🕉️ 16 October 2026, Friday · 05:20:27 AM · CDSHARMA.IN

📜 लघुसिद्धान्तकौमुदी

वरदराजाचार्य कृत · पाणिनीय सूत्र, मूल वृत्ति, हिन्दी अनुवाद एवं सरल व्याख्या

← सभी प्रकरण

५५. पाञ्चमिकाः

पाञ्चमिक · सूत्र 1158–1178 (21)
११५८ विधिसूत्रम् अष्टा० 5.2.1
धान्यानां भवने क्षेत्रे खञ् ॥
अनुवृत्ति/अधिकार: प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, समर्थानां प्रथमाद्वा
वृत्तिः
भवत्यस्मिन्निति भवनम्। मुद्गानां भवनं क्षेत्रं मौद्गीनम्॥
हिन्दी अनुवाद
धान्यों के 'भवन' क्षेत्र अर्थ में खञ् होता है। जिसमें (कुछ) होता है वह भवन। मुद्गानां भवनं क्षेत्रं = मौद्गीनम्।
सरल व्याख्या
मौद्गीनम् (मूँग का खेत)।
११५९ विधिसूत्रम् अष्टा० 5.2.2
व्रीहिशाल्योर्ढक् ॥
अनुवृत्ति/अधिकार: धान्यानाम्, भवने, क्षेत्रे, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, समर्थानां प्रथमाद्वा
वृत्तिः
व्रैहेयम्। शालेयम्॥
हिन्दी अनुवाद
व्रीहि और शालि से ढक् होता है। व्रैहेयम्, शालेयम्।
सरल व्याख्या
शालेयम् (धान का खेत)।
११६० विधिसूत्रम् अष्टा० 5.2.23
हैयंगवीनं संज्ञायाम् ॥
अनुवृत्ति/अधिकार: तत्, खञ्, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, समर्थानां प्रथमाद्वा
वृत्तिः
ह्योगोदोहशब्दस्य हियङ्गुरादेशः विकारार्थे खञ्च निपात्यते। दुह्यत इति दोहः क्षीरम्। ह्रोगोदोहस्य विकारः - हैयङ्गवीनं नवनीतम्॥
हिन्दी अनुवाद
'हैयङ्गवीन' संज्ञा में (निपातन)। ह्योगोदोह शब्द को हियङ्गु आदेश और विकार अर्थ में खञ् निपातन होता है। दुहा जाता है वह दोह = दूध। ह्योगोदोहस्य विकारः = हैयङ्गवीनं नवनीतम्।
सरल व्याख्या
हैयङ्गवीनम् (कल दुहे दूध से निकला ताज़ा मक्खन)।
११६१ विधिसूत्रम् अष्टा० 5.2.36
तदस्य संजातं तारकादिभ्य इतच् ॥
अनुवृत्ति/अधिकार: प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, समर्थानां प्रथमाद्वा
वृत्तिः
तारकाः संजाता अस्य तारकितं नभः। पण्डितः। आकृतिगणोऽयम्॥
हिन्दी अनुवाद
'वह इसमें उत्पन्न हुआ है' अर्थ में तारका आदि से इतच् होता है। तारकाः सञ्जाताः अस्य = तारकितं नभः; पण्डितः। यह आकृतिगण है।
सरल व्याख्या
तारकितम् (तारों से भरा आकाश), पण्डितः (जिसमें पण्डा = बुद्धि उत्पन्न हुई), पुष्पितः, फलितः।
११६२ विधिसूत्रम् अष्टा० 5.2.37
प्रमाणे द्वयसज्दघ्नञ्मात्रचः ॥
अनुवृत्ति/अधिकार: तत्, अस्य, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, समर्थानां प्रथमाद्वा
वृत्तिः
तदस्येत्यनुवर्तते। ऊरू प्रमाणमस्य - ऊरुद्वयसम्। ऊरुदघ्नम्। ऊरुमात्रम्॥
हिन्दी अनुवाद
प्रमाण (माप) अर्थ में द्वयसच्, दघ्नच्, मात्रच् होते हैं; 'तदस्य' की अनुवृत्ति। ऊरू प्रमाणम् अस्य = ऊरुद्वयसम्, ऊरुदघ्नम्, ऊरुमात्रम्।
सरल व्याख्या
जानुदघ्नम् (घुटने भर गहरा), ऊरुमात्रम् (जाँघ भर)।
११६३ विधिसूत्रम् अष्टा० 5.2.39
यद्तदेतेभ्यः परिमाणे वतुप् ॥
अनुवृत्ति/अधिकार: प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, समर्थानां प्रथमाद्वा
वृत्तिः
यत्परिमाणमस्य यावान् । तावान् । एतावान् ॥
हिन्दी अनुवाद
