🕉️ 16 October 2026, Friday · 05:20:18 AM · CDSHARMA.IN

📜 लघुसिद्धान्तकौमुदी

वरदराजाचार्य कृत · पाणिनीय सूत्र, मूल वृत्ति, हिन्दी अनुवाद एवं सरल व्याख्या

← सभी प्रकरण

४८. शैषिकाः

शैषिक · सूत्र 1063–1104 (42)
१०६३ विधिसूत्रम् अष्टा० 4.2.92
शेषे ॥
अनुवृत्ति/अधिकार: प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्दीव्यतोऽण्, समर्थानां प्रथमाद्वा
वृत्तिः
अपत्यादिचतुरर्थन्तादन्योऽर्थः शेषस्तत्राणादयः स्युः । चक्षुषा गृह्यते चाक्षुषं रूपम् । श्रावणः शब्दः । औपनिषदः पुरुषः । दृषदि पिष्टा दार्षिदाः सक्तवः । चतुर्भिरुह्यं चातुरं शकटम् । चतुर्दश्यां दृश्यते चातुर्दशं रक्षः । 'तस्य विकारः' इत्यतः प्राक् शेषाधिकारः ॥
हिन्दी अनुवाद
अपत्य आदि चार अर्थों तक के (अर्थों) से अन्य अर्थ 'शेष' है, उसमें अण् आदि होते हैं। चक्षुषा गृह्यते = चाक्षुषं रूपम्; श्रावणः शब्दः; औपनिषदः पुरुषः; दृषदि पिष्टाः = दार्षदाः सक्तवः; चतुर्भिः उह्यं = चातुरं शकटम्; चतुर्दश्यां दृश्यते = चातुर्दशं रक्षः। 'तस्य विकारः' से पहले तक शेष का अधिकार।
सरल व्याख्या
शैषिक: अनेक सामान्य अर्थों में: चाक्षुषम् (आँख से ग्राह्य), श्रावणः (कान से), औपनिषदः (उपनिषद् में वर्णित पुरुष)।
१०६४ विधिसूत्रम् अष्टा० 4.2.93
राष्ट्रावारपाराद्घखौ ॥
अनुवृत्ति/अधिकार: प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्दीव्यतोऽण्, समर्थानां प्रथमाद्वा
वृत्तिः
आभ्यां क्रमाद् घखौ स्तः शेषे । राष्ट्रे जातादिः राष्ट्रियः । अवारपारीणः । «सवारपाराद्विगृहीतादपि विपरीताच्चेति वक्तव्यम्» (वार्त्तिकम्) । अवारीणः । पारीणः । पारावारीणः । इह प्रकृतिविशेषाद् घादयष्ट्युट्युलन्ताः प्रत्यया उच्यन्ते तेषां जातादयोऽर्थविशेषाः समर्थविभक्तयश्च वक्ष्यन्ते ॥
हिन्दी अनुवाद
शेष (अर्थ) में राष्ट्र और अवारपार से क्रमशः घ और ख होते हैं। राष्ट्रे जातादिः = राष्ट्रियः; अवारपारीणः। (वार्तिक) अवार-पार से, अलग-अलग और विपरीत क्रम से भी कहना चाहिए — अवारीणः, पारीणः, पारावारीणः। यहाँ प्रकृति-विशेष से घ आदि से लेकर ट्युट्-ट्युल् तक के प्रत्यय कहे जाते हैं; उनके 'जात' आदि अर्थ-विशेष और समर्थ विभक्तियाँ आगे कही जाएँगी।
सरल व्याख्या
राष्ट्रियः (राष्ट्र में उत्पन्न/सम्बन्धी — 'राष्ट्रीय'), पारीणः (पार जाने वाला — पारंगत)।
१०६५ विधिसूत्रम् अष्टा० 4.2.94
ग्रामाद्यखञौ ॥
अनुवृत्ति/अधिकार: प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्दीव्यतोऽण्, समर्थानां प्रथमाद्वा
वृत्तिः
