📜 लघुसिद्धान्तकौमुदी
वरदराजाचार्य कृत · पाणिनीय सूत्र, मूल वृत्ति, हिन्दी अनुवाद एवं सरल व्याख्या
११११
अधिकारसूत्रम् · प्राग्वहतीयः ठगधिकारः अष्टा० 4.4.1
प्राग्वहतेष्ठक् ॥
अनुवृत्ति/अधिकार: प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्वहतेष्ठक्, समर्थानां प्रथमाद्वा
वृत्तिः
तद्वहतीत्यतः प्राक् ठगधिक्रियते ॥
हिन्दी अनुवाद
'तद्वहति' से पहले तक ठक् का अधिकार है।
सरल व्याख्या
आगे के अर्थों में मुख्य प्रत्यय 'ठक्' (इक)।
१११२
विधिसूत्रम् अष्टा० 4.4.2
तेन दीव्यति खनति जयति जितम् ॥
अनुवृत्ति/अधिकार: प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्वहतेष्ठक्, समर्थानां प्रथमाद्वा
वृत्तिः
अक्षैर्दीव्यति खनति जयति जितो वा आक्षिकः॥
हिन्दी अनुवाद
'उससे खेलता है, खोदता है, जीतता है, जीता गया' (अर्थों में)। अक्षैः दीव्यति खनति जयति जितः वा = आक्षिकः।
सरल व्याख्या
आक्षिकः (पासों से खेलने वाला — जुआरी)।
१११३
विधिसूत्रम् अष्टा० 4.4.3
संस्कृतम् ॥
अनुवृत्ति/अधिकार: तेन, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्वहतेष्ठक्, समर्थानां प्रथमाद्वा
वृत्तिः
दध्ना संस्कृतम् दाधिकम्। मारीचिकम्॥
हिन्दी अनुवाद
'(उससे) संस्कार किया गया' (अर्थ में)। दध्ना संस्कृतं = दाधिकम्; मारीचिकम्।
सरल व्याख्या
दाधिकम् (दही से तैयार), मारीचिकम् (काली मिर्च डालकर बना)।
१११४
विधिसूत्रम् अष्टा० 4.4.5
तरति ॥
अनुवृत्ति/अधिकार: तेन, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्वहतेष्ठक्, समर्थानां प्रथमाद्वा
वृत्तिः
तेनेत्येव। उडुपेन तरति औडुपिकः॥
हिन्दी अनुवाद
'(उससे) तैरता है' (अर्थ में)। उडुपेन तरति = औडुपिकः।
सरल व्याख्या
औडुपिकः (बेड़े से पार होने वाला)।
१११५
विधिसूत्रम् अष्टा० 4.4.8
चरति ॥
अनुवृत्ति/अधिकार: तेन, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्वहतेष्ठक्, समर्थानां प्रथमाद्वा
वृत्तिः
तृतीयान्ताद्गच्छति भक्षयतीत्यर्थयोष्ठक् स्यात्। हस्तिना चरति हास्तिकः। दध्ना चरति दाधिकः॥
हिन्दी अनुवाद
तृतीयान्त से 'जाता है' और 'खाता है' अर्थों में ठक् होता है। हस्तिना चरति = हास्तिकः; दध्ना चरति = दाधिकः।
सरल व्याख्या
हास्तिकः (हाथी पर चलने वाला)।
१११६
विधिसूत्रम् अष्टा० 4.4.22
संसृष्टे ॥
अनुवृत्ति/अधिकार: तेन, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्वहतेष्ठक्, समर्थानां प्रथमाद्वा
वृत्तिः
दध्ना संसृष्टं दाधिकम्॥
हिन्दी अनुवाद
'(उससे) मिला हुआ' (अर्थ में)। दध्ना संसृष्टं = दाधिकम्।
सरल व्याख्या
दाधिकम् (दही मिला)।
१११७
विधिसूत्रम् अष्टा० 4.4.32
उञ्छति ॥
अनुवृत्ति/अधिकार: तत्, प्रति-अनुपूर्वम्, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्वहतेष्ठक्, समर्थानां प्रथमाद्वा
वृत्तिः
बदराण्युञ्छति बादरिकः॥
हिन्दी अनुवाद
'बीनता है' (अर्थ में)। बदराणि उञ्छति = बादरिकः।
सरल व्याख्या
बादरिकः (बेर बीनने वाला)।
१११८
विधिसूत्रम् अष्टा० 4.4.33
रक्षति ॥