यद्, तद्, एतद् से परिमाण अर्थ में वतुप् होता है। यत् परिमाणम् अस्य = यावान्; तावान्, एतावान्।
सरल व्याख्या
यावत् (जितना), तावत् (उतना), एतावत् (इतना)।
११६४ विधिसूत्रम् अष्टा० 5.2.40
किमिदंभ्यां वो घः ॥
अनुवृत्ति/अधिकार: वतुप्, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, समर्थानां प्रथमाद्वा
वृत्तिः
आभ्यां वतुप् स्याद् वकारस्य घश्च॥
हिन्दी अनुवाद
किम् और इदम् से वतुप् होता है और (उसके) व को घ।
सरल व्याख्या
किम् + वत् → कियत्।
११६५ विधिसूत्रम् अष्टा० 6.3.90
इदङ्किमोरीश्की ॥
अनुवृत्ति/अधिकार: दृक्-दृश-वतुषु, उत्तरपदे
वृत्तिः
दृग्दृशवतुषु इदम ईश् किमः किः। कियान्। इयान्॥
हिन्दी अनुवाद
दृक्, दृश, वतु परे रहते इदम् को ईश् और किम् को की होता है। कियान्, इयान्।
सरल व्याख्या
कियान् (कितना), इयान् (इतना)।
११६६ विधिसूत्रम् अष्टा० 5.2.42
संख्याया अवयवे तयप् ॥
अनुवृत्ति/अधिकार: प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, समर्थानां प्रथमाद्वा
वृत्तिः
पञ्च अवयवा अस्य पञ्चतमम् ॥
हिन्दी अनुवाद
संख्या से अवयव अर्थ में तयप् होता है। पञ्च अवयवाः अस्य = पञ्चतयम्।
सरल व्याख्या
पञ्चतयम् (पाँच अवयवों वाला)।
११६७ विधिसूत्रम् अष्टा० 5.2.43
द्वित्रिभ्यां तयस्यायज्वा ॥
अनुवृत्ति/अधिकार: प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, समर्थानां प्रथमाद्वा
वृत्तिः
द्वयम्। द्वितयम्। त्रयम्। त्रितयम्॥
हिन्दी अनुवाद
द्वि और त्रि से (परे) तयप् को विकल्प से अयच् होता है। द्वयम्, द्वितयम्; त्रयम्, त्रितयम्।
सरल व्याख्या
द्वयम् (जोड़ा), त्रयम् (तिकड़ी — वेदत्रयी)।
११६८ विधिसूत्रम् अष्टा० 5.2.44
उभादुदात्तो नित्यम् ॥
अनुवृत्ति/अधिकार: तयस्य, अयच्, वा, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, समर्थानां प्रथमाद्वा
वृत्तिः
उभशब्दात्तयपोऽयच् स्यात् स चाद्युदात्तः। उभयम्॥
हिन्दी अनुवाद
उभ शब्द से तयप् को नित्य अयच् होता है, और वह आद्युदात्त। उभयम्।
सरल व्याख्या
उभयम् (दोनों)।
११६९ विधिसूत्रम् अष्टा० 5.2.48
तस्य पूरणे डट् ॥
अनुवृत्ति/अधिकार: संख्यायाः, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, समर्थानां प्रथमाद्वा
वृत्तिः
एकादशानां पूरणः एकादशः॥
हिन्दी अनुवाद
'उसका पूरण' अर्थ में डट् होता है। एकादशानां पूरणः = एकादशः।
सरल व्याख्या
क्रमवाचक संख्या: एकादश (ग्यारहवाँ)।
११७० विधिसूत्रम् अष्टा० 5.2.49
नान्तादसंख्यादेर्मट् ॥
अनुवृत्ति/अधिकार: संख्यायाः, पूरणे, तस्य, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, समर्थानां प्रथमाद्वा
वृत्तिः
डटो मडागमः। पञ्चानां पूरणः पञ्चमः। नान्तात्किम्? विंशः ॥
हिन्दी अनुवाद
असंख्या-आदि नकारान्त (संख्या) से डट् को मट् आगम होता है। पञ्चानां पूरणः = पञ्चमः। नान्त क्यों? विंशः।
सरल व्याख्या
पञ्चमः (पाँचवाँ), सप्तमः, अष्टमः, नवमः, दशमः।
११७१ विधिसूत्रम् अष्टा० 6.4.142
ति विंशतेर्डिति ॥
अनुवृत्ति/अधिकार: अत्-लोपः, अङ्गस्य, असिद्धवदत्राभात्, भस्य
वृत्तिः
विंशतेर्भस्य तिशब्दस्य लोपो डिति परे। विंशः। असंख्यादेः किम्? एकादशः॥
हिन्दी अनुवाद