ग्राम्यः। ग्रामीणः॥
हिन्दी अनुवाद
ग्राम से य और खञ्। ग्राम्यः, ग्रामीणः।
सरल व्याख्या
ग्राम्यः / ग्रामीणः (गाँव का)।
१०६६ विधिसूत्रम् अष्टा० 4.2.97
नद्यादिभ्यो ढक् ॥
अनुवृत्ति/अधिकार: प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्दीव्यतोऽण्, समर्थानां प्रथमाद्वा
वृत्तिः
नादेयम्। माहेयम्। वाराणसेयम्॥
हिन्दी अनुवाद
नदी आदि से ढक् होता है। नादेयम्, माहेयम्, वाराणसेयम्।
सरल व्याख्या
नादेयम् (नदी का), वाराणसेयम् (वाराणसी का)।
१०६७ विधिसूत्रम् अष्टा० 4.2.98
दक्षिणापश्चात्पुरसस्त्यक् ॥
अनुवृत्ति/अधिकार: प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्दीव्यतोऽण्, समर्थानां प्रथमाद्वा
वृत्तिः
दाक्षिणात्यः। पाश्चात्यः। पौरस्त्यः॥
हिन्दी अनुवाद
दक्षिणा, पश्चात्, पुरस् से त्यक् होता है। दाक्षिणात्यः, पाश्चात्यः, पौरस्त्यः।
सरल व्याख्या
दाक्षिणात्यः (दक्षिण का), पाश्चात्यः (पश्चिम का), पौरस्त्यः (पूर्व का)।
१०६८ विधिसूत्रम् अष्टा० 4.2.101
द्युप्रागपागुदक्प्रतीचो यत् ॥
अनुवृत्ति/अधिकार: प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्दीव्यतोऽण्, समर्थानां प्रथमाद्वा
वृत्तिः
दिव्यम्। प्राच्यम्। अपाच्यम्। उदीच्यम्। प्रतीच्यम्॥
हिन्दी अनुवाद
दिव्, प्राच्, अपाच्, उदच्, प्रत्यच् से यत् होता है। दिव्यम्, प्राच्यम्, अपाच्यम्, उदीच्यम्, प्रतीच्यम्।
सरल व्याख्या
दिव्यम् (स्वर्गीय), प्राच्यम् (पूर्वी), उदीच्यम् (उत्तरी), प्रतीच्यम् (पश्चिमी)।
१०६९ विधिसूत्रम् अष्टा० 4.2.104
अव्ययात्त्यप् ॥
अनुवृत्ति/अधिकार: प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्दीव्यतोऽण्, समर्थानां प्रथमाद्वा
वृत्तिः
«अमेहक्वतसित्रेभ्य एव» (वार्त्तिकम्)। अमात्यः। इहत्यः। क्वत्यः। ततस्त्यः। तत्रत्यः। «त्यब्नेर्ध्रुव इति वक्तव्यम्» (वार्त्तिकम्) । नित्यः॥
हिन्दी अनुवाद
अव्यय से त्यप् होता है। (वार्तिक) अमा, इह, क्व, तसि-अन्त, त्र-अन्त से ही — अमात्यः, इहत्यः, क्वत्यः, ततस्त्यः, तत्रत्यः। (वार्तिक) नि से ध्रुव अर्थ में त्यप् कहना चाहिए — नित्यः।
सरल व्याख्या
अमात्यः (साथ रहने वाला — मन्त्री), तत्रत्यः (वहाँ का), इहत्यः (यहाँ का), नित्यः (सदा रहने वाला)।
१०७० संज्ञासूत्रम् · वृद्धसंज्ञा अष्टा० 1.1.73
वृद्धिर्यस्याचामादिस्तद् वृद्धम् ॥
वृत्तिः
यस्य समुदायस्याचां मध्ये आदिर्वृद्धिस्तद्वृद्धसंज्ञं स्यात्॥
हिन्दी अनुवाद
जिस समुदाय के स्वरों में आदि (स्वर) वृद्धि हो, वह 'वृद्ध' संज्ञक होता है।
सरल व्याख्या
