🕉️ 16 October 2026, Friday · 05:21:32 AM · CDSHARMA.IN

📜 लघुसिद्धान्तकौमुदी

वरदराजाचार्य कृत · पाणिनीय सूत्र, मूल वृत्ति, हिन्दी अनुवाद एवं सरल व्याख्या

← सभी प्रकरण

५७. प्राग्दिशीयाः

प्राग्दिशीय (विभक्ति-संज्ञक) · सूत्र 1191–1210 (20)
११९१ संज्ञासूत्रम् · विभक्तिसंज्ञा अष्टा० 5.3.1
प्राग्दिशो विभक्तिः ॥
अनुवृत्ति/अधिकार: प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्दिशो विभक्तिः, वा
वृत्तिः
दिक्छब्देभ्य इत्यतः प्राग्वक्ष्यमाणाः प्रत्यया विभक्तिसंज्ञाः स्युः ॥
हिन्दी अनुवाद
'दिक्छब्देभ्यः' से पहले कहे जाने वाले प्रत्यय 'विभक्ति' संज्ञक होते हैं।
सरल व्याख्या
प्राग्दिशीय: कुतः, तत्र, यदा, कथम् आदि अव्यय बनाने वाले प्रत्यय विभक्ति-संज्ञक हैं।
११९२ अधिकारसूत्रम् · किंसर्वनामादिप्रकृत्यधिकारः अष्टा० 5.3.2
किंसर्वनामबहुभ्योऽद्व्यादिभ्यः ॥
अनुवृत्ति/अधिकार: प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्दिशो विभक्तिः, किंसर्वनामबहुभ्योऽद्व्यादिभ्यः, वा
वृत्तिः
किमः सर्वनाम्नो बहुशब्दाच्चेति प्राग्दिशोऽधिक्रियते ॥
हिन्दी अनुवाद
किम्, सर्वनाम और बहु शब्द से (ये प्रत्यय होते हैं), द्वि आदि को छोड़कर — यह प्राग्दिश तक अधिकार है।
सरल व्याख्या
ये प्रत्यय किम्, तद्, यद्, सर्व, बहु आदि से लगते हैं।
११९३ विधिसूत्रम् अष्टा० 5.3.7
पञ्चम्यास्तसिल् ॥
अनुवृत्ति/अधिकार: किं-सर्वनाम-बहुभ्यः, अद्व्यादिभ्यः, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्दिशो विभक्तिः, किंसर्वनामबहुभ्योऽद्व्यादिभ्यः, वा
वृत्तिः
पञ्चम्यन्तेभ्यः किमादिभ्यस्तसिल् वा स्यात्॥
हिन्दी अनुवाद
पञ्चम्यन्त किम् आदि से विकल्प से तसिल् होता है।
सरल व्याख्या
तसिल् (तः) = पञ्चमी अर्थ: ततः (उससे/वहाँ से)।
११९४ विधिसूत्रम् अष्टा० 7.2.104
कु तिहोः ॥
अनुवृत्ति/अधिकार: विभक्तौ, किमः, अङ्गस्य
वृत्तिः
किमः कुः स्यात्तादौ हादौ च विभक्तौ परतः। कुतः, कस्मात्॥
हिन्दी अनुवाद
तकारादि और हकारादि विभक्ति परे रहते किम् को कु होता है। कुतः, कस्मात्।
सरल व्याख्या
कुतः (कहाँ से / क्यों) = कस्मात्।
११९५ विधिसूत्रम् अष्टा० 5.3.3
इदम इश् ॥
अनुवृत्ति/अधिकार: किं-सर्वनाम-बहुभ्यः, अद्व्यादिभ्यः, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्दिशो विभक्तिः, किंसर्वनामबहुभ्योऽद्व्यादिभ्यः, वा
वृत्तिः
प्राग्दिशीये परे । इतः ॥
हिन्दी अनुवाद
प्राग्दिशीय (प्रत्यय) परे रहते इदम् को इश् होता है। इतः।
सरल व्याख्या
इतः (यहाँ से)।
११९६ विधिसूत्रम् अष्टा० 5.3.5
एतदोऽन् ॥
अनुवृत्ति/अधिकार: किं-सर्वनाम-बहुभ्यः, अद्व्यादिभ्यः, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्दिशो विभक्तिः, किंसर्वनामबहुभ्योऽद्व्यादिभ्यः, वा
वृत्तिः
एतदः प्राग्दिशीये। अनेकाल्त्वात्सर्वादेशः। अतः। अमुतः। यतः। ततः। बहुतः। द्व्यादेस्तु द्वाभ्याम्॥
हिन्दी अनुवाद
प्राग्दिशीय में एतद् को अन् होता है; अनेक-वर्ण होने से सर्वादेश। अतः। अमुतः, यतः, ततः, बहुतः। द्वि आदि का तो — द्वाभ्याम्।
सरल व्याख्या
अतः (इसलिए / यहाँ से), यतः (जहाँ से / क्योंकि), ततः (वहाँ से / तब), अमुतः।
११९७ विधिसूत्रम् अष्टा० 5.3.9
पर्यभिभ्यां च ॥
अनुवृत्ति/अधिकार: किं-सर्वनाम-बहुभ्यः, अद्व्यादिभ्यः, तसिल्, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्दिशो विभक्तिः, किंसर्वनामबहुभ्योऽद्व्यादिभ्यः, वा
वृत्तिः
आभ्यां तसिल् स्यात्। परितः। सर्वत इत्यर्थः। अभितः। उभयत इत्यर्थः॥
