📜 लघुसिद्धान्तकौमुदी
वरदराजाचार्य कृत · पाणिनीय सूत्र, मूल वृत्ति, हिन्दी अनुवाद एवं सरल व्याख्या
← सभी प्रकरण
३६. उत्तरकृदन्तम्
उत्तर कृदन्त · सूत्र 845–883 (39)
मूल वृत्ति
हिन्दी अनुवाद
सरल व्याख्या
८४५
विधिसूत्रम् अष्टा० 3.3.10
तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् ॥
अनुवृत्ति/अधिकार: कृत्, प्रत्ययः, परश्च, आद्युदात्तश्च, धातोः, भविष्यति
वृत्तिः
क्रियार्थायां क्रियायामुपपदे भविष्यत्यर्थे धातोरेतौ स्तः । मान्तत्वादव्ययत्वम् । कृष्णं द्रष्टुं याति । कृष्णं दर्शको याति ॥
हिन्दी अनुवाद
क्रिया के लिये क्रिया उपपद होने पर भविष्यत् अर्थ में धातु से ये (तुमुन् और ण्वुल्) होते हैं। मकारान्त होने से (तुमुन्नन्त) अव्यय। कृष्णं द्रष्टुं याति; कृष्णं दर्शकः याति।
सरल व्याख्या
'करने के लिये' अर्थ में तुमुन् (तुम्): द्रष्टुम् (देखने के लिये), पठितुम्, गन्तुम्। कृष्णं द्रष्टुं याति = कृष्ण को देखने जाता है।
८४६
विधिसूत्रम् अष्टा० 3.3.167
कालसमयवेलासु तुमुन् ॥
अनुवृत्ति/अधिकार: कृत्, प्रत्ययः, परश्च, आद्युदात्तश्च, धातोः
वृत्तिः
कालार्थेषूपपदेषु तुमुन्। कालः समयो वेला वा भोक्तुम्॥
हिन्दी अनुवाद
काल-अर्थक (काल, समय, वेला) उपपद होने पर तुमुन् होता है। कालः समयः वेला वा भोक्तुम्।
सरल व्याख्या
'भोजन करने का समय है' = कालो भोक्तुम्।
८४७
अधिकारसूत्रम् · भावाधिकारः अष्टा० 3.3.18
भावे ॥
अनुवृत्ति/अधिकार: कृत्, घञ्, प्रत्ययः, परश्च, आद्युदात्तश्च, धातोः, भावे
वृत्तिः
सिद्धावस्थापन्ने धात्वर्थे वाच्ये धातोर्घञ्। पाकः॥
हिन्दी अनुवाद
सिद्ध अवस्था को प्राप्त धातु-अर्थ (भाव) के वाच्य होने पर धातु से घञ् होता है। पाकः।
सरल व्याख्या
भाववाचक संज्ञा 'घञ्' (अ, वृद्धि सहित): पच् → पाकः (पकाना), त्यज् → त्यागः, भुज् → भोगः, रम् → रामः।
८४८
अधिकारसूत्रम् · अकर्तरि च कारके संज्ञायाम् इत्यधिकारः अष्टा० 3.3.19
अकर्तरि च कारके संज्ञायाम् ॥
अनुवृत्ति/अधिकार: कृत्, घञ्, प्रत्ययः, परश्च, आद्युदात्तश्च, धातोः, भावे, अकर्तरि च कारके संज्ञायाम्
वृत्तिः
कर्तृभिन्ने कारके घञ् स्यात्॥
हिन्दी अनुवाद
कर्ता से भिन्न कारक (अर्थ) में संज्ञा होने पर घञ् होता है।
सरल व्याख्या
कर्म, करण आदि अर्थों में भी घञ्: प्रास्यन्ते अस्मिन् = प्रासः।
८४९
विधिसूत्रम् अष्टा० 6.4.27
घञि च भावकरणयोः ॥
अनुवृत्ति/अधिकार: नलोपः, उपधायाः, रञ्जेः, अङ्गस्य, असिद्धवदत्राभात्
वृत्तिः
