📜 लघुसिद्धान्तकौमुदी
वरदराजाचार्य कृत · पाणिनीय सूत्र, मूल वृत्ति, हिन्दी अनुवाद एवं सरल व्याख्या
← सभी प्रकरण
५६. मत्वर्थीयाः
मत्वर्थीय (वाला अर्थ) · सूत्र 1179–1190 (12)
मूल वृत्ति
हिन्दी अनुवाद
सरल व्याख्या
११७९
विधिसूत्रम् अष्टा० 5.2.94
तदस्यास्त्यस्मिन्निति मतुप् ॥
अनुवृत्ति/अधिकार: प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, समर्थानां प्रथमाद्वा
वृत्तिः
गावोऽस्यास्मिन्वा सन्ति गोमान् ॥
हिन्दी अनुवाद
'वह इसका है' या 'वह इसमें है' अर्थ में मतुप् होता है। गावः अस्य अस्मिन् वा सन्ति = गोमान्।
सरल व्याख्या
मत्वर्थीय (वाला): मतुप् (मत्/वत्): गोमान् (गायों वाला), श्रीमान्, बुद्धिमान्, धनवान्।
११८०
संज्ञासूत्रम् · भसंज्ञा अष्टा० 1.4.19
तसौ मत्वर्थे ॥
अनुवृत्ति/अधिकार: भम्, आकडारात् एका संज्ञा
वृत्तिः
तान्तसान्तौ भसंज्ञौ स्तो मत्वर्थे प्रत्यये परे। गरुत्मान्। वसोः संप्रसारणम्। विदुष्मान्। «गुणवचनेभ्यो मतुपो लुगिष्टः» (वार्त्तिकम्) । शुक्लो गुणोऽस्यास्तीति शुक्लः पटः। कृष्णः॥
हिन्दी अनुवाद
मतु-अर्थक प्रत्यय परे रहते तकारान्त और सकारान्त भ-संज्ञक होते हैं। गरुत्मान्; वसु को सम्प्रसारण — विदुष्मान्। (वार्तिक) गुणवचनों से मतुप् का लुक् इष्ट है — शुक्लः गुणः अस्य अस्ति इति शुक्लः पटः; कृष्णः।
सरल व्याख्या
गरुत्मान् (पंखों वाला — गरुड़)। 'सफेद कपड़ा' = शुक्लः पटः (शुक्लवान् नहीं)।
११८१
विधिसूत्रम् अष्टा० 5.2.96
प्राणिस्थादातो लजन्यतरस्याम् ॥
अनुवृत्ति/अधिकार: तत्, अस्य, अस्ति, अस्मिन्, इति, मतुप्, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, समर्थानां प्रथमाद्वा
वृत्तिः
चूडालः। चूडावान्। प्राणिस्थात्किम्? शिखावान् दीपः। प्राण्यङ्गादेव। मेधावान्॥
हिन्दी अनुवाद
प्राणी में स्थित (अर्थ वाले) आकारान्त (शब्द) से विकल्प से लच् होता है। चूडालः, चूडावान्। प्राणिस्थ क्यों? शिखावान् दीपः। प्राणी के अङ्ग से ही — मेधावान्।
सरल व्याख्या
चूडालः (चोटी वाला)।
११८२
विधिसूत्रम् अष्टा० 5.2.100
लोमादिपामादिपिच्छादिभ्यः शनेलचः ॥
अनुवृत्ति/अधिकार: तत्, अस्य, अस्ति, अस्मिन्, इति, मतुप्, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, समर्थानां प्रथमाद्वा
वृत्तिः
लोमादिभ्यः शः। लोमशः। लोमवान्। रोमशः। रोमवान्। पामादिभ्यो नः। पामनः। «अङ्गात्कल्याणे» (गणसूत्रम्) । अङ्गना । «लक्ष्म्या अच्च» (गणसूत्रम्) । लक्ष्मणः। पिच्छादिभ्य इलच्। पिच्छिलः। पिच्छवान्॥
हिन्दी अनुवाद
लोम आदि, पामन् आदि, पिच्छ आदि से (क्रमशः) श, न, इलच् होते हैं। लोम आदि से श — लोमशः, लोमवान्, रोमशः, रोमवान्। पामन् आदि से न — पामनः; (गणसूत्र) अङ्ग से कल्याण अर्थ में — अङ्गना; (गणसूत्र) लक्ष्मी से अ भी — लक्ष्मणः। पिच्छ आदि से इलच् — पिच्छिलः, पिच्छवान्।
सरल व्याख्या
लोमशः (बालों वाला), अङ्गना (सुन्दर अङ्गों वाली स्त्री), लक्ष्मणः (लक्ष्मी/शोभा वाला), पिच्छिलः (फिसलन वाला)।
११८३
विधिसूत्रम् अष्टा० 5.2.106
दन्त उन्नत उरच् ॥
अनुवृत्ति/अधिकार: तत्, अस्य, अस्ति, अस्मिन्, इति, मतुप्, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, समर्थानां प्रथमाद्वा
वृत्तिः
उन्नता दन्ताः सन्त्यस्य दन्तुरः॥
हिन्दी अनुवाद
उन्नत दन्त (अर्थ) में उरच् होता है। उन्नताः दन्ताः सन्ति अस्य = दन्तुरः।
