🕉️ 16 October 2026, Friday · 05:18:47 AM · CDSHARMA.IN

📜 लघुसिद्धान्तकौमुदी

वरदराजाचार्य कृत · पाणिनीय सूत्र, मूल वृत्ति, हिन्दी अनुवाद एवं सरल व्याख्या

← सभी प्रकरण

५२. छयदधिकारः

छ-यत् अधिकार · सूत्र 1131–1136 (6)
११३१ अधिकारसूत्रम् · प्राक्क्रीतीयः छाधिकारः अष्टा० 5.1.1
प्राक् क्रीताच्छः ॥
अनुवृत्ति/अधिकार: प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राक्क्रीताच्छः, समर्थानां प्रथमाद्वा
वृत्तिः
तेन क्रीतमित्यतः प्राक् छोऽधिक्रियते ॥
हिन्दी अनुवाद
'तेन क्रीतम्' से पहले तक छ का अधिकार है।
सरल व्याख्या
आगे मुख्य प्रत्यय 'छ' (ईय)।
११३२ विधिसूत्रम् अष्टा० 5.1.2
उगवादिभ्यो यत् ॥
अनुवृत्ति/अधिकार: प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राक्क्रीताच्छः, समर्थानां प्रथमाद्वा
वृत्तिः
प्राक् क्रीतादित्येव। उवर्णान्ताद्गवादिभ्यश्च यत् स्यात्। छस्यापवादः। शङ्कवे हितं शङ्कव्यं दारु। गव्यम्। «नाभि नभं च» (वार्त्तिकम्) । नभ्योऽक्षः। नभ्यमञ्जनम् ॥
हिन्दी अनुवाद
(क्रीत से पहले) उवर्णान्त और गो आदि से यत् होता है — छ का अपवाद। शङ्कवे हितं = शङ्कव्यं दारु; गव्यम्। (वार्तिक) नाभि को नभ भी — नभ्यः अक्षः, नभ्यम् अञ्जनम्।
सरल व्याख्या
शङ्कव्यम् (खूँटी के लिये उपयुक्त लकड़ी)।
११३३ विधिसूत्रम् अष्टा० 5.1.5
तस्मै हितम् ॥
अनुवृत्ति/अधिकार: प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राक्क्रीताच्छः, समर्थानां प्रथमाद्वा
वृत्तिः
वत्सेभ्यो हितो वत्सीयो गोधुक्॥
हिन्दी अनुवाद
'उसके लिये हितकर' (अर्थ में)। वत्सेभ्यः हितः = वत्सीयः गोधुक्।
सरल व्याख्या
वत्सीयः (बछड़ों का हितैषी ग्वाला)।
११३४ विधिसूत्रम् अष्टा० 5.1.6
शरीरावयवाद्यत् ॥
अनुवृत्ति/अधिकार: तस्मै, हितम्, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राक्क्रीताच्छः, समर्थानां प्रथमाद्वा
वृत्तिः
दन्त्यम्। कण्ठ्यम्। नस्यम्॥
हिन्दी अनुवाद
शरीर के अवयव से यत् होता है। दन्त्यम्, कण्ठ्यम्, नस्यम्।
सरल व्याख्या
नस्यम् (नाक के लिये हितकर — नसवार), दन्त्यम् (दाँतों के लिये हितकर)।
११३५ विधिसूत्रम् अष्टा० 5.1.9
आत्मन्विश्वजनभोगोत्तरपदात् खः ॥
अनुवृत्ति/अधिकार: तस्मै, हितम्, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राक्क्रीताच्छः, समर्थानां प्रथमाद्वा
हिन्दी अनुवाद
(वृत्ति नहीं) आत्मन्, विश्वजन और भोग-उत्तरपद वाले (शब्दों) से ख होता है।
सरल व्याख्या
ख = ईन: आत्मनीन, विश्वजनीन।
११३६ विधिसूत्रम् अष्टा० 6.4.169
आत्माध्वानौ खे ॥
अनुवृत्ति/अधिकार: प्रकृत्या, अणि, अन्, अङ्गस्य, असिद्धवदत्राभात्, भस्य
वृत्तिः
एतौ खे प्रकृत्या स्तः । आत्मने हितम् आत्मनीनम् । विश्वजनीनम् । मातृभोगीणः ॥ इति छयतोरवधिः ॥ ९ ॥
हिन्दी अनुवाद
आत्मन् और अध्वन् ख परे रहते प्रकृति से रहते हैं। आत्मने हितम् = आत्मनीनम्; विश्वजनीनम्; मातृभोगीणः। (छ-यत् अधिकार समाप्त।)
सरल व्याख्या
विश्वजनीनम् (सबके लिये हितकर — सार्वजनिक), आत्मनीनम् (अपने लिये हितकर)।

मूल पाठ: लघुसिद्धान्तकौमुदी (वरदराजाचार्य) — डिजिटल पाठ-स्रोत ashtadhyayi.com · हिन्दी अनुवाद व सरल व्याख्या: cdsharma.in

💬 ज्योतिषीय प्रश्न पूछें