रञ्जेर्नलोपः स्यात्। रागः। अनयोः किम्? रज्यत्यस्मिन्निति रङ्गः॥
हिन्दी अनुवाद
भाव और करण अर्थ वाले घञ् परे रहते रञ्ज् के न का लोप होता है। रागः। इन दोनों में क्यों? रज्यति अस्मिन् इति रङ्गः (अधिकरण में)।
सरल व्याख्या
रञ्ज् → रागः (राग/अनुराग); अधिकरण में न् नहीं हटता: रङ्गः (रंगमंच)।
८५०
विधिसूत्रम् अष्टा० 3.3.41
निवासचितिशरीरोपसमाधानेष्वादेश्च कः ॥
अनुवृत्ति/अधिकार: कृत्, घञ्, चेः, प्रत्ययः, परश्च, आद्युदात्तश्च, धातोः, भावे, अकर्तरि च कारके संज्ञायाम्
वृत्तिः
एषु चिनोतेर्घञ् आदेश्च ककारः। उपसमाधानं राशीकरणम्। निकायः। कायः। गोमयनिकायः॥
हिन्दी अनुवाद
निवास, चिति (चयन), शरीर, उपसमाधान अर्थों में चि से घञ् और आदि (च) को क होता है। उपसमाधान = ढेर लगाना। निकायः, कायः, गोमयनिकायः।
सरल व्याख्या
चि → कायः (शरीर — जो कोशिकाओं का चय है), निकायः (निवास/समूह)।
८५१
विधिसूत्रम् अष्टा० 3.3.56
एरच् ॥
अनुवृत्ति/अधिकार: कृत्, प्रत्ययः, परश्च, आद्युदात्तश्च, धातोः, भावे, अकर्तरि च कारके संज्ञायाम्
वृत्तिः
इवर्णान्तादच् । चयः । जयः ॥
हिन्दी अनुवाद
इवर्णान्त (धातु) से अच् होता है। चयः, जयः।
सरल व्याख्या
इवर्णान्त से भाववाचक 'अ' (गुण सहित): जि → जयः, चि → चयः, नी → नयः।
८५२
विधिसूत्रम् अष्टा० 3.3.57
ॠदोरप् ॥
अनुवृत्ति/अधिकार: कृत्, प्रत्ययः, परश्च, आद्युदात्तश्च, धातोः, भावे, अकर्तरि च कारके संज्ञायाम्
वृत्तिः
ॠवर्णान्तादुवर्णान्ताच्चाप्। करः। गरः। यवः। लवः। स्तवः। पवः। «घञर्थे कविधानम्» । प्रस्थः। विघ्नः॥
हिन्दी अनुवाद
ॠवर्णान्त और उवर्णान्त से अप् होता है। करः, गरः, यवः, लवः, स्तवः, पवः। (वार्तिक) घञ् के अर्थ में क का विधान — प्रस्थः, विघ्नः।
सरल व्याख्या
ऋ/उ-अन्त धातुओं से 'अप्' (गुण सहित, वृद्धि नहीं): स्तु → स्तवः, लू → लवः, कॄ → करः। विघ्नः (वि + हन् + क)।
८५३
विधिसूत्रम् अष्टा० 3.3.88
ड्वितः क्त्रिः ॥
अनुवृत्ति/अधिकार: कृत्, प्रत्ययः, परश्च, आद्युदात्तश्च, धातोः, भावे, अकर्तरि च कारके संज्ञायाम्
हिन्दी अनुवाद
(वृत्ति नहीं) ड्वित् (डु इत् वाली) धातु से क्त्रि होता है।
सरल व्याख्या
डुपच् → पक्त्रि।
८५४
विधिसूत्रम् अष्टा० 4.4.20
क्त्रेर्मम् नित्यम् ॥
अनुवृत्ति/अधिकार: तेन, निर्वृत्ते, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्वहतेष्ठक्, समर्थानां प्रथमाद्वा
वृत्तिः
क्त्रिप्रत्ययान्तात्मप् निर्वृत्तेऽर्थे। पाकेन निर्वृत्तं पक्त्रिमम्। डुवप् उप्त्रिमम्॥
