📜 लघुसिद्धान्तकौमुदी
वरदराजाचार्य कृत · पाणिनीय सूत्र, मूल वृत्ति, हिन्दी अनुवाद एवं सरल व्याख्या
← सभी प्रकरण
४५. अपत्याधिकारः
अपत्य (सन्तान) अर्थ · सूत्र 998–1027 (30)
मूल वृत्ति
हिन्दी अनुवाद
सरल व्याख्या
९९८
विधिसूत्रम् अष्टा० 4.1.87
स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् ॥
अनुवृत्ति/अधिकार: प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, समर्थानां प्रथमाद्वा, प्राग्दीव्यतोऽण्
वृत्तिः
धान्यानां भवन इत्यतः प्रागार्थेषु स्त्रीपुंसाभ्यां क्रमान्नञ्स्नञौ स्तः । स्त्रैणः । पौस्रः ॥
हिन्दी अनुवाद
'धान्यानां भवने' (सूत्र) से पहले के अर्थों में स्त्री और पुंस् से क्रमशः नञ् और स्नञ् होते हैं। स्त्रैणः, पौंस्नः।
सरल व्याख्या
स्त्रैणः (स्त्री-सम्बन्धी), पौंस्नः (पुरुष-सम्बन्धी)।
९९९
अधिकारसूत्रम् · प्राग्दीव्यतीयः शेषाधिकारः अष्टा० 4.1.92
तस्यापत्यम् ॥
अनुवृत्ति/अधिकार: प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, समर्थानां प्रथमाद्वा, प्राग्दीव्यतोऽण्
वृत्तिः
षष्ठ्यान्तात्कृतसन्धेः समर्थादपत्येऽर्थे उक्ता वक्ष्यमाणाश्च प्रत्यया वा स्युः ॥
हिन्दी अनुवाद
षष्ठ्यन्त, सन्धि किए हुए, समर्थ (पद) से अपत्य अर्थ में कहे गए और कहे जाने वाले प्रत्यय विकल्प से होते हैं।
सरल व्याख्या
अपत्याधिकार: 'उसकी सन्तान' अर्थ में तद्धित प्रत्यय: वसुदेवस्य अपत्यम् = वासुदेवः।
१०००
विधिसूत्रम् अष्टा० 6.4.146
ओर्गुणः ॥
अनुवृत्ति/अधिकार: तद्धिते, अङ्गस्य, असिद्धवदत्राभात्, भस्य
वृत्तिः
उवर्णान्तस्य भस्य गुणस्तद्धिते । उपगोरपत्यमौपगवः । आश्वपतः । दैत्यः । औत्सः । स्त्रैणः । पौंस्रः ॥
हिन्दी अनुवाद
तद्धित परे रहते उवर्णान्त भ-संज्ञक को गुण होता है। उपगोः अपत्यम् = औपगवः। आश्वपतः, दैत्यः, औत्सः, स्त्रैणः, पौंस्नः।
सरल व्याख्या
उपगु + अण् → औपगो → औपगवः (उपगु का पुत्र)।
१००१
संज्ञासूत्रम् · गोत्रसंज्ञा अष्टा० 4.1.162
अपत्यं पौत्रप्रभृति गोत्रम् ॥
अनुवृत्ति/अधिकार: तस्य, अपत्यम्, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्दीव्यतोऽण्, समर्थानां प्रथमाद्वा
वृत्तिः
अपत्यत्वेन विवक्षितं पौत्रादि गोत्रसंज्ञं स्यात् ॥
हिन्दी अनुवाद
अपत्य रूप से विवक्षित पौत्र आदि 'गोत्र' संज्ञक होता है।
सरल व्याख्या
पोते से आगे की सन्तान 'गोत्र' कहलाती है।
१००२
विधिसूत्रम् अष्टा० 4.1.93
एको गोत्रे ॥
अनुवृत्ति/अधिकार: तस्य, अपत्यम्, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, समर्थानां प्रथमाद्वा, प्राग्दीव्यतोऽण्
वृत्तिः