जिस शब्द का पहला स्वर आ/ऐ/औ हो वह 'वृद्ध' कहलाता है — शाला, माला।
१०७१ संज्ञासूत्रम् · वृद्धसंज्ञा अष्टा० 1.1.74
त्यदादीनि च ॥
अनुवृत्ति/अधिकार: वृद्धम्
वृत्तिः
वृद्धसंज्ञानि स्युः॥
हिन्दी अनुवाद
त्यद् आदि भी वृद्ध-संज्ञक होते हैं।
सरल व्याख्या
तद्, यद्, एतद्, इदम् आदि भी वृद्ध।
१०७२ विधिसूत्रम् अष्टा० 4.2.114
वृद्धाच्छः ॥
अनुवृत्ति/अधिकार: प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्दीव्यतोऽण्, समर्थानां प्रथमाद्वा
वृत्तिः
शालीयः। मालीयः। तदीयः। «वा नामधेयस्य वृद्धसंज्ञा वक्तव्या» (वार्त्तिकम्) । देवदत्तीयः, दैवदत्तः॥
हिन्दी अनुवाद
वृद्ध से छ होता है। शालीयः, मालीयः, तदीयः। (वार्तिक) नाम की विकल्प से वृद्ध-संज्ञा कहनी चाहिए — देवदत्तीयः, दैवदत्तः।
सरल व्याख्या
छ = ईय: शालीयः (शाला का), तदीयः (उसका), मदीयः।
१०७३ विधिसूत्रम् अष्टा० 4.2.138
गहादिभ्यश्च ॥
अनुवृत्ति/अधिकार: छः, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्दीव्यतोऽण्, समर्थानां प्रथमाद्वा
वृत्तिः
गहीयः॥
हिन्दी अनुवाद
गह आदि से भी (छ)। गहीयः।
सरल व्याख्या
गहीयः।
१०७४ विधिसूत्रम् अष्टा० 4.3.1
युष्मदस्मदोरन्यतरस्यां खञ् च ॥
अनुवृत्ति/अधिकार: छः, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्दीव्यतोऽण्, समर्थानां प्रथमाद्वा
वृत्तिः
चाच्छः। पक्षेऽण्। युवयोर्युष्माकं वायं युष्मदीयः, अस्मदीयः॥
हिन्दी अनुवाद
युष्मद्-अस्मद् से विकल्प से खञ्, 'च' से छ भी; पक्ष में अण्। युवयोः युष्माकं वा अयं = युष्मदीयः, अस्मदीयः।
सरल व्याख्या
युष्मदीयः (तुम्हारा), अस्मदीयः (हमारा)।
१०७५ विधिसूत्रम् अष्टा० 4.3.2
तस्मिन्नणि च युष्माकास्माकौ ॥
अनुवृत्ति/अधिकार: युष्मद्-अस्मदोः, खञ्, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्दीव्यतोऽण्, समर्थानां प्रथमाद्वा
वृत्तिः
युष्मदस्मदोरेतावादेशौ स्तः खञि अणि च। यौष्माकीणः। आस्माकीनः। यौष्माकः। आस्माकः॥
हिन्दी अनुवाद
उस खञ् और अण् परे रहते युष्मद्-अस्मद् को (क्रमशः) युष्माक और अस्माक आदेश होते हैं। यौष्माकीणः, आस्माकीनः, यौष्माकः, आस्माकः।
सरल व्याख्या
आस्माकः (हमारा), यौष्माकः।
१०७६ विधिसूत्रम् अष्टा० 4.3.3
तवकममकावेकवचने ॥
अनुवृत्ति/अधिकार: युष्मद्-अस्मदोः, खञ्, तस्मिन्, अणि, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्दीव्यतोऽण्, समर्थानां प्रथमाद्वा
वृत्तिः
एकार्थवाचिनोर्युष्मदस्मदोस्तवकममकौ स्तः खञि अणि च। तावकीनः। तावकः। मामकीनः। मामकः। छे तु -
हिन्दी अनुवाद