हिन्दी अनुवाद
क्त्रि-प्रत्ययान्त से 'निर्वृत्त' (बना हुआ) अर्थ में नित्य मप् होता है। पाकेन निर्वृत्तं पक्त्रिमम्; डुवप् → उप्त्रिमम्।
सरल व्याख्या
पक्त्रिमम् (पकाकर बना हुआ), कृत्रिमम् (बनाया हुआ — कृत्रिम) इसी से।
८५५
विधिसूत्रम् अष्टा० 3.3.89
ट्वितोऽथुच् ॥
अनुवृत्ति/अधिकार: कृत्, प्रत्ययः, परश्च, आद्युदात्तश्च, धातोः, भावे, अकर्तरि च कारके संज्ञायाम्
वृत्तिः
टुवेपृ कम्पने, वेपथः ॥
हिन्दी अनुवाद
ट्वित् (टु इत् वाली) धातु से अथुच् होता है। टुवेपृ — काँपना: वेपथुः।
सरल व्याख्या
वेपथुः (कम्पन)।
८५६
विधिसूत्रम् अष्टा० 3.3.90
यजयाचयतविच्छप्रच्छरक्षो नङ् ॥
अनुवृत्ति/अधिकार: कृत्, प्रत्ययः, परश्च, आद्युदात्तश्च, धातोः, भावे, अकर्तरि च कारके संज्ञायाम्
वृत्तिः
यज्ञः। याच्ञा। यत्नः। विश्नः। प्रश्नः। रक्ष्णः॥
हिन्दी अनुवाद
यज्, याच्, यत्, विच्छ्, प्रच्छ्, रक्ष् से नङ् होता है। यज्ञः, याच्ञा, यत्नः, विश्नः, प्रश्नः, रक्ष्णः।
सरल व्याख्या
यज्ञ, यत्न, प्रश्न, याचना — ये 'न' प्रत्यय से।
८५७
विधिसूत्रम् अष्टा० 3.3.91
स्वपो नन् ॥
अनुवृत्ति/अधिकार: कृत्, प्रत्ययः, परश्च, आद्युदात्तश्च, धातोः, भावे, अकर्तरि च कारके संज्ञायाम्
हिन्दी अनुवाद
स्वप् से नन् होता है। स्वप्नः।
सरल व्याख्या
स्वप्नः (नींद/सपना)।
८५८
विधिसूत्रम् अष्टा० 3.3.92
उपसर्गे घोः किः ॥
अनुवृत्ति/अधिकार: कृत्, प्रत्ययः, परश्च, आद्युदात्तश्च, धातोः, भावे, अकर्तरि च कारके संज्ञायाम्
हिन्दी अनुवाद
उपसर्ग (उपपद) होने पर घु से कि होता है। प्रधिः, उपधिः।
सरल व्याख्या
प्र + धा → प्रधिः (पहिये की नेमि), उपधिः (छल), निधिः, विधिः।
८५९
अधिकारसूत्रम् · स्त्र्यधिकारः (प्रथमः) अष्टा० 3.3.94
स्त्रियां क्तिन् ॥
अनुवृत्ति/अधिकार: कृत्, प्रत्ययः, परश्च, आद्युदात्तश्च, धातोः, भावे, अकर्तरि च कारके संज्ञायाम्, स्त्रियाम्
वृत्तिः
स्त्रीलिङ्गे भावे क्तिन् स्यात्। घञोऽपवादः। कृतिः। स्तुतिः। «ॠल्वादिभ्यः क्तिन्निष्ठावद्वाच्यः» (वार्त्तिकम्)। तेन नत्वम्। कीर्णिः। लूनिः। धूनिः। पूनिः। «संपदादिभ्यः क्विप्» (वार्त्तिकम्) । संपत्। विपत्। आपत्। «क्तिन्नपीष्यते» (वार्त्तिकम्)। संपत्तिः। विपत्तिः। आपत्तिः॥
हिन्दी अनुवाद
स्त्रीलिङ्ग भाव में क्तिन् होता है — घञ् का अपवाद। कृतिः, स्तुतिः। (वार्तिक) ॠ और लू आदि से क्तिन् निष्ठा के समान कहना चाहिए — इससे नत्व: कीर्णिः, लूनिः, धूनिः, पूनिः। (वार्तिक) सम्पद् आदि से क्विप् — सम्पत्, विपत्, आपत्। (वार्तिक) क्तिन् भी इष्ट है — सम्पत्तिः, विपत्तिः, आपत्तिः।