गोत्रे एक एवापत्यप्रत्ययः स्यात्। उपगोर्गोत्रापत्यमौपगवः॥
हिन्दी अनुवाद
गोत्र में एक ही अपत्य-प्रत्यय होता है। उपगोः गोत्रापत्यम् = औपगवः।
सरल व्याख्या
पोते आदि के लिये भी एक ही प्रत्यय: औपगवः (उपगु का वंशज)।
१००३
विधिसूत्रम् अष्टा० 4.1.105
गर्गादिभ्यो यञ् ॥
अनुवृत्ति/अधिकार: तस्य, अपत्यम्, गोत्रे, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, समर्थानां प्रथमाद्वा, प्राग्दीव्यतोऽण्
वृत्तिः
गोत्रापत्ये। गर्गस्य गोत्रापत्यं गार्ग्यः। वात्स्यः॥
हिन्दी अनुवाद
गोत्रापत्य में गर्ग आदि से यञ् होता है। गर्गस्य गोत्रापत्यं = गार्ग्यः; वात्स्यः।
सरल व्याख्या
गर्ग → गार्ग्यः (गर्ग गोत्र वाला), वत्स → वात्स्यः।
१००४
विधिसूत्रम् अष्टा० 2.4.64
यञञोश्च ॥
अनुवृत्ति/अधिकार: लुक्, बहुषु, तेन, एव, अस्त्रियाम्, गोत्रे
वृत्तिः
गोत्रे यद्यञन्तमञन्तं च तदवयवयोरेतयोर्लुक् स्यात्तत्कृते बहुत्वे न तु स्त्रियाम्। गर्गाः। वत्साः॥
हिन्दी अनुवाद
गोत्र में जो यञन्त और अञन्त, उनके अवयव इन (यञ्, अञ्) का लुक् होता है, उसके कारण बहुत्व में, पर स्त्रीलिङ्ग में नहीं। गर्गाः, वत्साः।
सरल व्याख्या
बहुवचन में प्रत्यय हटता है: गार्ग्याः नहीं, गर्गाः (गर्ग गोत्र वाले लोग)।
१००५
संज्ञासूत्रम् · युवसंज्ञा अष्टा० 4.1.163
जीवति तु वंश्ये युवा ॥
अनुवृत्ति/अधिकार: अपत्यम्, तस्य, अपत्यम्, पौत्र-प्रभृति, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्दीव्यतोऽण्, समर्थानां प्रथमाद्वा
वृत्तिः
वंश्ये पित्रादौ जीवति पौत्रादेर्यदपत्यं चतुर्थादि तद्युवसंज्ञमेव स्यात्॥
हिन्दी अनुवाद
वंश्य (पिता आदि) के जीवित रहते, पौत्र आदि का जो चौथा आदि अपत्य, वह 'युवा' संज्ञक ही होता है।
सरल व्याख्या
पिता-दादा जीवित हों तो प्रपौत्र 'युवा' कहलाता है।
१००६
विधिसूत्रम् अष्टा० 4.1.94
गोत्राद्यून्यस्त्रियाम् ॥
अनुवृत्ति/अधिकार: तस्य, अपत्यम्, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, समर्थानां प्रथमाद्वा, प्राग्दीव्यतोऽण्
वृत्तिः
यून्यपत्ये गोत्रप्रत्ययान्तादेव प्रत्ययः स्यात्, स्त्रियां तु न युवसंज्ञा॥
हिन्दी अनुवाद
युवा-अपत्य में गोत्र-प्रत्ययान्त से ही प्रत्यय होता है; स्त्रीलिङ्ग में युवा-संज्ञा नहीं।
सरल व्याख्या
युवा-अपत्य के प्रत्यय गोत्र-शब्द से लगते हैं।
१००७
विधिसूत्रम् अष्टा० 4.1.101
यञिञोश्च ॥
अनुवृत्ति/अधिकार: अपत्यम्, तस्य, गोत्रे, फक्, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, समर्थानां प्रथमाद्वा, प्राग्दीव्यतोऽण्
वृत्तिः
गोत्रे यौ यञिञौ तदन्तात्फक् स्यात्॥