एकवचन अर्थ वाले युष्मद्-अस्मद् को खञ् और अण् में (क्रमशः) तवक और ममक होते हैं। तावकीनः, तावकः, मामकीनः, मामकः। छ में तो — (आगे)।
सरल व्याख्या
मामकः (मेरा — 'मामकाः पाण्डवाश्चैव' गीता में), तावकः (तेरा)।
१०७७ विधिसूत्रम् अष्टा० 7.2.98
प्रत्ययोत्तरपदयोश्च ॥
अनुवृत्ति/अधिकार: विभक्तौ, युष्मदस्मदोः, मपर्यन्तस्य, त्वमौ, एकवचने, अङ्गस्य, मपर्यन्तस्य
वृत्तिः
मपर्यन्तयोरेतयोरेकार्थवाचिनोस्त्वमौ स्तः प्रत्यये उत्तरपदे च परतः। त्वदीयः। मदीयः। त्वत्पुत्रः। मत्पुत्रः॥
हिन्दी अनुवाद
एक-अर्थ वाचक इन (युष्मद्-अस्मद्) के म-पर्यन्त भाग को प्रत्यय और उत्तरपद परे रहते (क्रमशः) त्व और म होते हैं। त्वदीयः, मदीयः, त्वत्पुत्रः, मत्पुत्रः।
सरल व्याख्या
त्वदीयः (तुम्हारा), मदीयः (मेरा), मत्पुत्रः (मेरा पुत्र)।
१०७८ विधिसूत्रम् अष्टा० 4.3.8
मध्यान्मः ॥
अनुवृत्ति/अधिकार: प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्दीव्यतोऽण्, समर्थानां प्रथमाद्वा
वृत्तिः
मध्यमः॥
हिन्दी अनुवाद
मध्य से म होता है। मध्यमः।
सरल व्याख्या
मध्यमः (बीच का)।
१०७९ विधिसूत्रम् अष्टा० 4.3.11
कालाट्ठञ् ॥
अनुवृत्ति/अधिकार: प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्दीव्यतोऽण्, समर्थानां प्रथमाद्वा
वृत्तिः
कालवाचिभ्यष्ठञ् स्यात्। कालिकम्। मासिकम्। सांवत्सरिकम्। «अव्ययानां भमात्रे टिलोपः» (वार्त्तिकम्) । सायम्प्रातिकः। पौनःपुनिकः॥
हिन्दी अनुवाद
काल-वाचकों से ठञ् होता है। कालिकम्, मासिकम्, सांवत्सरिकम्। (वार्तिक) अव्ययों की भ-मात्र में टि का लोप — सायम्प्रातिकः, पौनःपुनिकः।
सरल व्याख्या
मासिकम् (महीने का), सांवत्सरिकम् (वार्षिक), पौनःपुनिकः (बार-बार होने वाला)।
१०८० विधिसूत्रम् अष्टा० 4.3.17
प्रावृष एण्यः ॥
अनुवृत्ति/अधिकार: कालात्, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्दीव्यतोऽण्, समर्थानां प्रथमाद्वा
वृत्तिः
प्रावृषेण्यः॥
हिन्दी अनुवाद
प्रावृष् से एण्य होता है। प्रावृषेण्यः।
सरल व्याख्या
प्रावृषेण्यः (वर्षा ऋतु का)।
१०८१ विधिसूत्रम् अष्टा० 4.3.23
सायंचिरम्प्राह्णेप्रगेऽव्ययेभ्यष्ट्युट्युलौ तुट् च ॥
अनुवृत्ति/अधिकार: कालात्, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्दीव्यतोऽण्, समर्थानां प्रथमाद्वा, शेषे
वृत्तिः
सायमित्यादिभ्यश्चतुर्भ्योऽव्ययेभ्यश्च कालवाचिभ्यष्ट्युट्युलौ स्तस्तयोस्तुट् च। सायन्तनम्। चिरन्तनम्। प्राह्णेप्रगे अनयोरेदन्तत्वं निपात्यते। प्राह्णेतनम्। प्रगेतनम्। दोषातनम्॥
हिन्दी अनुवाद