सरल व्याख्या
स्त्रीलिङ्ग भाववाचक 'ति': कृ → कृतिः, स्तु → स्तुतिः, मन् → मतिः, गम् → गतिः। सम्पत् / सम्पत्ति दोनों।
८६०
विधिसूत्रम् अष्टा० 3.3.97
ऊतियूतिजूतिसातिहेतिकीर्तयश्च ॥
अनुवृत्ति/अधिकार: कृत्, क्तिन्, उदात्तः, प्रत्ययः, परश्च, आद्युदात्तश्च, धातोः, भावे, अकर्तरि च कारके संज्ञायाम्, स्त्रियाम्
हिन्दी अनुवाद
ऊति, यूति, जूति, साति, हेति, कीर्ति — ये निपातन से (सिद्ध) होते हैं।
सरल व्याख्या
कीर्तिः (यश), ऊतिः (रक्षा)।
८६१
विधिसूत्रम् अष्टा० 6.4.20
ज्वरत्वरस्रिव्यविमवामुपधायाश्च ॥
अनुवृत्ति/अधिकार: क्वि-झलोः, क्ङिति, श-ऊठ्, च्छ्-वोः, अङ्गस्य
वृत्तिः
एषामुपधावकारयोरूठ् अनुनासिके क्वौ झलादौ क्ङिति॥ अतः क्विप्। जूः। तूः। स्रूः। ऊः। मूः॥
हिन्दी अनुवाद
ज्वर्, त्वर्, स्रिव्, अव्, मव् — इनकी उपधा और व को अनुनासिक, क्वि और झलादि कित्-ङित् परे रहते ऊठ् होता है। (इसलिए) क्विप् — जूः, तूः, स्रूः, ऊः, मूः।
सरल व्याख्या
ज्वर् → जूः (बुखार), त्वर् → तूः (शीघ्रता)।
८६२
विधिसूत्रम् अष्टा० 3.3.101
इच्छा ॥
अनुवृत्ति/अधिकार: कृत्, श, प्रत्ययः, परश्च, आद्युदात्तश्च, धातोः, भावे, अकर्तरि च कारके संज्ञायाम्, स्त्रियाम्
हिन्दी अनुवाद
'इच्छा' — यह इष् से निपातन है।
८६३
विधिसूत्रम् अष्टा० 3.3.102
अ प्रत्ययात् ॥
अनुवृत्ति/अधिकार: कृत्, प्रत्ययः, परश्च, आद्युदात्तश्च, धातोः, भावे, अकर्तरि च कारके संज्ञायाम्, स्त्रियाम्
वृत्तिः
प्रत्ययान्तेभ्यो धातुभ्यः स्त्रियामकारः प्रत्ययः स्यात्। चिकीर्षा। पुत्रकाम्या॥
हिन्दी अनुवाद
प्रत्ययान्त धातुओं से स्त्रीलिङ्ग में अकार प्रत्यय होता है। चिकीर्षा, पुत्रकाम्या।
सरल व्याख्या
सन्नन्त आदि से 'आ' (टाप् सहित): चिकीर्ष → चिकीर्षा (करने की इच्छा), जिज्ञासा, पिपासा।
८६४
विधिसूत्रम् अष्टा० 3.3.103
गुरोश्च हलः ॥
अनुवृत्ति/अधिकार: कृत्, अ, प्रत्ययः, परश्च, आद्युदात्तश्च, धातोः, भावे, अकर्तरि च कारके संज्ञायाम्, स्त्रियाम्
वृत्तिः
गुरुमतो हलन्तात्स्त्रियामकारः प्रत्ययः स्यात्। ईहा॥
हिन्दी अनुवाद
गुरु-वाली हलन्त (धातु) से स्त्रीलिङ्ग में अकार प्रत्यय होता है। ईहा।
सरल व्याख्या
ईह् → ईहा (चेष्टा), ऊह् → ऊहा, शिक्ष् → शिक्षा।
८६५
विधिसूत्रम् अष्टा० 3.3.107
ण्यासश्रन्थो युच् ॥
अनुवृत्ति/अधिकार: कृत्, प्रत्ययः, परश्च, आद्युदात्तश्च, धातोः, भावे, अकर्तरि च कारके संज्ञायाम्, स्त्रियाम्