हिन्दी अनुवाद
गोत्र में जो यञ् और इञ्, तदन्त से फक् होता है।
सरल व्याख्या
गार्ग्य + फक् → गार्ग्यायणः।
१००८
विधिसूत्रम् अष्टा० 7.1.2
आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् ॥
अनुवृत्ति/अधिकार: अङ्गस्य
वृत्तिः
प्रत्ययादेः फस्य आयन्, ढस्य एय्, खस्य ईन्, छस्य ईय्, घस्य इय् एते स्युः। गर्गस्य युवापत्यं गार्ग्यायणः। दाक्षायणः॥
हिन्दी अनुवाद
प्रत्यय के आदि फ को आयन्, ढ को एय्, ख को ईन्, छ को ईय्, घ को इय् होते हैं। गर्गस्य युवापत्यं = गार्ग्यायणः; दाक्षायणः।
सरल व्याख्या
तद्धित-प्रत्ययों के संकेत-अक्षर: फ = आयन, ढ = एय, ख = ईन, छ = ईय, घ = इय। जैसे वैनतेय (ढक्), क्षत्रिय (घ), भवदीय (छ)।
१००९
विधिसूत्रम् अष्टा० 4.1.95
अत इञ् ॥
अनुवृत्ति/अधिकार: तस्य, अपत्यम्, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, समर्थानां प्रथमाद्वा, प्राग्दीव्यतोऽण्
वृत्तिः
अपत्येऽर्थे। दाक्षिः॥
हिन्दी अनुवाद
(अपत्य अर्थ में) अदन्त से इञ् होता है। दाक्षिः।
सरल व्याख्या
अकारान्त शब्दों से 'इ': दक्ष → दाक्षिः, दशरथ → दाशरथिः (राम)।
१०१०
विधिसूत्रम् अष्टा० 4.1.96
बाह्वादिभ्यश्च ॥
अनुवृत्ति/अधिकार: तस्य, अपत्यम्, इञ्, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, समर्थानां प्रथमाद्वा, प्राग्दीव्यतोऽण्
वृत्तिः
बाहविः। औडुलोमिः। «लोम्नोऽपत्येषु बहुष्वकारो वक्तव्यः» (वार्त्तिकम्) । उडुलोमाः। आकृतिगणोऽयम्॥
हिन्दी अनुवाद
बाहु आदि से भी (इञ्)। बाहविः, औडुलोमिः। (वार्तिक) लोमन् से बहुत अपत्यों में अकार कहना चाहिए — उडुलोमाः। यह आकृतिगण है।
सरल व्याख्या
बाहु → बाहविः।
१०११
विधिसूत्रम् अष्टा० 4.1.104
अनृष्यानन्तर्ये बिदादिभ्योऽञ् ॥
अनुवृत्ति/अधिकार: तस्य, अपत्यम्, गोत्रे, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, समर्थानां प्रथमाद्वा, प्राग्दीव्यतोऽण्
वृत्तिः
एभ्योऽञ् गोत्रे। ये त्वत्रानृषयस्तेभ्योऽपत्येऽन्यत्र तु गोत्रे। बिदस्य गोत्रं बैदः। बैदौ। बिदाः। पुत्रस्यापत्यं पौत्रः। पौत्रौ। पौत्राः। एवं दौहित्रादयः॥
हिन्दी अनुवाद
ऋषि और आनन्तर्य (सीधी सन्तान) से भिन्न (अर्थ) में बिद आदि से गोत्र में अञ् होता है; इनमें जो अनृषि हैं, उनसे अपत्य में, अन्यत्र गोत्र में। बिदस्य गोत्रं = बैदः, बैदौ, बिदाः। पुत्रस्य अपत्यं = पौत्रः, पौत्रौ, पौत्राः। इसी प्रकार दौहित्र आदि।
सरल व्याख्या
पुत्र → पौत्रः (पोता), दुहितृ → दौहित्रः (नाती)।
१०१२
विधिसूत्रम् अष्टा० 4.1.112
शिवादिभ्योऽण् ॥