सायम्, चिरम्, प्राह्णे, प्रगे और काल-वाचक अव्ययों से ट्यु और ट्युल् होते हैं, और उनको तुट् भी। सायन्तनम्, चिरन्तनम्; प्राह्णे-प्रगे का एकारान्तत्व निपातन — प्राह्णेतनम्, प्रगेतनम्; दोषातनम्।
सरल व्याख्या
सायन्तनम् (सायंकाल का), चिरन्तनम् (पुराना), अद्यतनम् (आज का), पुरातनम्।
१०८२ विधिसूत्रम् अष्टा० 4.3.25
तत्र जातः ॥
अनुवृत्ति/अधिकार: प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्दीव्यतोऽण्, समर्थानां प्रथमाद्वा
वृत्तिः
सप्तमीसमर्थाज्जात इत्यर्थेऽणादयो घादयश्च स्युः। स्रुग्घ्ने जातः स्रौग्घ्नः। उत्से जात औत्सः। राष्ट्रे जातो राष्ट्रियः। अवारपारे जातः अवारपारीणः, इत्यादि॥
हिन्दी अनुवाद
सप्तमी-समर्थ से 'उत्पन्न' अर्थ में अण् आदि और घ आदि होते हैं। स्रुघ्ने जातः = स्रौघ्नः; उत्से जातः = औत्सः; राष्ट्रे जातः = राष्ट्रियः; अवारपारे जातः = अवारपारीणः इत्यादि।
सरल व्याख्या
'वहाँ उत्पन्न': स्रौघ्नः (स्रुघ्न में जन्मा), मथुरा → माथुरः।
१०८३ विधिसूत्रम् अष्टा० 4.3.26
प्रावृषष्ठप् ॥
अनुवृत्ति/अधिकार: जातः, तत्र, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्दीव्यतोऽण्, समर्थानां प्रथमाद्वा
वृत्तिः
एण्यापवादः। प्रावृषिकः॥
हिन्दी अनुवाद
प्रावृष् से ठप् होता है — एण्य का अपवाद। प्रावृषिकः।
सरल व्याख्या
प्रावृषिकः (वर्षा में उत्पन्न)।
१०८४ विधिसूत्रम् अष्टा० 4.3.39
प्रायभवः ॥
अनुवृत्ति/अधिकार: तत्र, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्दीव्यतोऽण्, समर्थानां प्रथमाद्वा
वृत्तिः
तत्रेत्येव। स्रुग्घ्ने प्रायेण बाहुल्येन भवति स्रौग्घ्नः॥
हिन्दी अनुवाद
(वहाँ) प्रायः होने वाला (अर्थ में)। स्रुघ्ने प्रायेण बाहुल्येन भवति = स्रौघ्नः।
सरल व्याख्या
जो वहाँ अधिकतर होता हो।
१०८५ विधिसूत्रम् अष्टा० 4.3.41
संभूते ॥
अनुवृत्ति/अधिकार: तत्र, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्दीव्यतोऽण्, समर्थानां प्रथमाद्वा
वृत्तिः
स्रुघ्ने संभवति स्रौघ्नः॥
हिन्दी अनुवाद
'सम्भूत' (सम्भव) अर्थ में। स्रुघ्ने सम्भवति = स्रौघ्नः।
सरल व्याख्या
वहाँ सम्भव होने वाला।
१०८६ विधिसूत्रम् अष्टा० 4.3.42
कोशाड्ढञ् ॥
अनुवृत्ति/अधिकार: तत्र, संभूते, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्दीव्यतोऽण्, समर्थानां प्रथमाद्वा
वृत्तिः
कौशेयम् वस्त्रम्॥
हिन्दी अनुवाद
कोश से ढञ् होता है। कौशेयं वस्त्रम्।
सरल व्याख्या
कौशेयम् (रेशमी वस्त्र — कोश से उत्पन्न)।
१०८७ विधिसूत्रम् अष्टा० 4.3.53
तत्र भवः ॥
