📜 लघुसिद्धान्तकौमुदी
वरदराजाचार्य कृत · पाणिनीय सूत्र, मूल वृत्ति, हिन्दी अनुवाद एवं सरल व्याख्या
← सभी प्रकरण
४९. विकारार्थकाः
विकार अर्थ · सूत्र 1105–1110 (6)
मूल वृत्ति
हिन्दी अनुवाद
सरल व्याख्या
११०५
विधिसूत्रम् अष्टा० 4.3.134
तस्य विकारः ॥
अनुवृत्ति/अधिकार: तस्य, इदम्, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्दीव्यतोऽण्, समर्थानां प्रथमाद्वा
वृत्तिः
«अश्मनो विकारे टिलोपो वक्तव्यः» (वार्त्तिकम्) । अश्मनो विकारः आश्मः । भास्मनः । मार्त्तिकः ॥
हिन्दी अनुवाद
'उसका विकार' (अर्थ में)। (वार्तिक) अश्मन् के विकार में टि-लोप कहना चाहिए — अश्मनः विकारः = आश्मः; भास्मनः, मार्त्तिकः।
सरल व्याख्या
विकार (उससे बनी वस्तु): आश्मः (पत्थर का), मार्त्तिकः (मिट्टी का)।
११०६
विधिसूत्रम् अष्टा० 4.3.135
अवयवे च प्राण्योषधिवृक्षेभ्यः ॥
अनुवृत्ति/अधिकार: तस्य, इदम्, तस्य, विकारः, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्दीव्यतोऽण्, समर्थानां प्रथमाद्वा
वृत्तिः
चाद्विकारे। मयूरस्यावयवो विकारो वा मायूरः। मौर्वं काण्डं भस्म वा। पैप्पलम्॥
हिन्दी अनुवाद
प्राणी, ओषधि, वृक्ष वाचकों से अवयव अर्थ में भी; 'च' से विकार में। मयूरस्य अवयवः विकारः वा = मायूरः; मौर्वं काण्डं भस्म वा; पैप्पलम्।
सरल व्याख्या
मायूरः (मोर का पंख आदि), पैप्पलम् (पीपल की लकड़ी)।
११०७
विधिसूत्रम् अष्टा० 4.3.143
मयड्वैतयोर्भाषायामभक्ष्याच्छादनयोः ॥
अनुवृत्ति/अधिकार: तस्य, विकारः, अवयवे, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्दीव्यतोऽण्, समर्थानां प्रथमाद्वा
वृत्तिः
प्रकृतिमात्रान्मयड् वा स्याद् विकारावयवयोः। अश्ममयम्, आश्मनम्। अभक्ष्येत्यादि किम्? मौद्गः सूपः। कार्पासमाच्छादनम्॥
हिन्दी अनुवाद
लोक-भाषा में भक्ष्य और आच्छादन (वस्त्र) को छोड़कर, विकार और अवयव में प्रकृति-मात्र से विकल्प से मयट् होता है। अश्ममयम्, आश्मनम्। अभक्ष्य आदि क्यों? मौद्गः सूपः, कार्पासम् आच्छादनम्।
सरल व्याख्या
मयट् (मय): अश्ममयम् (पत्थर का बना), मृण्मयम्, स्वर्णमयम्।
११०८
विधिसूत्रम् अष्टा० 4.3.144
नित्यं वृद्धशरादिभ्यः ॥
अनुवृत्ति/अधिकार: विकारः, तस्य, अवयवे, भाषायाम्, अ-भक्ष्य-आच्छादनयोः, मयट्, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्दीव्यतोऽण्, समर्थानां प्रथमाद्वा
हिन्दी अनुवाद
वृद्ध और शर आदि से नित्य (मयट्)। आम्रमयम्, शरमयम्।
सरल व्याख्या
आम्रमयम् (आम का बना)।
११०९
विधिसूत्रम् अष्टा० 4.3.145
गोश्च पुरीषे ॥
अनुवृत्ति/अधिकार: तस्य, विकारः, अवयवे, मयट्, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्दीव्यतोऽण्, समर्थानां प्रथमाद्वा
वृत्तिः
गोः पुरीषं गोमयम्॥
हिन्दी अनुवाद
गो से पुरीष (गोबर) अर्थ में भी (मयट्)। गोः पुरीषं = गोमयम्।
सरल व्याख्या
गोमयम् (गोबर)।
१११०
विधिसूत्रम् अष्टा० 4.3.160
गोपयसोर्यत् ॥
अनुवृत्ति/अधिकार: तस्य, विकारः, अवयवे, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्दीव्यतोऽण्, समर्थानां प्रथमाद्वा
वृत्तिः
गव्यम् । पयस्यम् ॥ इति विकारार्थाः ॥ ६ ॥
हिन्दी अनुवाद
गो और पयस् से यत् होता है। गव्यम्, पयस्यम्। (विकारार्थक समाप्त।)
सरल व्याख्या
गव्यम् (गाय का — दूध, घी), पयस्यम्। (विकार प्रत्यय पूर्ण।)
मूल पाठ: लघुसिद्धान्तकौमुदी (वरदराजाचार्य) — डिजिटल पाठ-स्रोत ashtadhyayi.com · हिन्दी अनुवाद व सरल व्याख्या: cdsharma.in