📜 लघुसिद्धान्तकौमुदी
वरदराजाचार्य कृत · पाणिनीय सूत्र, मूल वृत्ति, हिन्दी अनुवाद एवं सरल व्याख्या
११२५
अधिकारसूत्रम् · यदधिकारः प्राग्घितीयः अष्टा० 4.4.75
प्राग्घिताद्यत् ॥
अनुवृत्ति/अधिकार: प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्घिताद्यत्, समर्थानां प्रथमाद्वा
वृत्तिः
तस्मै हितमित्यतः प्राग् यदधिक्रियते ॥
हिन्दी अनुवाद
'तस्मै हितम्' से पहले तक यत् का अधिकार है।
सरल व्याख्या
आगे मुख्य प्रत्यय 'यत्' (य)।
११२६
विधिसूत्रम् अष्टा० 4.4.76
तद्वहति रथयुगप्रासङ्गम् ॥
अनुवृत्ति/अधिकार: प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्घिताद्यत्, समर्थानां प्रथमाद्वा
वृत्तिः
रथं वहति रथ्यः। युग्यः। प्रासङ्ग्यः॥
हिन्दी अनुवाद
'(उसे) ढोता है' — रथ, युग, प्रासङ्ग (से)। रथं वहति = रथ्यः; युग्यः, प्रासङ्ग्यः।
सरल व्याख्या
रथ्यः (रथ ढोने वाला घोड़ा), युग्यः।
११२७
विधिसूत्रम् अष्टा० 4.4.77
धुरो यड्ढकौ ॥
अनुवृत्ति/अधिकार: वहति, तत्, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्घिताद्यत्, समर्थानां प्रथमाद्वा
वृत्तिः
हलि चेति दीर्घे प्राप्ते -
«न भकुर्छुराम्» [675] । भस्य कुर्छुरोश्चोपधाया इको दीर्घो न स्यात् । धुर्यः । धौरेयः ॥
हिन्दी अनुवाद
धुर् से यत् और ढक् होते हैं। 'हलि च' से दीर्घ प्राप्त होने पर — 'न भकुर्छुराम्' — भ-संज्ञक और कुर्-छुर् की उपधा के इक् को दीर्घ नहीं — धुर्यः, धौरेयः।
सरल व्याख्या
धुर्यः / धौरेयः (धुरा ढोने वाला — अग्रणी)।
११२८
विधिसूत्रम् अष्टा० 4.4.91
नौवयोधर्मविषमूलमूलसीतातुलाभ्यस्तार्यतुल्यप्राप्यवध्यानाम्यसमसमितसम्मितेषु ॥
अनुवृत्ति/अधिकार: प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्घिताद्यत्, समर्थानां प्रथमाद्वा
वृत्तिः
नावा तार्यं नाव्यं जलम्। वयसा तुल्यो वयस्यः। धर्मेण प्राप्यं धर्म्यम्। विषेण वध्यो विष्यः। मूलेन आनाम्यं मूल्यम्। मूलेन समो मूल्यः। सीतया समितं सीत्यं क्षेत्रम्। तुलया संमितं तुल्यम्॥
हिन्दी अनुवाद
नौ, वयस्, धर्म, विष, मूल, मूल, सीता, तुला से (क्रमशः) तार्य, तुल्य, प्राप्य, वध्य, आनाम्य, सम, समित, सम्मित अर्थों में (यत्)। नावा तार्यं = नाव्यं जलम्; वयसा तुल्यः = वयस्यः; धर्मेण प्राप्यं = धर्म्यम्; विषेण वध्यः = विष्यः; मूलेन आनाम्यं = मूल्यम्; मूलेन समः = मूल्यः; सीतया समितं = सीत्यं क्षेत्रम्; तुलया सम्मितं = तुल्यम्।
सरल व्याख्या
वयस्यः (समान आयु वाला — मित्र), धर्म्यम् (धर्म-सम्मत), मूल्यम् (मूल्य), तुल्यम् (बराबर), नाव्यम् (नाव से पार करने योग्य)।
११२९
विधिसूत्रम् अष्टा० 4.4.98
तत्र साधुः ॥
अनुवृत्ति/अधिकार: प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्घिताद्यत्, समर्थानां प्रथमाद्वा
वृत्तिः
अग्रे साधुः - अग्र्यः। सामसु साधुः सामन्यः। ये चाभावकर्मणोरिति प्रकृतिभावः। कर्मण्यः। शरण्यः॥
हिन्दी अनुवाद
'उसमें कुशल' (अर्थ में)। अग्रे साधुः = अग्र्यः; सामसु साधुः = सामन्यः; 'ये चाभावकर्मणोः' से प्रकृतिभाव — कर्मण्यः, शरण्यः।
सरल व्याख्या
कर्मण्यः (कर्म में कुशल), शरण्यः (शरण देने में समर्थ), अग्र्यः (श्रेष्ठ)।
११३०
विधिसूत्रम् अष्टा० 4.4.105
सभाया यः ॥
अनुवृत्ति/अधिकार: साधुः, तत्र, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्घिताद्यत्, समर्थानां प्रथमाद्वा
वृत्तिः
सभ्यः ॥ इति यतोऽवधिः ॥ ८ ॥
हिन्दी अनुवाद
सभा से य होता है। सभ्यः। (यत् अधिकार समाप्त।)
सरल व्याख्या
सभ्यः (सभा के योग्य — सभ्य)। (यत् अधिकार पूर्ण।)
मूल पाठ: लघुसिद्धान्तकौमुदी (वरदराजाचार्य) — डिजिटल पाठ-स्रोत ashtadhyayi.com · हिन्दी अनुवाद व सरल व्याख्या: cdsharma.in