वृत्तिः
अकारस्यापवादः। कारणा। हारणा॥
हिन्दी अनुवाद
णिजन्त, आस्, श्रन्थ् से युच् होता है — अकार का अपवाद। कारणा, हारणा।
सरल व्याख्या
णिजन्त से 'अना': कारि → कारणा, भावि → भावना, चेति → चेतना।
८६६
विधिसूत्रम् अष्टा० 3.3.114
नपुंसके भावे क्तः ॥
अनुवृत्ति/अधिकार: कृत्, प्रत्ययः, परश्च, आद्युदात्तश्च, धातोः
हिन्दी अनुवाद
(वृत्ति नहीं) नपुंसक भाव में क्त होता है।
सरल व्याख्या
हस् → हसितम् (हँसना)।
८६७
विधिसूत्रम् अष्टा० 3.3.115
ल्युट् च ॥
अनुवृत्ति/अधिकार: कृत्, नपुंसके, भावे, प्रत्ययः, परश्च, आद्युदात्तश्च, धातोः
हिन्दी अनुवाद
(नपुंसक भाव में) ल्युट् भी। हसितम्, हसनम्।
सरल व्याख्या
नपुंसक भाववाचक 'अन': पठ् → पठनम्, गम् → गमनम्, हस् → हसनम्।
८६८
विधिसूत्रम् अष्टा० 3.3.118
पुंसि संज्ञायां घः प्रायेण ॥
अनुवृत्ति/अधिकार: कृत्, करण-अधिकरणयोः, च, प्रत्ययः, परश्च, आद्युदात्तश्च, धातोः, करणाधिकरणयोः
हिन्दी अनुवाद
(वृत्ति नहीं) पुंलिङ्ग संज्ञा में प्रायः घ होता है।
सरल व्याख्या
करण/अधिकरण अर्थ में पुंलिङ्ग 'अ': आकरः (खान), दन्तच्छदः।
८६९
विधिसूत्रम् अष्टा० 6.4.96
छादेर्घेऽद्व्युपसर्गस्य ॥
अनुवृत्ति/अधिकार: अचि, उपधायाः, ह्रस्वः, अङ्गस्य, असिद्धवदत्राभात्
वृत्तिः
द्विप्रभृत्युपसर्गहीनस्य छादेर्ह्रस्वो घे परे । दन्ताश्छाद्यन्तेऽनेनेति दन्तच्छदः । आकुर्वन्त्यस्मिन्नित्याकरः ॥
हिन्दी अनुवाद
दो आदि उपसर्गों से रहित छादि को घ परे रहते ह्रस्व होता है। दन्ताः छाद्यन्ते अनेन इति दन्तच्छदः (ओठ)। आकुर्वन्ति अस्मिन् इति आकरः (खान)।
सरल व्याख्या
दन्तच्छदः = ओंठ (दाँत ढकने वाला)।
८७०
विधिसूत्रम् अष्टा० 3.3.120
अवे तॄस्त्रोर्घञ् ॥
अनुवृत्ति/अधिकार: कृत्, करण-अधिकरणयोः, च, पुंसि, प्रत्ययः, परश्च, आद्युदात्तश्च, धातोः, करणाधिकरणयोः
वृत्तिः
अवतारः कूपादेः। अवस्तारो जवनिका॥
हिन्दी अनुवाद
अव उपसर्ग होने पर तॄ और स्तृ से घञ् होता है। अवतारः (कुएँ आदि में उतरने का स्थान/उतरना), अवस्तारः (परदा)।
सरल व्याख्या
अवतारः (उतरना — अवतार)।
८७१
विधिसूत्रम् अष्टा० 3.3.121
हलश्च ॥
अनुवृत्ति/अधिकार: कृत्, करण-अधिकरणयोः, च, पुंसि, घञ्, प्रत्ययः, परश्च, आद्युदात्तश्च, धातोः, करणाधिकरणयोः
वृत्तिः
हलन्ताद् घञ्। घापवादः। रमन्ते योगिनोऽस्मिन्निति रामः। अपमृज्यतेऽनेन व्याध्यादिरित्यपामार्गः॥
हिन्दी अनुवाद
