄ-नॄ-कॄ-ॠ-गॄ-ज्या-री-ली-व्ली-प्लीनां चतुर्विंशतेः शिति ह्रस्वः। पुनाति, पुनीते। पविता॥ 〔धातु 11: लूञ् — छेदने〕 ॥ लुनाति, लुनीते॥ 〔धातु 12: स्तॄञ् — आच्छादने〕 ॥ स्तृणाति। शर्पूर्वाः खयः। तस्तार। तस्तरतुः। तस्तरे। स्तरीता। स्तरिता। स्तृणीयात्, स्तृणीत। स्तीर्यात्॥
हिन्दी अनुवाद
पूञ्, लूञ्, स्तॄञ्, कॄञ्, वॄञ्, धूञ्, शॄ, पॄ, वॄ, भॄ, मॄ, दॄ, जॄ, झॄ, धॄ, नॄ, कॄ, ॠ, गॄ, ज्या, री, ली, व्ली, प्ली — इन चौबीस (प्वादि) को शित् परे रहते ह्रस्व होता है। पुनाति, पुनीते, पविता। (11) लूञ् — काटना: लुनाति, लुनीते। (12) स्तॄञ् — ढकना: स्तृणाति; 'शर्पूर्वाः खयः' — तस्तार, तस्तरतुः, तस्तरे, स्तरीता/स्तरिता, स्तृणीयात्/स्तृणीत, स्तीर्यात्।
सरल व्याख्या
पू (पवित्र करना) → पुनाति (ह्रस्व), लू (काटना) → लुनाति।
६८८
विधिसूत्रम् अष्टा० 7.2.42
लिङ्सिचोरात्मनेपदेषु ॥
अनुवृत्ति/अधिकार: वलादेः, इट्, आर्धधातुकस्य, वॄतः, वा, अङ्गस्य
वृत्तिः
वृङ्वृञ्भ्यामॄदन्ताच्च परयोर्लिङ्सिचोरिड् वा स्यात्तङि॥
हिन्दी अनुवाद
वृङ्, वृञ् और ॠदन्त से परे लिङ् और सिच् को तङ् में विकल्प से इट् होता है।
सरल व्याख्या
आत्मनेपद आशीर्लिङ्/लुङ् में इट् वैकल्पिक।
६८९
विधिसूत्रम् अष्टा० 7.2.39
न लिङि ॥
अनुवृत्ति/अधिकार: वलादेः, इट्, आर्धधातुकस्य, दीर्घः, वॄतः, अङ्गस्य
वृत्तिः
वॄत इटो लिङि न दीर्घः। स्तरिषीष्ट। उश्चेति कित्त्वम्। स्तीर्षीष्ट। सिचि च परस्मैपदेषु। अस्तारीत्। अस्तारिष्टाम्। अस्तारिषुः। अस्तरीष्ट, अस्तरिष्ट, अस्तीर्ष्ट॥ 〔धातु 13: कॄञ् — हिंसायाम्〕 ॥ कृणाति, कृणीते। चकार, चकरे॥ 〔धातु 14: वॄञ् — वरणे〕 ॥ वृणाति, वृणीते। ववार, ववरे। वरिता, वरीता। उदोष्ठ्येत्युत्त्वम्। वूर्यात्। वरिषीष्ट, वूर्षीष्ट। अवारीत्। अवारिष्टाम्। अवरिष्ट, अवरीष्ट, अवूर्ष्ट॥ 〔धातु 15: धूञ् — कम्पने〕 ॥ धुनाति, धुनीते। धविता, धोता। अधावीत्। अधविष्ट, अधोष्ट॥ 〔धातु 16: ग्रह — उपादाने〕 ॥ गृह्णाति, गृह्णीते। जग्राह, जगृहे॥
हिन्दी अनुवाद