डित् परे रहते भ-संज्ञक विंशति के 'ति' शब्द का लोप होता है। विंशः। असंख्यादि क्यों? एकादशः।
सरल व्याख्या
विंशति → विंशः (बीसवाँ)।
११७२ विधिसूत्रम् अष्टा० 5.2.51
षट्कतिकतिपयचतुरां थुक् ॥
अनुवृत्ति/अधिकार: संख्यायाः, पूरणे, तस्य, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, समर्थानां प्रथमाद्वा
वृत्तिः
एषां थुगागमः स्याड्डटि। षण्णां षष्ठः। कतिथः। कतिपयशब्दस्यासंख्यात्वेऽप्यत एव ज्ञापकाड्डट्। कतिपयथः। चतुर्थः॥
हिन्दी अनुवाद
डट् परे रहते षट्, कति, कतिपय, चतुर् को थुक् आगम होता है। षण्णां षष्ठः; कतिथः; कतिपय के संख्या न होने पर भी इसी ज्ञापक से डट् — कतिपयथः; चतुर्थः।
सरल व्याख्या
षष्ठः (छठा), चतुर्थः (चौथा), कतिथः (कौन-सा)।
११७३ विधिसूत्रम् अष्टा० 5.2.54
द्वेस्तीयः ॥
अनुवृत्ति/अधिकार: संख्यायाः, तस्य, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, समर्थानां प्रथमाद्वा
वृत्तिः
डटोऽपवादः। द्वयोः पूरणो द्वितीयः॥
हिन्दी अनुवाद
द्वि से तीय होता है — डट् का अपवाद। द्वयोः पूरणः = द्वितीयः।
सरल व्याख्या
द्वितीयः (दूसरा)।
११७४ विधिसूत्रम् अष्टा० 5.2.55
त्रेः सम्प्रसारणं च ॥
अनुवृत्ति/अधिकार: संख्यायाः, तस्य, तीयः, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, समर्थानां प्रथमाद्वा
वृत्तिः
तृतीयः॥
हिन्दी अनुवाद
त्रि से (तीय) और सम्प्रसारण। तृतीयः।
सरल व्याख्या
तृतीयः (तीसरा)।
११७५ विधिसूत्रम् अष्टा० 5.2.84
श्रोत्रियंश्छन्दोऽधीते ॥
अनुवृत्ति/अधिकार: प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, समर्थानां प्रथमाद्वा
वृत्तिः
श्रोत्रियः। वेत्यनुवृत्तेश्छान्दसः॥
हिन्दी अनुवाद
'छन्दस् (वेद) पढ़ता है' अर्थ में 'श्रोत्रिय' (निपातन)। श्रोत्रियः; 'वा' की अनुवृत्ति से छान्दसः।
सरल व्याख्या
श्रोत्रियः (वेदपाठी ब्राह्मण), छान्दसः।
११७६ विधिसूत्रम् अष्टा० 5.2.86
पूर्वादिनिः ॥
अनुवृत्ति/अधिकार: अनेन, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, समर्थानां प्रथमाद्वा
वृत्तिः
पूर्वं कृतमनेन पूर्वी॥
हिन्दी अनुवाद
पूर्व से इनि होता है। पूर्वं कृतम् अनेन = पूर्वी।
सरल व्याख्या
पूर्वी (जिसने पहले किया)।
११७७ विधिसूत्रम् अष्टा० 5.2.87
सपूर्वाच्च ॥
अनुवृत्ति/अधिकार: अनेन, पूर्वात्, इनिः, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, समर्थानां प्रथमाद्वा
वृत्तिः
कृतपूर्वी॥
हिन्दी अनुवाद
स-पूर्व (पूर्व-अन्त) से भी (इनि)। कृतपूर्वी।
सरल व्याख्या
कृतपूर्वी (जिसने पहले कर लिया हो)।
११७८ विधिसूत्रम् अष्टा० 5.2.88
इष्टादिभ्यश्च ॥
अनुवृत्ति/अधिकार: अनेन, इनिः, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, समर्थानां प्रथमाद्वा
वृत्तिः
इष्टमनेन इष्टी । अधीती ॥ इति भवनाद्यर्थकाः ॥ १२ ॥
हिन्दी अनुवाद
इष्ट आदि से भी (इनि)। इष्टम् अनेन = इष्टी; अधीती। (भवन आदि अर्थ समाप्त।)
सरल व्याख्या
अधीती (जिसने अध्ययन कर लिया), इष्टी (जिसने यज्ञ कर लिया)।

मूल पाठ: लघुसिद्धान्तकौमुदी (वरदराजाचार्य) — डिजिटल पाठ-स्रोत ashtadhyayi.com · हिन्दी अनुवाद व सरल व्याख्या: cdsharma.in

💬 ज्योतिषीय प्रश्न पूछें