हलन्त (धातु) से घञ् होता है — घ का अपवाद। रमन्ते योगिनः अस्मिन् इति रामः। अपमृज्यते अनेन व्याधि-आदिः इति अपामार्गः।
सरल व्याख्या
रम् → रामः (जिसमें योगी रमते हैं)। अपामार्ग (एक औषधि — जो रोग दूर करे)।
८७२
विधिसूत्रम् अष्टा० 3.3.126
ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल् ॥
अनुवृत्ति/अधिकार: कृत्, प्रत्ययः, परश्च, आद्युदात्तश्च, धातोः
वृत्तिः
करणाधिकरणयोरिति निवृत्तम्। एषु दुःखसुखार्थेषूपपदेषु खल् तयोरेवेति भावे कर्मणि च। कृच्छ्रे - दुष्करः कटो भवता। अकृच्छ्रे - ईषत्करः। सुकरः॥
हिन्दी अनुवाद
कृच्छ्र (कठिन) और अकृच्छ्र (सरल) अर्थ वाले ईषत्, दुः, सु उपपद होने पर खल् होता है; 'करणाधिकरणयोः' निवृत्त; 'तयोरेव' से भाव और कर्म में। कृच्छ्र में — दुष्करः कटो भवता; अकृच्छ्र में — ईषत्करः, सुकरः।
सरल व्याख्या
दुष्करः (कठिनाई से करने योग्य), सुकरः (आसानी से करने योग्य), ईषत्करः।
८७३
विधिसूत्रम् अष्टा० 3.3.128
आतो युच् ॥
अनुवृत्ति/अधिकार: कृत्, कृच्छ्र-अकृच्छ्र-अर्थेषु, प्रत्ययः, परश्च, आद्युदात्तश्च, धातोः
वृत्तिः
खलोऽपवादः। ईषत्पानः सोमो भवता। दुष्पानः। सुपानः॥
हिन्दी अनुवाद
आकारान्त (धातु) से युच् होता है — खल् का अपवाद। ईषत्पानः सोमो भवता, दुष्पानः, सुपानः।
सरल व्याख्या
सुपानः (आसानी से पीने योग्य)।
८७४
विधिसूत्रम् अष्टा० 3.4.18
अलङ्खल्वोः प्रतिषेधयोः प्राचां क्त्वा ॥
अनुवृत्ति/अधिकार: कृत्, प्रत्ययः, परश्च, आद्युदात्तश्च, धातोः
वृत्तिः
प्रतिषेधार्थयोरलंखल्वोरुपपदयोः क्त्वा स्यात् । प्राचां ग्रहणं पूजार्थम् । अमैवाव्ययेनेति नियमान्नोपपदसमासः । दो दद्घोः । अलं दत्त्वा । घुमास्थेतीत्वम् । पीत्वा खलु । अलंखल्वोः किम् ? मा कार्षीत् । प्रतिषेधयोः किम् ? अलंकारः ॥
हिन्दी अनुवाद
प्रतिषेध अर्थ वाले अलम् और खलु उपपद होने पर क्त्वा होता है। 'प्राचाम्' ग्रहण आदर के लिये। 'अमैवाव्ययेन' नियम से उपपद समास नहीं। 'दो दद्घोः' — अलं दत्त्वा; 'घुमास्था' से ईत्व — पीत्वा खलु। अलम्-खलु क्यों? मा कार्षीत्। प्रतिषेध क्यों? अलंकारः।
सरल व्याख्या
अलं दत्त्वा (देना बस करो), पीत्वा खलु (पीना मत)।
८७५
विधिसूत्रम् अष्टा० 3.4.21
समानकर्तृकयोः पूर्वकाले ॥
अनुवृत्ति/अधिकार: कृत्, क्त्वा, प्रत्ययः, परश्च, आद्युदात्तश्च, धातोः
वृत्तिः
समानकर्तृकयोर्धात्वर्थयोः पूर्वकाले विद्यमानाद्धातोः क्त्वा स्यात्। भुक्त्वा व्रजति। द्वित्वमतन्त्रम्। भुक्त्वा पीत्वा व्रजति॥
हिन्दी अनुवाद