वॄ (आदि) से (परे) इट् को लिङ् में दीर्घ नहीं होता। स्तरिषीष्ट; 'उश्च' से कित्त्व — स्तीर्षीष्ट। 'सिचि च परस्मैपदेषु' — अस्तारीत्, अस्तारिष्टाम्, अस्तारिषुः; अस्तरीष्ट, अस्तरिष्ट, अस्तीर्ष्ट। (धातु 13) कॄञ् — हिंसा: कृणाति, कृणीते, चकार, चकरे। (14) वॄञ् — वरण (चुनना): वृणाति, वृणीते, ववार, ववरे, वरिता/वरीता; 'उदोष्ठ्य' से उत्व — वूर्यात्, वरिषीष्ट/वूर्षीष्ट, अवारीत्, अवारिष्टाम्, अवरिष्ट/अवरीष्ट/अवूर्ष्ट। (15) धूञ् — कँपाना: धुनाति, धुनीते, धविता/धोता, अधावीत्, अधविष्ट/अधोष्ट। (16) ग्रह् — ग्रहण करना: गृह्णाति, गृह्णीते, जग्राह, जगृहे।
सरल व्याख्या
वॄ (चुनना) → वृणाति, वृणीते (वरण करता है)। ग्रह् → गृह्णाति (ग्रहण करता है)।
६९०
विधिसूत्रम् अष्टा० 7.2.37
ग्रहोऽलिटि दीर्घः ॥
अनुवृत्ति/अधिकार: आर्धधातुकस्य, इट्, वलादेः, अङ्गस्य
वृत्तिः
एकाचो ग्रहेर्विहितस्येटो दीर्घो न तु लिटि । ग्रहीता । गृह्णातु । हलः श्नः शनञ्झविति श्नः शनजादेशः । गृहाणा । गृह्यात्, ग्रहीषीष्ट । ह्म्यन्तेति न वृद्धिः । अग्रहीत् । अग्रहीष्टाम् । अग्रहीष्ट । अग्रहीषाताम् ॥ 〔धातु 17: कुष — निष्कर्षे〕 ॥ कुष्णाति । कोषिता । 〔धातु 18: अश — भोजने〕 ॥ अश्नाति । आश । अशिता । अशिष्यति । अश्नातु । अशान ॥ 〔धातु 19: मुष — स्तेये〕 ॥ मोषिता । मुषाण ॥ 〔धातु 20: ज्ञा — अवबोधने〕 ॥ जज्ञौ ॥ 〔धातु 21: वृङ् — सम्भक्तौ〕 ॥ वृणीते । ववृषे । ववृढ्वे । वरिता, वरीता । अवरीष्ट, अवरिष्ट, अवृत ॥ इति क्र्यादयः ॥ ९ ॥
हिन्दी अनुवाद
एकाच् ग्रह् से विहित इट् को दीर्घ होता है, पर लिट् में नहीं। ग्रहीता; गृह्णातु; 'हलः श्नः शानज्झौ' से श्ना को शानच् — गृहाण; गृह्यात्, ग्रहीषीष्ट; 'ह्म्यन्त' से वृद्धि नहीं — अग्रहीत्, अग्रहीष्टाम्, अग्रहीष्ट, अग्रहीषाताम्। (17) कुष् — निकालना: कुष्णाति, कोषिता। (18) अश् — खाना: अश्नाति, आश, अशिता, अशिष्यति, अश्नातु, अशान। (19) मुष् — चोरी: मोषिता, मुषाण। (20) ज्ञा — जानना: जज्ञौ। (21) वृङ् — सेवा/चुनना: वृणीते, ववृषे, ववृढ्वे, वरिता/वरीता, अवरीष्ट/अवरिष्ट/अवृत। (क्र्यादिगण समाप्त।)
सरल व्याख्या
ग्रह् का इ दीर्घ: ग्रहीता, ग्रहीतुम् (ग्रहितुम् नहीं)। लोट्: गृहाण (ग्रहण करो)। अश्नाति (खाता है)। (क्र्यादि पूर्ण।)
मूल पाठ: लघुसिद्धान्तकौमुदी (वरदराजाचार्य) — डिजिटल पाठ-स्रोत ashtadhyayi.com · हिन्दी अनुवाद व सरल व्याख्या: cdsharma.in