अनुवृत्ति/अधिकार: प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्दीव्यतोऽण्, समर्थानां प्रथमाद्वा
वृत्तिः
स्रुग्घ्ने भवः स्रौग्घ्नः। औत्सः। राष्ट्रियः॥
हिन्दी अनुवाद
'वहाँ होने वाला' (अर्थ में)। स्रुघ्ने भवः = स्रौघ्नः; औत्सः, राष्ट्रियः।
सरल व्याख्या
तत्र भवः: वहाँ रहने/होने वाला।
१०८८ विधिसूत्रम् अष्टा० 4.3.54
दिगादिभ्यो यत् ॥
अनुवृत्ति/अधिकार: तत्र, भवः, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्दीव्यतोऽण्, समर्थानां प्रथमाद्वा
वृत्तिः
दिश्यम्। वर्ग्यम्॥
हिन्दी अनुवाद
दिश् आदि से यत् होता है। दिश्यम्, वर्ग्यम्।
सरल व्याख्या
वर्ग्यम् (वर्ग का)।
१०८९ विधिसूत्रम् अष्टा० 4.3.55
शरीरावयवाच्च ॥
अनुवृत्ति/अधिकार: तत्र, भवः, यत्, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्दीव्यतोऽण्, समर्थानां प्रथमाद्वा
वृत्तिः
दन्त्यम्। कण्ठ्यम्। «अध्यात्मादेष्ठञिष्यते» (वार्त्तिकम्) । अध्यात्मं भवमाध्यात्मिकम्॥
हिन्दी अनुवाद
शरीर के अवयवों से भी (यत्)। दन्त्यम्, कण्ठ्यम्। (वार्तिक) अध्यात्म आदि से ठञ् इष्ट है — अध्यात्मं भवम् = आध्यात्मिकम्।
सरल व्याख्या
दन्त्यम् (दाँत सम्बन्धी — दन्त्य वर्ण), कण्ठ्यम्, तालव्यम्। आध्यात्मिकम्।
१०९० विधिसूत्रम् अष्टा० 7.3.20
अनुशतिकादीनां च ॥
अनुवृत्ति/अधिकार: वृद्धिः, अचः, ञ्णिति, तद्धितेषु, आदेः, उत्तरपदस्य, पूर्वपदस्य, अङ्गस्य, उत्तरपदस्य
वृत्तिः
एषामुभयपदवृद्धिर्ञिति णिति किति च। आधिदैविकम्। आधिभौतिकम्। ऐहलौकिकम्। पारलोकिकम्। आकृतिगणोऽयम्॥
हिन्दी अनुवाद
अनुशतिक आदि के दोनों पदों को ञित्, णित्, कित् परे रहते वृद्धि होती है। आधिदैविकम्, आधिभौतिकम्, ऐहलौकिकम्, पारलौकिकम्। यह आकृतिगण है।
सरल व्याख्या
दोनों पदों में वृद्धि: इहलोक → ऐहलौकिक, परलोक → पारलौकिक, अधिभूत → आधिभौतिक।
१०९१ विधिसूत्रम् अष्टा० 4.3.62
जिह्वामूलाङ्गुलेश्छः ॥
अनुवृत्ति/अधिकार: तत्र, भवः, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्दीव्यतोऽण्, समर्थानां प्रथमाद्वा
वृत्तिः
जिह्वामूलीयम्। अङ्गुलीयम्॥
हिन्दी अनुवाद
जिह्वामूल और अङ्गुलि से छ होता है। जिह्वामूलीयम्, अङ्गुलीयम्।
सरल व्याख्या
अङ्गुलीयम् (अँगूठी — अंगुली में होने वाली)।
१०९२ विधिसूत्रम् अष्टा० 4.3.63
वर्गान्ताच्च ॥
अनुवृत्ति/अधिकार: तत्र, भवः, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्दीव्यतोऽण्, समर्थानां प्रथमाद्वा
वृत्तिः
कवर्गीयम्॥
हिन्दी अनुवाद
वर्ग-अन्त (शब्द) से भी (छ)। कवर्गीयम्।
सरल व्याख्या
कवर्गीयम्, चवर्गीयम्।
