📜 लघुसिद्धान्तकौमुदी
वरदराजाचार्य कृत · पाणिनीय सूत्र, मूल वृत्ति, हिन्दी अनुवाद एवं सरल व्याख्या
← सभी प्रकरण
४६. रक्ताद्यर्थकाः
रक्त आदि अर्थ · सूत्र 1028–1050 (23)
मूल वृत्ति
हिन्दी अनुवाद
सरल व्याख्या
१०२८
विधिसूत्रम् अष्टा० 4.2.1
तेन रक्तं रागात् ॥
अनुवृत्ति/अधिकार: प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्दीव्यतोऽण्, समर्थानां प्रथमाद्वा
वृत्तिः
अण् स्यात् । रज्यतेऽनेनेति रागः । कषायेण रक्तं वस्त्रं काषायम् ॥
हिन्दी अनुवाद
(रंग) राग से 'उससे रँगा हुआ' अर्थ में अण् होता है। जिससे रँगा जाए वह राग है। कषायेण रक्तं वस्त्रं = काषायम्।
सरल व्याख्या
काषायम् (गेरुए रंग से रँगा वस्त्र), हारिद्रम् (हल्दी से रँगा)।
१०२९
विधिसूत्रम् अष्टा० 4.2.3
नक्षत्रेण युक्तः कालः ॥
अनुवृत्ति/अधिकार: तेन, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्दीव्यतोऽण्, समर्थानां प्रथमाद्वा
वृत्तिः
अण् स्यात्। «तिष्यपुष्ययोर्नक्षत्राणि यलोप इति वाच्यम्» । पुष्येण युक्तं पौषमहः॥
हिन्दी अनुवाद
नक्षत्र से युक्त काल अर्थ में अण् होता है। (वार्तिक) तिष्य और पुष्य नक्षत्रों में य का लोप कहना चाहिए। पुष्येण युक्तं = पौषम् अहः।
सरल व्याख्या
पुष्य नक्षत्र से युक्त दिन/मास → पौष।
१०३०
विधिसूत्रम् अष्टा० 4.2.4
लुबविशेषे ॥
अनुवृत्ति/अधिकार: तेन, नक्षत्रेण, युक्तः, कालः, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्दीव्यतोऽण्, समर्थानां प्रथमाद्वा
वृत्तिः
पूर्वेणविहितस्य लुप् स्यात् षष्टिदण्डात्मकस्य कालस्यावान्तरविशेषश्चेन्न गम्यते। अद्य पुष्यः॥
हिन्दी अनुवाद
पूर्व (सूत्र) से विहित (प्रत्यय) का लुप् होता है, यदि साठ दण्ड वाले काल का अवान्तर विशेष गम्य न हो। अद्य पुष्यः।
सरल व्याख्या
अद्य पुष्यः (आज पुष्य है) — प्रत्यय लुप्त।
१०३१
विधिसूत्रम् अष्टा० 4.2.7
दृष्टं साम ॥
अनुवृत्ति/अधिकार: तेन, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्दीव्यतोऽण्, समर्थानां प्रथमाद्वा
वृत्तिः
तेनेत्येव। वसिष्ठेन दृष्टं वासिष्ठं साम॥
हिन्दी अनुवाद
(उसके द्वारा) देखा गया साम (अर्थ में अण्)। वसिष्ठेन दृष्टं = वासिष्ठं साम।
सरल व्याख्या
वासिष्ठं साम (वसिष्ठ द्वारा दृष्ट सामगान)।
१०३२
विधिसूत्रम् अष्टा० 4.2.9
वामदेवाड्ड्यड्ड्यौ ॥
अनुवृत्ति/अधिकार: तेन, दृष्टम्, साम, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्दीव्यतोऽण्, समर्थानां प्रथमाद्वा
वृत्तिः
वामदेवेन दृष्टं साम वामदेव्यम्॥
हिन्दी अनुवाद
वामदेव से ड्यत् और ड्य होते हैं। वामदेवेन दृष्टं साम = वामदेव्यम्।
सरल व्याख्या
वामदेव्यम् साम।
१०३३
विधिसूत्रम् अष्टा० 4.2.10
परिवृतो रथः ॥
अनुवृत्ति/अधिकार: तेन, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्दीव्यतोऽण्, समर्थानां प्रथमाद्वा