अनुवृत्ति/अधिकार: तस्य, अपत्यम्, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, समर्थानां प्रथमाद्वा, प्राग्दीव्यतोऽण्
वृत्तिः
अपत्ये। शैवः। गाङ्गः॥
हिन्दी अनुवाद
(अपत्य में) शिव आदि से अण् होता है। शैवः, गाङ्गः।
सरल व्याख्या
गङ्गा → गाङ्गः (भीष्म)।
१०१३
विधिसूत्रम् अष्टा० 4.1.114
ऋष्यन्धकवृष्णिकुरुभ्यश्च ॥
अनुवृत्ति/अधिकार: तस्य, अपत्यम्, अण्, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, समर्थानां प्रथमाद्वा, प्राग्दीव्यतोऽण्
वृत्तिः
ऋषिभ्यः - वासिष्ठः। वैश्वामित्रः। अन्धकेभ्यः - श्वाफल्कः। वृष्णिभ्यः - वासुदेवः। कुरुभ्यः - नाकुलः। साहदेवः॥
हिन्दी अनुवाद
ऋषि, अन्धक, वृष्णि, कुरु (वंशों के नामों) से भी (अण्)। ऋषियों से — वासिष्ठः, वैश्वामित्रः; अन्धकों से — श्वाफल्कः; वृष्णियों से — वासुदेवः; कुरुओं से — नाकुलः, साहदेवः।
सरल व्याख्या
वासुदेवः (वसुदेव के पुत्र), वासिष्ठः, नाकुलः।
१०१४
विधिसूत्रम् अष्टा० 4.1.115
मातुरुत् संख्यासम्भद्रपूर्वायाः ॥
अनुवृत्ति/अधिकार: तस्य, अपत्यम्, अण्, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, समर्थानां प्रथमाद्वा, प्राग्दीव्यतोऽण्
वृत्तिः
संख्यादिपूर्वस्य मातृशब्दस्योदादेशः स्यादण् प्रत्ययश्च। द्वैमातुरः। षाण्मातुरः। सांमातुरः। भाद्रमातुरः॥
हिन्दी अनुवाद
संख्या, सम्, भद्र पूर्व वाले मातृ शब्द को उत् आदेश और अण् प्रत्यय होता है। द्वैमातुरः, षाण्मातुरः, सांमातुरः, भाद्रमातुरः।
सरल व्याख्या
षाण्मातुरः (छह माताओं वाला — कार्तिकेय), द्वैमातुरः (गणेश/जरासन्ध)।
१०१५
विधिसूत्रम् अष्टा० 4.1.120
स्त्रीभ्यो ढक् ॥
अनुवृत्ति/अधिकार: तस्य, अपत्यम्, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, समर्थानां प्रथमाद्वा, प्राग्दीव्यतोऽण्
वृत्तिः
स्त्रीप्रत्ययान्तेभ्यो ढक्। वैनतेयः॥
हिन्दी अनुवाद
स्त्रीप्रत्ययान्तों से ढक् होता है। वैनतेयः।
सरल व्याख्या
विनता → वैनतेयः (गरुड़), गङ्गा → गाङ्गेयः, कुन्ती → कौन्तेयः।
१०१६
विधिसूत्रम् अष्टा० 4.1.116
कन्यायाः कनीन च ॥
अनुवृत्ति/अधिकार: तस्य, अपत्यम्, अण्, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, समर्थानां प्रथमाद्वा, प्राग्दीव्यतोऽण्
वृत्तिः
चादण्। कानीनो व्यासः कर्णश्च॥
हिन्दी अनुवाद
कन्या (शब्द) को कनीन, और 'च' से अण्। कानीनः व्यासः कर्णश्च।
सरल व्याख्या
कानीनः (अविवाहित कन्या का पुत्र) — व्यास और कर्ण।
१०१७
विधिसूत्रम् अष्टा० 4.1.137
राजश्वशुराद्यत् ॥
अनुवृत्ति/अधिकार: तस्य, अपत्यम्, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, समर्थानां प्रथमाद्वा, प्राग्दीव्यतोऽण्
