📜 लघुसिद्धान्तकौमुदी
वरदराजाचार्य कृत · पाणिनीय सूत्र, मूल वृत्ति, हिन्दी अनुवाद एवं सरल व्याख्या
११३७
अधिकारसूत्रम् · प्राग्वतीयः ठञधिकारः अष्टा० 5.1.18
प्राग्वतेष्ठञ् ॥
अनुवृत्ति/अधिकार: प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्वतेष्ठञ्, समर्थानां प्रथमाद्वा
वृत्तिः
तेन तुल्यमिति वतिं वक्ष्यति, ततः प्राक् ठञधिक्रियते ॥
हिन्दी अनुवाद
'तेन तुल्यम्' (सूत्र) में वति कहा जाएगा, उससे पहले तक ठञ् का अधिकार है।
सरल व्याख्या
आगे मुख्य प्रत्यय 'ठञ्' (इक)।
११३८
विधिसूत्रम् अष्टा० 5.1.37
तेन क्रीतम् ॥
अनुवृत्ति/अधिकार: प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्वतेष्ठञ्, आर्हादगोपुच्छसंख्यापरिमाणाट्ठक्, समर्थानां प्रथमाद्वा
वृत्तिः
सप्तत्या क्रीतं साप्ततिकम्। प्रास्थिकम्॥
हिन्दी अनुवाद
'उससे खरीदा गया' (अर्थ में)। सप्तत्या क्रीतं = साप्ततिकम्; प्रास्थिकम्।
सरल व्याख्या
साप्ततिकम् (सत्तर में खरीदा)।
११३९
विधिसूत्रम् अष्टा० 5.1.41
सर्वभूमिपृथिवीभ्यामणञौ ॥
अनुवृत्ति/अधिकार: तस्य, निमित्तम्, संयोग-उत्पातौ, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्वतेष्ठञ्, आर्हादगोपुच्छसंख्यापरिमाणाट्ठक्, समर्थानां प्रथमाद्वा
हिन्दी अनुवाद
(वृत्ति नहीं) सर्वभूमि और पृथिवी से अण् और अञ् होते हैं।
सरल व्याख्या
सार्वभौम, पार्थिव।
११४०
विधिसूत्रम् अष्टा० 5.1.42
तस्येश्वरः ॥
अनुवृत्ति/अधिकार: सर्वभूमि-पृथिवीभ्याम्, अण्-अञौ, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्वतेष्ठञ्, आर्हादगोपुच्छसंख्यापरिमाणाट्ठक्, समर्थानां प्रथमाद्वा
वृत्तिः
सर्वभूमिपृथिवीभ्यामणञौ स्तः । अनुशतिकादीनां च । सर्वभूमेरीश्वरः सार्वभौमः । पार्थिवः ॥
हिन्दी अनुवाद
'उसका ईश्वर' (अर्थ में) सर्वभूमि और पृथिवी से अण्-अञ् होते हैं; 'अनुशतिकादीनां च' (से उभयपद-वृद्धि)। सर्वभूमेः ईश्वरः = सार्वभौमः; पार्थिवः।
सरल व्याख्या
सार्वभौमः (सम्पूर्ण भूमि का स्वामी — चक्रवर्ती), पार्थिवः (पृथ्वी का स्वामी — राजा)।
११४१
विधिसूत्रम् अष्टा० 5.1.59
पङ्क्तिविंशतित्रिंशत्चत्वारिंशत्पञ्चाशत्षष्टिसप्तत्यशीतिनवतिशतम् ॥
अनुवृत्ति/अधिकार: तत्, अस्य, परिमाणम्, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्वतेष्ठञ्, आर्हादगोपुच्छसंख्यापरिमाणाट्ठक्, समर्थानां प्रथमाद्वा
वृत्तिः
एते रूढिशब्दा निपात्यन्ते॥
हिन्दी अनुवाद
पङ्क्ति, विंशति, त्रिंशत्, चत्वारिंशत्, पञ्चाशत्, षष्टि, सप्तति, अशीति, नवति, शत — ये रूढ़ शब्द निपातन से (सिद्ध) होते हैं।
सरल व्याख्या
दहाई की संख्याएँ (बीस, तीस... सौ) निपातन से बनी हैं।
११४२
विधिसूत्रम् अष्टा० 5.1.63
तद् अर्हति ॥
अनुवृत्ति/अधिकार: प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्वतेष्ठञ्, आर्हादगोपुच्छसंख्यापरिमाणाट्ठक्, समर्थानां प्रथमाद्वा
वृत्तिः
लब्धुं योग्यो भवतीत्यर्थे द्वितीयान्ताट्ठञादयः स्युः। श्वेतच्छत्रमर्हति श्वैतच्छत्रिकः॥
हिन्दी अनुवाद
'प्राप्त करने के योग्य होता है' अर्थ में द्वितीयान्त से ठञ् आदि होते हैं। श्वेतच्छत्रम् अर्हति = श्वैतच्छत्रिकः।
सरल व्याख्या
श्वैतच्छत्रिकः (श्वेत छत्र के योग्य — राजा)।
११४३
विधिसूत्रम् अष्टा० 5.1.66
दण्डादिभ्यः ॥
अनुवृत्ति/अधिकार: तत्, अर्हति, यत्, च, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्वतेष्ठञ्, समर्थानां प्रथमाद्वा
वृत्तिः
एभ्यो यत् स्यात्। दण्डमर्हति दण्ड्यः। अर्घ्यः। वध्यः॥
हिन्दी अनुवाद
दण्ड आदि से यत् होता है। दण्डम् अर्हति = दण्ड्यः; अर्घ्यः, वध्यः।
सरल व्याख्या
दण्ड्यः (दण्ड के योग्य), अर्घ्यः (अर्घ्य/पूजा के योग्य), वध्यः।
११४४
विधिसूत्रम् अष्टा० 5.1.79
तेन निर्वृत्तम् ॥
अनुवृत्ति/अधिकार: कालात्, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्वतेष्ठञ्, कालात्, समर्थानां प्रथमाद्वा
वृत्तिः
अह्ना निर्वृत्तम् आह्निकम् ॥ इति ठञोऽवधिः ॥ १० ॥
हिन्दी अनुवाद
'उससे सम्पन्न' (अर्थ में)। अह्ना निर्वृत्तम् = आह्निकम्। (ठञ् अधिकार समाप्त।)
सरल व्याख्या
आह्निकम् (दिन भर में किया जाने वाला — नित्यकर्म)। (ठञ् पूर्ण।)
मूल पाठ: लघुसिद्धान्तकौमुदी (वरदराजाचार्य) — डिजिटल पाठ-स्रोत ashtadhyayi.com · हिन्दी अनुवाद व सरल व्याख्या: cdsharma.in