वृत्तिः
अस्मिन्नर्थेऽण् प्रत्ययो भवति। वस्त्रेण परिवृतो वास्त्रो रथः॥
हिन्दी अनुवाद
'(उससे) घिरा हुआ रथ' अर्थ में अण् प्रत्यय होता है। वस्त्रेण परिवृतः = वास्त्रः रथः।
सरल व्याख्या
वास्त्रः रथः (कपड़े से ढका रथ)।
१०३४
विधिसूत्रम् अष्टा० 4.2.14
तत्रोद्धृतममत्रेभ्यः ॥
अनुवृत्ति/अधिकार: प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्दीव्यतोऽण्, समर्थानां प्रथमाद्वा
वृत्तिः
शरावे उद्धृतः शाराव ओदनः॥
हिन्दी अनुवाद
'उसमें से निकाला गया' अर्थ में पात्र-वाचकों से (अण्)। शरावे उद्धृतः = शारावः ओदनः।
सरल व्याख्या
शारावः (सकोरे में निकाला भात)।
१०३५
विधिसूत्रम् अष्टा० 4.2.16
संस्कृतं भक्षाः ॥
अनुवृत्ति/अधिकार: तत्र, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्दीव्यतोऽण्, समर्थानां प्रथमाद्वा
वृत्तिः
सप्तम्यन्तादण् स्यात्संस्कृतेऽर्थे यत्संस्कृतं भक्षाश्चेत्ते स्युः। भ्राष्ट्रेषु संस्कृता भ्राष्ट्रा यवाः॥
हिन्दी अनुवाद
सप्तम्यन्त से 'संस्कृत' अर्थ में अण् होता है, यदि संस्कृत (वस्तु) भक्ष्य हो। भ्राष्ट्रेषु संस्कृताः = भ्राष्ट्राः यवाः।
सरल व्याख्या
भ्राष्ट्राः यवाः (भाड़ में भुने जौ)।
१०३६
विधिसूत्रम् अष्टा० 4.2.24
सास्य देवता ॥
अनुवृत्ति/अधिकार: प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्दीव्यतोऽण्, समर्थानां प्रथमाद्वा
वृत्तिः
इन्द्रो देवताऽस्येति ऐन्द्रं हविः। पाशुपतम्। बार्हस्पत्यम्॥
हिन्दी अनुवाद
'वह इसका देवता है' अर्थ में (अण् आदि)। इन्द्रः देवता अस्य = ऐन्द्रं हविः; पाशुपतम्, बार्हस्पत्यम्।
सरल व्याख्या
ऐन्द्रम् (इन्द्र जिसका देवता हो — हवि), पाशुपतम्, आग्नेयम्।
१०३७
विधिसूत्रम् अष्टा० 4.2.26
शुक्राद्घन् ॥
अनुवृत्ति/अधिकार: सा, अस्य, देवता, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्दीव्यतोऽण्, समर्थानां प्रथमाद्वा
हिन्दी अनुवाद
शुक्र से घन् होता है। शुक्रियम्।
सरल व्याख्या
शुक्रियम् (शुक्र देवता वाला)।
१०३८
विधिसूत्रम् अष्टा० 4.2.30
सोमाट्ट्यण् ॥
अनुवृत्ति/अधिकार: सा, अस्य, देवता, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्दीव्यतोऽण्, समर्थानां प्रथमाद्वा
हिन्दी अनुवाद
सोम से ट्यण् होता है। सौम्यम्।
सरल व्याख्या
सौम्यम् (सोम देवता वाला) — 'सौम्य' इसी से।
१०३९
विधिसूत्रम् अष्टा० 4.2.31
वाय्वृतुपित्रुषसो यत् ॥
अनुवृत्ति/अधिकार: सा, अस्य, देवता, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्दीव्यतोऽण्, समर्थानां प्रथमाद्वा
वृत्तिः
वायव्यम्। ऋतव्यम्॥
हिन्दी अनुवाद
वायु, ऋतु, पितृ, उषस् से यत् होता है। वायव्यम्, ऋतव्यम्।
सरल व्याख्या
वायव्यम् (वायु सम्बन्धी — वायव्य दिशा)।
१०४०