समान कर्ता वाली दो धातु-क्रियाओं में पूर्वकाल में होने वाली (धातु) से क्त्वा होता है। भुक्त्वा व्रजति। द्वित्व (संख्या) विवक्षित नहीं — भुक्त्वा पीत्वा व्रजति।
सरल व्याख्या
पूर्वकालिक क्रिया 'कर के': भुक्त्वा व्रजति (खाकर जाता है), पठित्वा, गत्वा, दृष्ट्वा। दोनों क्रियाओं का कर्ता एक होना चाहिए।
८७६
अतिदेशसूत्रम् · अकित्त्वातिदेशः अष्टा० 1.2.18
न क्त्वा सेट् ॥
अनुवृत्ति/अधिकार: कित्
वृत्तिः
सेट् क्त्वा किन्न स्यात्। शयित्वा। सेट् किम्? कृत्वा॥
हिन्दी अनुवाद
सेट् क्त्वा कित् नहीं होता। शयित्वा। सेट् क्यों? कृत्वा।
सरल व्याख्या
इ वाले क्त्वा में गुण होता है: शी → शयित्वा (शीत्वा नहीं)।
८७७
अतिदेशसूत्रम् · अकित्त्वातिदेशः अष्टा० 1.2.26
रलो व्युपधाद्धलादेः संश्च ॥
अनुवृत्ति/अधिकार: कित्, सेट्, क्त्वा, वा
वृत्तिः
इवर्णोवर्णोपधाद्धलादेः रलन्तात्परौ क्त्वासनौ सेटौ वा कितौ स्तः । द्युतित्वा, द्योतित्वा । लिखित्वा, लेखित्वा । व्युपधात्किम्? वर्तित्वा । रलः किम् ? सेवित्वा । हलादेः किम् ? एषित्वा । सेट् किम् ? भुक्त्वा ॥
हिन्दी अनुवाद
इवर्ण-उवर्ण उपधा वाली, हलादि, रलन्त (धातु) से परे सेट् क्त्वा और सन् विकल्प से कित् होते हैं। द्युतित्वा/द्योतित्वा, लिखित्वा/लेखित्वा। व्युपध क्यों? वर्तित्वा। रल् क्यों? सेवित्वा। हलादि क्यों? एषित्वा। सेट् क्यों? भुक्त्वा।
सरल व्याख्या
लिखित्वा / लेखित्वा (लिखकर) — दोनों शुद्ध।
८७८
विधिसूत्रम् अष्टा० 7.2.56
उदितो वा ॥
अनुवृत्ति/अधिकार: आर्धधातुकस्य, इट्, वलादेः, क्त्वि, अङ्गस्य
वृत्तिः
उदितः परस्य क्त्व इड्वा। शमित्वा, शान्त्वा। देवित्वा, द्यूत्वा। दधातेर्हिः। हित्वा॥
हिन्दी अनुवाद
उदित् (धातु) से परे क्त्वा को विकल्प से इट् होता है। शमित्वा/शान्त्वा, देवित्वा/द्यूत्वा। 'दधातेर्हिः' — हित्वा।
सरल व्याख्या
शम् → शमित्वा / शान्त्वा।
८७९
विधिसूत्रम् अष्टा० 7.4.43
जहातेश्च क्त्वि ॥
अनुवृत्ति/अधिकार: ति, किति, हिः, अङ्गस्य
वृत्तिः
हित्वा। हाङस्तु - हात्वा॥
हिन्दी अनुवाद
क्त्वा परे रहते जहाति (हा) को भी (हि होता है)। हित्वा। ओहाङ् का तो — हात्वा।
सरल व्याख्या
हा (छोड़ना) → हित्वा (छोड़कर)।
८८०
विधिसूत्रम् अष्टा० 7.1.37
समासेऽनञ्पूर्वे क्त्वो ल्यप् ॥
अनुवृत्ति/अधिकार: अन्यतरस्याम्, अङ्गस्य
वृत्तिः
अव्ययपूर्वपदेऽनञ्समासे क्त्वो ल्यबादेशः स्यात्। तुक्। प्रकृत्य। अनञ् किम्? अकृत्वा॥
हिन्दी अनुवाद