वृत्तिः
«राज्ञो जातावेवेति वाच्यम्» (वार्त्तिकम्)॥
हिन्दी अनुवाद
राजन् और श्वशुर से यत् होता है। (वार्तिक) राजन् से जाति (अर्थ) में ही (कहना चाहिए)।
सरल व्याख्या
राजन्यः (क्षत्रिय), श्वशुर्यः (साला)।
१०१८
विधिसूत्रम् अष्टा० 6.4.168
ये चाभावकर्मणोः ॥
अनुवृत्ति/अधिकार: प्रकृत्या, अणि, अन्, अङ्गस्य, असिद्धवदत्राभात्, भस्य
वृत्तिः
यादौ तद्धिते परेऽन् प्रकृत्या स्यान्न तु भावकर्मणोः। राजन्यः। जातावेवेति किम्? -
हिन्दी अनुवाद
यकारादि तद्धित परे रहते अन् प्रकृति से (वैसा ही) रहता है, पर भाव-कर्म में नहीं। राजन्यः। जाति में ही क्यों? (आगे)।
सरल व्याख्या
राजन् + य → राजन्यः (न् नहीं हटता)।
१०१९
विधिसूत्रम् अष्टा० 6.4.167
अन् ॥
अनुवृत्ति/अधिकार: प्रकृत्या, अणि, अङ्गस्य, असिद्धवदत्राभात्, भस्य
वृत्तिः
अन् प्रकृत्या स्यादणि परे । राजनः । श्वशुर्यः ॥
हिन्दी अनुवाद
अण् परे रहते अन् प्रकृति से रहता है। राजनः, श्वशुर्यः।
सरल व्याख्या
जाति से भिन्न अर्थ में राजन् → राजनः (राजा का पुत्र)।
१०२०
विधिसूत्रम् अष्टा० 4.1.138
क्षत्राद्घः ॥
अनुवृत्ति/अधिकार: तस्य, अपत्यम्, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, समर्थानां प्रथमाद्वा, प्राग्दीव्यतोऽण्
वृत्तिः
क्षत्त्रियः। जातावित्येव। क्षात्त्रिरन्यत्र॥
हिन्दी अनुवाद
क्षत्र से घ होता है। क्षत्रियः — जाति में ही; अन्यत्र क्षात्रिः।
सरल व्याख्या
क्षत्र + घ (इय) → क्षत्रियः (जाति); क्षत्र का पुत्र (जाति नहीं) → क्षात्रिः।
१०२१
विधिसूत्रम् अष्टा० 4.1.146
रेवत्यादिभ्यष्ठक् ॥
अनुवृत्ति/अधिकार: तस्य, अपत्यम्, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्दीव्यतोऽण्, समर्थानां प्रथमाद्वा
हिन्दी अनुवाद
(वृत्ति नहीं) रेवती आदि से ठक् होता है।
सरल व्याख्या
रेवती → रैवतिकः।
१०२२
विधिसूत्रम् अष्टा० 7.3.50
ठस्येकः ॥
अनुवृत्ति/अधिकार: अङ्गस्य
वृत्तिः
अङ्गात्परस्य ठस्येकादेशः स्यात्। रैवतिकः॥
हिन्दी अनुवाद
अङ्ग से परे ठ को इक आदेश होता है। रैवतिकः।
सरल व्याख्या
ठ = इक: धार्मिकः, वैदिकः, लौकिकः — सब ठक्/ठञ् से।
१०२३
विधिसूत्रम् अष्टा० 4.1.168
जनपदशब्दात् क्षत्रियादञ् ॥
अनुवृत्ति/अधिकार: तस्य, अपत्यम्, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्दीव्यतोऽण्, समर्थानां प्रथमाद्वा
वृत्तिः
जनपदक्षत्त्रियवाचकाच्छब्दादञ् स्यादपत्ये। पाञ्चालः। «क्षत्त्रियसमान शब्दाज्जनपदात्तस्य राजन्यपत्यवत्» (वार्त्तिकम्) । पञ्चालानां राजा पाञ्चालः। «पूरोरण् वक्तव्यः» (वार्त्तिकम्)। पौरवः। «पाण्डोर्ड्यण्» (वार्त्तिकम्)। पाण्ड्यः॥