अनुवृत्ति/अधिकार: तत्, प्रति-अनुपूर्वम्, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्वहतेष्ठक्, समर्थानां प्रथमाद्वा
वृत्तिः
समाजं रक्षति सामाजिकः॥
हिन्दी अनुवाद
'रक्षा करता है' (अर्थ में)। समाजं रक्षति = सामाजिकः।
सरल व्याख्या
सामाजिकः (समाज की रक्षा करने वाला — सभासद्)।
१११९
विधिसूत्रम् अष्टा० 4.4.34
शब्ददर्दुरं करोति ॥
अनुवृत्ति/अधिकार: तत्, प्रति-अनुपूर्वम्, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्वहतेष्ठक्, समर्थानां प्रथमाद्वा
वृत्तिः
शब्दं करोति शाब्दिकः। दर्दुरं करोति दार्दुरिकः॥
हिन्दी अनुवाद
'शब्द और दर्दुर करता है' (अर्थ में)। शब्दं करोति = शाब्दिकः; दर्दुरं करोति = दार्दुरिकः।
सरल व्याख्या
शाब्दिकः (शब्द-शास्त्री/वैयाकरण)।
११२०
विधिसूत्रम् अष्टा० 4.4.41
धर्मं चरति ॥
अनुवृत्ति/अधिकार: तत्, प्रति-अनुपूर्वम्, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्वहतेष्ठक्, समर्थानां प्रथमाद्वा
वृत्तिः
धार्मिकः «अधर्माच्चेति वक्तव्यम्» (वार्त्तिकम्)। आधर्मिकः॥
हिन्दी अनुवाद
'धर्म का आचरण करता है' (अर्थ में)। धार्मिकः। (वार्तिक) अधर्म से भी कहना चाहिए — आधर्मिकः।
सरल व्याख्या
धार्मिकः (धर्म का आचरण करने वाला)।
११२१
विधिसूत्रम् अष्टा० 4.4.55
शिल्पम् ॥
अनुवृत्ति/अधिकार: तत्, अस्य, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्वहतेष्ठक्, समर्थानां प्रथमाद्वा
वृत्तिः
मृदङ्गवादनं शिल्पमस्य मार्दङ्गिकः॥
हिन्दी अनुवाद
'(वह इसका) शिल्प है' (अर्थ में)। मृदङ्गवादनं शिल्पम् अस्य = मार्दङ्गिकः।
सरल व्याख्या
मार्दङ्गिकः (मृदंग बजाने वाला), वैणिकः (वीणा वादक)।
११२२
विधिसूत्रम् अष्टा० 4.4.57
प्रहरणम् ॥
अनुवृत्ति/अधिकार: तत्, अस्य, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्वहतेष्ठक्, समर्थानां प्रथमाद्वा
वृत्तिः
तदस्येत्येव। असिः प्रहरणमस्य आसिकः। धानुष्कः॥
हिन्दी अनुवाद
'(वह इसका) प्रहरण (शस्त्र) है' (अर्थ में)। असिः प्रहरणम् अस्य = आसिकः; धानुष्कः।
सरल व्याख्या
धानुष्कः (धनुर्धर), आसिकः (तलवारधारी)।
११२३
विधिसूत्रम् अष्टा० 4.4.61
शीलम् ॥
अनुवृत्ति/अधिकार: तत्, अस्य, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्वहतेष्ठक्, समर्थानां प्रथमाद्वा
वृत्तिः
अपूपभक्षणं शीलमस्य आपूपिकः॥
हिन्दी अनुवाद
'(वह इसका) स्वभाव है' (अर्थ में)। अपूपभक्षणं शीलम् अस्य = आपूपिकः।
सरल व्याख्या
आपूपिकः (पूए खाने के स्वभाव वाला)।
११२४
विधिसूत्रम् अष्टा० 4.4.73
निकटे वसति ॥
अनुवृत्ति/अधिकार: तत्र, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्वहतेष्ठक्, समर्थानां प्रथमाद्वा
वृत्तिः
नैकटिको भिक्षुकः ॥ इति ठगधिकारः ॥७ ॥
हिन्दी अनुवाद
'निकट रहता है' (अर्थ में)। नैकटिकः भिक्षुकः। (ठक् अधिकार समाप्त।)
सरल व्याख्या
नैकटिकः (ग्राम के निकट रहने वाला भिक्षु)। (ठक् अधिकार पूर्ण।)
मूल पाठ: लघुसिद्धान्तकौमुदी (वरदराजाचार्य) — डिजिटल पाठ-स्रोत ashtadhyayi.com · हिन्दी अनुवाद व सरल व्याख्या: cdsharma.in