१०९३ विधिसूत्रम् अष्टा० 4.3.74
तत आगतः ॥
अनुवृत्ति/अधिकार: प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्दीव्यतोऽण्, समर्थानां प्रथमाद्वा
वृत्तिः
स्रुग्घ्नादागतः स्रौग्घ्नः॥
हिन्दी अनुवाद
'वहाँ से आया' (अर्थ में)। स्रुघ्नात् आगतः = स्रौघ्नः।
सरल व्याख्या
जहाँ से आया उसके नाम से।
१०९४ विधिसूत्रम् अष्टा० 4.3.75
ठगायस्थानेभ्यः ॥
अनुवृत्ति/अधिकार: आगतः, तत, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्दीव्यतोऽण्, समर्थानां प्रथमाद्वा
वृत्तिः
शुल्कशालाया आगतः शौल्कशालिकः॥
हिन्दी अनुवाद
आय-स्थानों (कर-संग्रह के स्थानों) से ठक् होता है। शुल्कशालायाः आगतः = शौल्कशालिकः।
सरल व्याख्या
शौल्कशालिकः (चुंगी-घर से आया धन)।
१०९५ विधिसूत्रम् अष्टा० 4.3.77
विद्यायोनिसंबन्धेभ्यो वुञ् ॥
अनुवृत्ति/अधिकार: आगतः, तत, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्दीव्यतोऽण्, समर्थानां प्रथमाद्वा
वृत्तिः
औपाध्यायकः। पैतामहकः॥
हिन्दी अनुवाद
विद्या और योनि-सम्बन्ध वाचकों से वुञ् होता है। औपाध्यायकः, पैतामहकः।
सरल व्याख्या
पैतामहकः (दादा से आया — पैतृक)।
१०९६ विधिसूत्रम् अष्टा० 4.3.81
हेतुमनुष्येभ्योऽन्यतरस्यां रूप्यः ॥
अनुवृत्ति/अधिकार: आगतः, तत, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्दीव्यतोऽण्, समर्थानां प्रथमाद्वा
वृत्तिः
समादागतं समरूप्यम्। पक्षे - गहादित्वाच्छः। समीयम्। विषमीयम्। देवदत्तरूप्यम्। दैवदत्तम्॥
हिन्दी अनुवाद
हेतु और मनुष्य-वाचकों से विकल्प से रूप्य होता है। समात् आगतं = समरूप्यम्; पक्ष में गहादि होने से छ — समीयम्, विषमीयम्; देवदत्तरूप्यम्, दैवदत्तम्।
सरल व्याख्या
देवदत्तरूप्यम् (देवदत्त से आया)।
१०९७ विधिसूत्रम् अष्टा० 4.3.82
मयट् च ॥
अनुवृत्ति/अधिकार: आगतः, तत, हेतु-मनुष्येभ्यः, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्दीव्यतोऽण्, समर्थानां प्रथमाद्वा
वृत्तिः
सममयम्। देवदत्तमयम्॥
हिन्दी अनुवाद
मयट् भी। सममयम्, देवदत्तमयम्।
सरल व्याख्या
देवदत्तमयम्।
१०९८ विधिसूत्रम् अष्टा० 4.3.83
प्रभवति ॥
अनुवृत्ति/अधिकार: तत, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्दीव्यतोऽण्, समर्थानां प्रथमाद्वा
वृत्तिः
हिमवतः प्रभवति हैमवती गङ्गा॥
हिन्दी अनुवाद
'(वहाँ से) प्रकट होता है' अर्थ में। हिमवतः प्रभवति = हैमवती गङ्गा।
सरल व्याख्या
हैमवती गङ्गा (हिमालय से निकली)।
१०९९ विधिसूत्रम् अष्टा० 4.3.85
तद्गच्छति पथिदूतयोः ॥