अव्यय पूर्वपद वाले नञ्-भिन्न समास में क्त्वा को ल्यप् आदेश होता है; तुक् — प्रकृत्य। नञ् क्यों? अकृत्वा।
सरल व्याख्या
उपसर्ग के साथ क्त्वा → य (ल्यप्): प्र + कृ → प्रकृत्य, आ + गम् → आगम्य, वि + ज्ञा → विज्ञाय। पर 'अ' (नञ्) के साथ नहीं: अकृत्वा।
८८१
विधिसूत्रम् अष्टा० 3.4.22
आभीक्ष्ण्ये णमुल् च ॥
अनुवृत्ति/अधिकार: कृत्, क्त्वा, समानकर्त्तृकयोः, पूर्वकाले, प्रत्ययः, परश्च, आद्युदात्तश्च, धातोः
वृत्तिः
आभीक्ष्ण्ये द्योत्ये पूर्वविषये णमुल् स्यात् क्त्वा च॥
हिन्दी अनुवाद
आभीक्ष्ण्य (बार-बार) द्योत्य होने पर पूर्व (क्त्वा के) विषय में णमुल् और क्त्वा होते हैं।
सरल व्याख्या
बार-बार करके: स्मारं स्मारम् (याद कर-करके)।
८८२
विधिसूत्रम् अष्टा० 8.1.4
नित्यवीप्सयोः ॥
अनुवृत्ति/अधिकार: सर्वस्य द्वे
वृत्तिः
आभीक्ष्ण्ये वीप्सायां च द्योत्ये पदस्य द्वित्वं स्यात्। आभीक्ष्ण्यं तिङन्तेष्वव्ययसंज्ञकेषु च कृदन्तेषु च। स्मारं स्मारं नमति शिवम्। स्मृत्वा स्मृत्वा। पायम्पायम्। भोजम्भोजम्। श्रावं श्रावम्॥
हिन्दी अनुवाद
आभीक्ष्ण्य और वीप्सा (व्याप्ति) द्योत्य होने पर पद का द्वित्व होता है। आभीक्ष्ण्य तिङन्तों में और अव्यय-संज्ञक कृदन्तों में। स्मारं स्मारं नमति शिवम्; स्मृत्वा स्मृत्वा; पायं पायम्; भोजं भोजम्; श्रावं श्रावम्।
सरल व्याख्या
बार-बार या 'हर एक' अर्थ में शब्द दोहराया जाता है: स्मृत्वा स्मृत्वा, गृहे गृहे (हर घर में)।
८८३
विधिसूत्रम् अष्टा० 3.4.27
अन्यथैवंकथमित्थंसु सिद्धाप्रयोगश्चेत् ॥
अनुवृत्ति/अधिकार: कृत्, कृञः, णमुल्, प्रत्ययः, परश्च, आद्युदात्तश्च, धातोः
वृत्तिः
एषु कृञो णमुल् स्यात् । सिद्धोऽप्रयोगोऽस्य एवम्भूतश्चेत् कृञ् । व्यर्थत्वात्प्रयोगानर्ह इत्यर्थः । अन्यथाकारम् । एवङ्कारम् । कथङ्कारम् । इत्थङ्कारं भुङ्क्ते । सिद्धेति किम्? शिरोऽन्यथा कृत्वा भुङ्क्ते ॥ इत्युत्तरकृदन्तम् ॥ इति कृदन्तम् ॥
हिन्दी अनुवाद
अन्यथा, एवम्, कथम्, इत्थम् उपपद होने पर कृञ् से णमुल् होता है, यदि उसका अप्रयोग सिद्ध हो — अर्थात् व्यर्थ होने से प्रयोग के अयोग्य। अन्यथाकारम्, एवंकारम्, कथंकारम्, इत्थंकारं भुङ्क्ते। सिद्ध क्यों? शिरोऽन्यथा कृत्वा भुङ्क्ते। (उत्तरकृदन्त समाप्त। कृदन्त पूर्ण।)
सरल व्याख्या
कथंकारं भुङ्क्ते = कैसे खाता है (यहाँ 'कार' का अपना अर्थ नहीं)। (कृदन्त प्रकरण पूर्ण।)
मूल पाठ: लघुसिद्धान्तकौमुदी (वरदराजाचार्य) — डिजिटल पाठ-स्रोत ashtadhyayi.com · हिन्दी अनुवाद व सरल व्याख्या: cdsharma.in