सरल व्याख्या
दन्तुरः (उभरे दाँतों वाला)।
११८४
विधिसूत्रम् अष्टा० 5.2.109
केशाद्वोऽन्यतरस्याम् ॥
अनुवृत्ति/अधिकार: तत्, अस्य, अस्ति, अस्मिन्, इति, मतुप्, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, समर्थानां प्रथमाद्वा
वृत्तिः
केशवः। केशी। केशिकः। केशवान्। «अन्येभ्योऽपि दृश्यते» (वार्त्तिकम्) । मणिवः। «अर्णसो लोपश्च» (वार्त्तिकम्)। अर्णवः॥
हिन्दी अनुवाद
केश से विकल्प से व होता है। केशवः, केशी, केशिकः, केशवान्। (वार्तिक) अन्यों से भी देखा जाता है — मणिवः। (वार्तिक) अर्णस् से (व) और लोप — अर्णवः।
सरल व्याख्या
केशवः (सुन्दर केशों वाला — कृष्ण), अर्णवः (जल वाला — समुद्र)।
११८५
विधिसूत्रम् अष्टा० 5.2.115
अत इनिठनौ ॥
अनुवृत्ति/अधिकार: तत्, अस्य, अस्ति, अस्मिन्, इति, मतुप्, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, समर्थानां प्रथमाद्वा
हिन्दी अनुवाद
अदन्त से इनि और ठन् होते हैं। दण्डी, दण्डिकः।
सरल व्याख्या
इन्/इक: दण्डी (दण्डधारी), धनी, गुणी, ज्ञानी, सुखी।
११८६
विधिसूत्रम् अष्टा० 5.2.116
व्रीह्यादिभ्यश्च ॥
अनुवृत्ति/अधिकार: तत्, अस्य, अस्ति, अस्मिन्, इति, मतुप्, इनिठनौ, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, समर्थानां प्रथमाद्वा
हिन्दी अनुवाद
व्रीहि आदि से भी (इनि, ठन्)। व्रीही, व्रीहिकः।
सरल व्याख्या
व्रीही (धान वाला)।
११८७
विधिसूत्रम् अष्टा० 5.2.121
अस्मायामेधास्रजो विनिः ॥
अनुवृत्ति/अधिकार: तत्, अस्य, अस्ति, अस्मिन्, इति, मतुप्, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, समर्थानां प्रथमाद्वा
वृत्तिः
यशस्वी। यशस्वान्। मायावी। मेधावी। स्रग्वी॥
हिन्दी अनुवाद
अस्-अन्त, माया, मेधा, स्रज् से विनि होता है। यशस्वी, यशस्वान्; मायावी, मेधावी, स्रग्वी।
सरल व्याख्या
विन् (वी): यशस्वी, तेजस्वी, तपस्वी, मेधावी, मायावी।
११८८
विधिसूत्रम् अष्टा० 5.2.124
वाचो ग्मिनिः ॥
अनुवृत्ति/अधिकार: तत्, अस्य, अस्ति, अस्मिन्, इति, मतुप्, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, समर्थानां प्रथमाद्वा
हिन्दी अनुवाद
वाच् से ग्मिनि होता है। वाग्ग्मी।
सरल व्याख्या
वाग्मी (सुन्दर वाणी वाला — वक्ता)।
११८९
विधिसूत्रम् अष्टा० 5.2.127
अर्शआदिभ्योऽच् ॥
अनुवृत्ति/अधिकार: तत्, अस्य, अस्ति, अस्मिन्, इति, मतुप्, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, समर्थानां प्रथमाद्वा
वृत्तिः
अर्शोऽस्य विद्यते अर्शसः। आकृतिगणोऽयम्॥
हिन्दी अनुवाद
अर्शस् आदि से अच् होता है। अर्शः अस्य विद्यते = अर्शसः। यह आकृतिगण है।
सरल व्याख्या
अर्शसः (बवासीर रोगी)।
११९०
विधिसूत्रम् अष्टा० 5.2.140
अहंशुभमोर्युस् ॥
अनुवृत्ति/अधिकार: तत्, अस्य, अस्ति, अस्मिन्, इति, मतुप्, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, समर्थानां प्रथमाद्वा
वृत्तिः
अहंयुः अहङ्कारवान् । शुभंयुस्तु शुभान्वितः ॥ इति मत्वर्थीयाः ॥ १३ ॥
हिन्दी अनुवाद
अहम् और शुभम् से युस् होता है। अहंयुः = अहंकारी; शुभंयुः = शुभ से युक्त। (मत्वर्थीय समाप्त।)
सरल व्याख्या
अहंयुः (अहंकारी), शुभंयुः (कल्याणयुक्त)। (मत्वर्थीय पूर्ण।)
मूल पाठ: लघुसिद्धान्तकौमुदी (वरदराजाचार्य) — डिजिटल पाठ-स्रोत ashtadhyayi.com · हिन्दी अनुवाद व सरल व्याख्या: cdsharma.in