अनुवृत्ति/अधिकार: प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्दीव्यतोऽण्, समर्थानां प्रथमाद्वा
वृत्तिः
स्रुग्घ्नं गच्छति स्रौग्ध्नं पन्था दूतो वा॥
हिन्दी अनुवाद
मार्ग और दूत अर्थ में 'वहाँ जाता है' (अर्थ में)। स्रुघ्नं गच्छति = स्रौघ्नः पन्थाः दूतः वा।
सरल व्याख्या
स्रुघ्न को जाने वाला मार्ग/दूत।
११०० विधिसूत्रम् अष्टा० 4.3.86
अभिनिष्क्रामति द्वारम् ॥
अनुवृत्ति/अधिकार: तत्, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्दीव्यतोऽण्, समर्थानां प्रथमाद्वा
वृत्तिः
स्रुग्घ्नमभिनिष्क्रामति स्रौग्घ्नं कान्यकुब्जद्वारम्॥
हिन्दी अनुवाद
'(उसकी ओर) निकलता है' — द्वार (अर्थ में)। स्रुघ्नम् अभिनिष्क्रामति = स्रौघ्नं कान्यकुब्जद्वारम्।
सरल व्याख्या
कन्नौज का वह द्वार जो स्रुघ्न की ओर खुलता है।
११०१ विधिसूत्रम् अष्टा० 4.3.87
अधिकृत्य कृते ग्रन्थे ॥
अनुवृत्ति/अधिकार: तत्, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्दीव्यतोऽण्, समर्थानां प्रथमाद्वा
वृत्तिः
शारीरकमधिकृत्य कृतो ग्रन्थः शारीरकीयः॥
हिन्दी अनुवाद
'(उसे) अधिकृत करके रचे गए ग्रन्थ' अर्थ में। शारीरकम् अधिकृत्य कृतः ग्रन्थः = शारीरकीयः।
सरल व्याख्या
विषय के नाम से ग्रन्थ का नाम।
११०२ विधिसूत्रम् अष्टा० 4.3.89
सोऽस्य निवासः ॥
अनुवृत्ति/अधिकार: प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्दीव्यतोऽण्, समर्थानां प्रथमाद्वा
वृत्तिः
स्रुग्घ्नो निवासोऽस्य स्रौग्घ्नः॥
हिन्दी अनुवाद
'वह इसका निवास है' (अर्थ में)। स्रुघ्नः निवासः अस्य = स्रौघ्नः।
सरल व्याख्या
जिसका निवास वहाँ हो।
११०३ विधिसूत्रम् अष्टा० 4.3.101
तेन प्रोक्तम् ॥
अनुवृत्ति/अधिकार: प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्दीव्यतोऽण्, समर्थानां प्रथमाद्वा
वृत्तिः
पाणिनिना प्रोक्तं पाणिनीयम्॥
हिन्दी अनुवाद
'उसके द्वारा कहा गया' (अर्थ में)। पाणिनिना प्रोक्तं = पाणिनीयम्।
सरल व्याख्या
पाणिनीयम् (पाणिनि द्वारा प्रोक्त व्याकरण)।
११०४ विधिसूत्रम् अष्टा० 4.3.120
तस्येदम् ॥
अनुवृत्ति/अधिकार: प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्दीव्यतोऽण्, समर्थानां प्रथमाद्वा
वृत्तिः
उपगोरिदम् औपगवम् ॥ इति शैषिकाः ॥ ५ ॥
हिन्दी अनुवाद
'यह उसका है' (अर्थ में)। उपगोः इदम् = औपगवम्। (शैषिक समाप्त।)
सरल व्याख्या
सामान्य सम्बन्ध: औपगवम् (उपगु का)। (शैषिक पूर्ण।)

मूल पाठ: लघुसिद्धान्तकौमुदी (वरदराजाचार्य) — डिजिटल पाठ-स्रोत ashtadhyayi.com · हिन्दी अनुवाद व सरल व्याख्या: cdsharma.in

💬 ज्योतिषीय प्रश्न पूछें