हिन्दी अनुवाद
जनपद और क्षत्रिय-वाचक शब्द से अपत्य में अञ् होता है। पाञ्चालः। (वार्तिक) क्षत्रिय के समान शब्द वाले जनपद से उसके राजा के अर्थ में अपत्य के समान (प्रत्यय) — पञ्चालानां राजा पाञ्चालः। (वार्तिक) पूरु से अण् — पौरवः। (वार्तिक) पाण्डु से ड्यण् — पाण्ड्यः।
सरल व्याख्या
पञ्चाल → पाञ्चालः (पांचाल देश का राजा/वंशज), पूरु → पौरवः।
१०२४
विधिसूत्रम् अष्टा० 4.1.172
कुरुनादिभ्यो ण्यः ॥
अनुवृत्ति/अधिकार: तस्य, अपत्यम्, जनपद-शब्दात्, क्षत्रियात्, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्दीव्यतोऽण्, समर्थानां प्रथमाद्वा
हिन्दी अनुवाद
कुरु और नकारादि (जनपदों) से ण्य होता है। कौरव्यः, नैषध्यः।
सरल व्याख्या
कुरु → कौरव्यः, निषध → नैषध्यः (नल)।
१०२५
संज्ञासूत्रम् · तद्राजसंज्ञा अष्टा० 4.1.174
ते तद्राजाः ॥
अनुवृत्ति/अधिकार: तस्य, अपत्यम्, जनपद-शब्दात्, क्षत्रियात्, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्दीव्यतोऽण्, समर्थानां प्रथमाद्वा
वृत्तिः
अञादयस्तद्राजसंज्ञाः स्युः॥
हिन्दी अनुवाद
अञ् आदि 'तद्राज' संज्ञक होते हैं।
सरल व्याख्या
जनपद-क्षत्रिय वाले प्रत्यय 'तद्राज' कहलाते हैं।
१०२६
विधिसूत्रम् अष्टा० 2.4.62
तद्राजस्य बहुषु तेनैवास्त्रियाम् ॥
अनुवृत्ति/अधिकार: लुक्
वृत्तिः
बहुष्वर्थेषु तद्राजस्य लुक् तदर्थकृते बहुत्वे न तु स्त्रियाम्। इक्ष्वाकवः। पञ्चालाः इत्यादि॥
हिन्दी अनुवाद
बहुत अर्थों में तद्राज (प्रत्यय) का लुक् होता है, उसके अर्थ से किए बहुत्व में, स्त्रीलिङ्ग में नहीं। इक्ष्वाकवः, पञ्चालाः इत्यादि।
सरल व्याख्या
बहुवचन में: पञ्चालाः (पांचाल लोग), इक्ष्वाकवः।
१०२७
विधिसूत्रम् अष्टा० 4.1.175
कम्बोजाल्लुक् ॥
अनुवृत्ति/अधिकार: तस्य, अपत्यम्, जनपद-शब्दात्, क्षत्रियात्, तद्राजाः, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्दीव्यतोऽण्, समर्थानां प्रथमाद्वा
वृत्तिः
अस्मात्तद्राजस्य लुक् । कम्बोजः । कम्बोजौ । «कम्बोजादिभ्य इति वक्तव्यम्» (वार्त्तिकम्) । चोलः । शकः । केरलः । यवनः ॥ इत्यपत्याधिकारः ॥ २ ॥
हिन्दी अनुवाद
कम्बोज से तद्राज का लुक् होता है। कम्बोजः, कम्बोजौ। (वार्तिक) 'कम्बोज आदि से' कहना चाहिए — चोलः, शकः, केरलः, यवनः। (अपत्याधिकार समाप्त।)
सरल व्याख्या
कम्बोज, चोल, केरल, शक, यवन — एकवचन में भी प्रत्यय नहीं। (अपत्याधिकार पूर्ण।)
मूल पाठ: लघुसिद्धान्तकौमुदी (वरदराजाचार्य) — डिजिटल पाठ-स्रोत ashtadhyayi.com · हिन्दी अनुवाद व सरल व्याख्या: cdsharma.in