🕉️ 16 October 2026, Friday · 05:18:33 AM · CDSHARMA.IN

📜 लघुसिद्धान्तकौमुदी

वरदराजाचार्य कृत · पाणिनीय सूत्र, मूल वृत्ति, हिन्दी अनुवाद एवं सरल व्याख्या

← सभी प्रकरण

४४. तद्धिते साधारणप्रत्ययाः

तद्धित — साधारण प्रत्यय · सूत्र 992–997 (6)
९९२ अधिकारसूत्रम् · समर्थाधिकारः अष्टा० 4.1.82
समर्थानां प्रथमाद्वा ॥
अनुवृत्ति/अधिकार: प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, समर्थानां प्रथमाद्वा
वृत्तिः
इदं पदत्रयमधिक्रियते प्राग्दिश इति यावत्॥
हिन्दी अनुवाद
'समर्थानाम्', 'प्रथमात्', 'वा' — ये तीन पद 'प्राग्दिशः' तक अधिकृत हैं।
सरल व्याख्या
तद्धित प्रकरण आरम्भ: तद्धित प्रत्यय समर्थ पदों में से पहले (प्रथम निर्दिष्ट) पद से विकल्प से होते हैं — इसलिए 'दशरथस्य अपत्यम्' वाक्य भी शुद्ध, 'दाशरथिः' भी।
९९३ विधिसूत्रम् अष्टा० 4.1.84
अश्वपत्यादिभ्यश्च ॥
अनुवृत्ति/अधिकार: प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, समर्थानां प्रथमाद्वा, प्राग्दीव्यतोऽण्
वृत्तिः
एभ्योऽण् स्यात्प्राग्दीव्यतीयेष्वर्थेषु। अश्वपतेरपत्यादि आश्वपतम्। गाणपतम्॥
हिन्दी अनुवाद
अश्वपति आदि से प्राग्दीव्यतीय अर्थों में अण् होता है। अश्वपतेः अपत्यादि = आश्वपतम्; गाणपतम्।
सरल व्याख्या
गणपति → गाणपतम् (गणपति सम्बन्धी)।
९९४ विधिसूत्रम् अष्टा० 4.1.85
दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः ॥
अनुवृत्ति/अधिकार: प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, समर्थानां प्रथमाद्वा, प्राग्दीव्यतोऽण्
वृत्तिः
दित्यादिभ्यः पत्युत्तरपदाच्च प्राग्दीव्यतीयेष्वर्थेषु ण्यः स्यात् । अणोऽपवादः । दितेरपत्यं दैत्यः । अदितेरादित्यस्य वा -
हिन्दी अनुवाद
दिति, अदिति, आदित्य और पति-उत्तरपद वाले (शब्दों) से प्राग्दीव्यतीय अर्थों में ण्य होता है — अण् का अपवाद। दितेः अपत्यं = दैत्यः। अदिति या आदित्य से — (आगे)।
सरल व्याख्या
दिति → दैत्यः (दिति का पुत्र), प्रजापति → प्राजापत्यः।
९९५ विधिसूत्रम् अष्टा० 8.4.64
हलो यमां यमि लोपः ॥
अनुवृत्ति/अधिकार: परसवर्णः, अन्यतरस्याम्, पूर्वत्रासिद्धम्, संहितायाम्
वृत्तिः
हलः परस्य यमो लोपः स्याद् वा यमि। इति यलोपः। आदित्यः। प्राजापत्यः। «देवाद्यञञौ» (वार्त्तिकम्) । दैव्यम्। दैवम्। «बहिषष्टिलोपो यञ्च» (वार्त्तिकम्)। बाह्यः «ईकक्च» (वार्त्तिकम्)॥
हिन्दी अनुवाद
हल् से परे यम् का यम् परे रहते विकल्प से लोप होता है। इससे य-लोप — आदित्यः। प्राजापत्यः। (वार्तिक) देव से यञ् और अञ् — दैव्यम्, दैवम्। (वार्तिक) बहिस् की टि का लोप और यञ् — बाह्यः। (वार्तिक) ईकक् भी।
सरल व्याख्या
आदित्य + ण्य → आदित्य्य → आदित्यः। बहिस् → बाह्यः (बाहरी)।
९९६ विधिसूत्रम् अष्टा० 7.2.118
किति च ॥
अनुवृत्ति/अधिकार: वृद्धिः, अचः, ञ्णिति, तद्धितेषु, आदेः, अङ्गस्य
वृत्तिः
किति तद्धिते चाचामादेरचो वृद्धिः स्यात्। वाहीकः। «गोरजादिप्रसङ्गे यत्» (वार्त्तिकम्) । गोरपत्यादि गव्यम्॥
हिन्दी अनुवाद
कित् तद्धित परे रहते भी स्वरों में आदि अच् को वृद्धि होती है। वाहीकः। (वार्तिक) गो से अजादि (प्रत्यय) के प्रसङ्ग में यत् — गोः अपत्यादि = गव्यम्।
सरल व्याख्या
बहिस् + ईकक् → वाहीकः। गो → गव्यम् (गाय से उत्पन्न — दूध, घी)।
९९७ विधिसूत्रम् अष्टा० 4.1.86
उत्सादिभ्योऽञ् ॥
अनुवृत्ति/अधिकार: प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, समर्थानां प्रथमाद्वा, प्राग्दीव्यतोऽण्
वृत्तिः
औत्सः ॥ इत्यपत्यादिविकारान्तार्थसाधारणप्रत्ययाः ॥ १ ॥
हिन्दी अनुवाद
उत्स आदि से अञ् होता है। औत्सः। (अपत्य से विकार तक के अर्थों के साधारण प्रत्यय समाप्त।)
सरल व्याख्या
उत्स → औत्सः।

मूल पाठ: लघुसिद्धान्तकौमुदी (वरदराजाचार्य) — डिजिटल पाठ-स्रोत ashtadhyayi.com · हिन्दी अनुवाद व सरल व्याख्या: cdsharma.in

💬 ज्योतिषीय प्रश्न पूछें