विधिसूत्रम् अष्टा० 7.4.27
रीङ् ऋतः ॥
अनुवृत्ति/अधिकार: यि, अकृत्सार्वधातुकयोः, च्वौ, अङ्गस्य
वृत्तिः
अकृद्यकारे असार्वधातुके यकारे च्वौ च परे ऋदन्ताङ्गस्य रीङादेशः। यस्येति च। पित्र्यम्। उषस्यम्॥
हिन्दी अनुवाद
कृत्-भिन्न यकार, असार्वधातुक यकार और च्वि परे रहते ऋदन्त अङ्ग को रीङ् आदेश होता है; 'यस्येति च' — पित्र्यम्; उषस्यम्।
सरल व्याख्या
पितृ + यत् → पित्र्यम् (पितरों का)।
१०४१
विधिसूत्रम् अष्टा० 4.2.36
पितृव्यमातुलमातामहपितामहाः ॥
अनुवृत्ति/अधिकार: प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्दीव्यतोऽण्, समर्थानां प्रथमाद्वा
वृत्तिः
एते निपात्यन्ते। पितुर्भ्राता पितृव्यः। मातुर्भ्राता मातुलः। मातुः पिता मातामहः। पितुः पिता पितामहः॥
हिन्दी अनुवाद
पितृव्य, मातुल, मातामह, पितामह — ये निपातन होते हैं। पितुः भ्राता = पितृव्यः; मातुः भ्राता = मातुलः; मातुः पिता = मातामहः; पितुः पिता = पितामहः।
सरल व्याख्या
पितृव्यः (चाचा), मातुलः (मामा), मातामहः (नाना), पितामहः (दादा)।
१०४२
विधिसूत्रम् अष्टा० 4.2.37
तस्य समूहः ॥
अनुवृत्ति/अधिकार: प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्दीव्यतोऽण्, समर्थानां प्रथमाद्वा
वृत्तिः
काकानां समूहः काकम् ॥
हिन्दी अनुवाद
'उसका समूह' अर्थ में (अण्)। काकानां समूहः = काकम्।
सरल व्याख्या
समूह अर्थ: काकम् (कौओं का समूह)।
१०४३
विधिसूत्रम् अष्टा० 4.2.38
भिक्षादिभ्योऽण् ॥
अनुवृत्ति/अधिकार: समूहः, तस्य, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्दीव्यतोऽण्, समर्थानां प्रथमाद्वा
वृत्तिः
भिक्षाणां समूहो भैक्षम् । गर्भिणीनां समूहो गार्भिणम् । इह «भस्याढे तद्धिते पुंवद्भावो वक्तव्यः» (वार्त्तिकम्) । इति पुंवद्भावे कृते -
हिन्दी अनुवाद
भिक्षा आदि से अण् होता है। भिक्षाणां समूहः = भैक्षम्; गर्भिणीनां समूहः = गार्भिणम् — यहाँ (वार्तिक) ढ-भिन्न तद्धित परे रहते भ-संज्ञक को पुंवद्भाव कहना चाहिए — इस पुंवद्भाव के करने पर (आगे)।
सरल व्याख्या
भैक्षम् (भिक्षाओं का समूह)।
१०४४
विधिसूत्रम् अष्टा० 6.4.164
इनण्यनपत्ये ॥
अनुवृत्ति/अधिकार: प्रकृत्या, अङ्गस्य, असिद्धवदत्राभात्, भस्य
वृत्तिः
अनपत्यार्थेऽणि परे इन् प्रकृत्या स्यात् । तेन नस्तद्धित इति टिलोपो न । युवतीनां समूहो यौवनम् ॥
हिन्दी अनुवाद
अपत्य-भिन्न अर्थ वाला अण् परे रहते इन् प्रकृति से रहता है; अतः 'नस्तद्धिते' से टि-लोप नहीं। युवतीनां समूहः = यौवनम्।
सरल व्याख्या
यौवनम् (युवतियों का समूह; यौवन)।
१०४५
विधिसूत्रम् अष्टा० 4.2.43
ग्रामजनबन्धुसहायेभ्यः तल् ॥
अनुवृत्ति/अधिकार: समूहः, तस्य, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्दीव्यतोऽण्, समर्थानां प्रथमाद्वा
वृत्तिः
तलन्तं स्त्रियाम्। ग्रमता। जनता। बन्धुता। «गजसहायाभ्यां चेति वक्तव्यम्» (वार्त्तिकम्) । गजता। सहायता। «अह्नः खः क्रतौ» (वार्त्तिकम्) । अहीनः॥
हिन्दी अनुवाद
ग्राम, जन, बन्धु, सहाय से तल् होता है; तलन्त स्त्रीलिङ्ग में। ग्रामता, जनता, बन्धुता। (वार्तिक) गज और सहाय से भी कहना चाहिए — गजता, सहायता। (वार्तिक) क्रतु अर्थ में अहन् से ख — अहीनः।
सरल व्याख्या
जनता (लोगों का समूह), बन्धुता, सहायता — 'ता' प्रत्यय।
१०४६
विधिसूत्रम् अष्टा० 4.2.47
अचित्तहस्तिधेनोष्ठक् ॥
अनुवृत्ति/अधिकार: समूहः, तस्य, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्दीव्यतोऽण्, समर्थानां प्रथमाद्वा
हिन्दी अनुवाद
(वृत्ति नहीं) अचित्त (अचेतन), हस्तिन्, धेनु से ठक् होता है।
सरल व्याख्या
हस्तिन् → हास्तिकम् (हाथियों का समूह)।
१०४७
विधिसूत्रम् अष्टा० 7.3.51
इसुसुक्तान्तात् कः ॥
अनुवृत्ति/अधिकार: ठस्य, अङ्गस्य
वृत्तिः
इस् उस् उक्तान्तात्परस्य ठस्य कः। साक्तुकम्। हास्तिकम्। धैनुकम्॥
हिन्दी अनुवाद
इस्, उस्, उक्, त अन्त वाले से परे ठ को क होता है। साक्तुकम्, हास्तिकम्, धैनुकम्।
सरल व्याख्या
सक्तु → साक्तुकम्, धेनु → धैनुकम्।
१०४८
विधिसूत्रम् अष्टा० 4.2.59
तदधीते तद्वेद ॥
अनुवृत्ति/अधिकार: प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्दीव्यतोऽण्, समर्थानां प्रथमाद्वा
हिन्दी अनुवाद
(वृत्ति नहीं) 'उसे पढ़ता है', 'उसे जानता है' अर्थ में (अण् आदि)।
सरल व्याख्या
व्याकरण पढ़ने/जानने वाला → वैयाकरणः।
१०४९
विधिसूत्रम् अष्टा० 7.3.3
न य्वाभ्यां पदान्ताभ्याम् पूर्वौ तु ताभ्यामैच् ॥
अनुवृत्ति/अधिकार: वृद्धिः, अचः, ञ्णिति, तद्धितेषु, आदेः, अङ्गस्य
वृत्तिः
पदान्ताभ्यां यकारवकाराभ्यां परस्य न वृद्धिः किं तु ताभ्यां पूर्वौ क्रमादैजावागमौ स्तः। व्याकरणमधीते वेद वा वैयाकरणः॥
हिन्दी अनुवाद
पदान्त य और व से परे (स्वर को) वृद्धि नहीं होती, किन्तु उनसे पहले क्रमशः ऐच् (ऐ, औ) आगम होते हैं। व्याकरणम् अधीते वेद वा = वैयाकरणः।
सरल व्याख्या
वि + आकरण → वैयाकरणः (वि → वै, यानी य् से पहले ऐ जुड़ा); स्वश्व → सौवश्वः।
१०५०
विधिसूत्रम् अष्टा० 4.2.61
क्रमादिभ्यो वुन् ॥
अनुवृत्ति/अधिकार: तत्, अधीते, तत्, वेद, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्दीव्यतोऽण्, समर्थानां प्रथमाद्वा
वृत्तिः
क्रमकः । पदकः । शिक्षकः । मीमांसकः ॥ इति रक्ताद्यर्थकाः ॥ ३ ॥
हिन्दी अनुवाद
क्रम आदि से वुन् होता है। क्रमकः, पदकः, शिक्षकः, मीमांसकः। (रक्त आदि अर्थ समाप्त।)
सरल व्याख्या
शिक्षकः (शिक्षा पढ़ने वाला), मीमांसकः (मीमांसा जानने वाला)।
मूल पाठ: लघुसिद्धान्तकौमुदी (वरदराजाचार्य) — डिजिटल पाठ-स्रोत ashtadhyayi.com · हिन्दी अनुवाद व सरल व्याख्या: cdsharma.in