हिन्दी अनुवाद
परि और अभि से (भी) तसिल् होता है। परितः — अर्थात् सब ओर; अभितः — अर्थात् दोनों ओर।
सरल व्याख्या
परितः (चारों ओर), अभितः (दोनों ओर)।
११९८ विधिसूत्रम् अष्टा० 5.3.10
सप्तम्यास्त्रल् ॥
अनुवृत्ति/अधिकार: किं-सर्वनाम-बहुभ्यः, अद्व्यादिभ्यः, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्दिशो विभक्तिः, किंसर्वनामबहुभ्योऽद्व्यादिभ्यः, वा
वृत्तिः
कुत्र। यत्र। तत्र। बहुत्र॥
हिन्दी अनुवाद
सप्तम्यन्त से त्रल् होता है। कुत्र, यत्र, तत्र, बहुत्र।
सरल व्याख्या
त्र = सप्तमी अर्थ: कुत्र (कहाँ), यत्र (जहाँ), तत्र (वहाँ), सर्वत्र।
११९९ विधिसूत्रम् अष्टा० 5.3.11
इदमो हः ॥
अनुवृत्ति/अधिकार: किं-सर्वनाम-बहुभ्यः, अद्व्यादिभ्यः, सप्तम्याः, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्दिशो विभक्तिः, किंसर्वनामबहुभ्योऽद्व्यादिभ्यः, वा
वृत्तिः
त्रलोऽपवादः। इह॥
हिन्दी अनुवाद
इदम् से ह होता है — त्रल् का अपवाद। इह।
सरल व्याख्या
इह (यहाँ)।
१२०० विधिसूत्रम् अष्टा० 5.3.12
किमोऽत् ॥
अनुवृत्ति/अधिकार: किं-सर्वनाम-बहुभ्यः, अद्व्यादिभ्यः, सप्तम्याः, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्दिशो विभक्तिः, किंसर्वनामबहुभ्योऽद्व्यादिभ्यः, वा
वृत्तिः
वाग्रहणमपकृष्यते। सप्तम्यन्तात्किमोऽद्वा स्यात् पक्षे त्रल्॥
हिन्दी अनुवाद
'वा' ग्रहण का अपकर्ष। सप्तम्यन्त किम् से विकल्प से अत् होता है, पक्ष में त्रल्।
सरल व्याख्या
किम् से 'अ' (क्व) या 'त्र' (कुत्र)।
१२०१ विधिसूत्रम् अष्टा० 7.2.105
क्वाति ॥
अनुवृत्ति/अधिकार: विभक्तौ, किमः, अङ्गस्य
वृत्तिः
किमः क्वादेशः स्यादति। क्व। कुत्र॥
हिन्दी अनुवाद
अत् परे रहते किम् को क्व आदेश होता है। क्व, कुत्र।
सरल व्याख्या
क्व (कहाँ) = कुत्र।
१२०२ विधिसूत्रम् अष्टा० 5.3.14
इतराभ्योऽपि दृश्यन्ते ॥
अनुवृत्ति/अधिकार: किं-सर्वनाम-बहुभ्यः, अद्व्यादिभ्यः, सप्तम्याः, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्दिशो विभक्तिः, किंसर्वनामबहुभ्योऽद्व्यादिभ्यः, वा
वृत्तिः
पञ्चमीसप्तमीतरविभक्त्यन्तादपि तसिलादयो दृश्यन्ते। दृशिग्रहणाद्भवदादियोग एव। स भवान्। ततो भवान्। तत्र भवान्। तं भवन्तम्। ततो भवन्तम्। तत्र भवन्तम्। एवं दीर्घायुः, देवानाम्प्रियः, आयुष्मान्॥
हिन्दी अनुवाद
पञ्चमी-सप्तमी से भिन्न विभक्ति वाले (शब्दों) से भी तसिल् आदि देखे जाते हैं। 'दृश्' ग्रहण से 'भवत्' आदि के योग में ही। स भवान्, ततो भवान्, तत्र भवान्; तं भवन्तम्, ततो भवन्तम्, तत्र भवन्तम्। इसी प्रकार दीर्घायुः, देवानांप्रियः, आयुष्मान्।
सरल व्याख्या
आदरार्थ में: तत्रभवान् (आदरणीय वे), अत्रभवान् (आदरणीय आप) — प्रथमा/द्वितीया अर्थ में भी 'तत्र'।
१२०३ विधिसूत्रम् अष्टा० 5.3.15
सर्वैकान्यकिंयत्तदः काले दा ॥
अनुवृत्ति/अधिकार: किं-सर्वनाम-बहुभ्यः, अद्व्यादिभ्यः, सप्तम्याः, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्दिशो विभक्तिः, किंसर्वनामबहुभ्योऽद्व्यादिभ्यः, वा
वृत्तिः
सप्तम्यन्तेभ्यः कालार्थेभ्यः स्वार्थे दा स्यात्॥
हिन्दी अनुवाद
सर्व, एक, अन्य, किम्, यद्, तद् — इन काल-अर्थक सप्तम्यन्तों से स्वार्थ में दा होता है।
सरल व्याख्या
दा = 'समय' अर्थ: यदा (जब), तदा (तब), कदा (कब)।
१२०४ विधिसूत्रम् अष्टा० 5.3.6
सर्वस्य सोऽन्यतरस्यां दि ॥
अनुवृत्ति/अधिकार: किं-सर्वनाम-बहुभ्यः, अद्व्यादिभ्यः, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्दिशो विभक्तिः, किंसर्वनामबहुभ्योऽद्व्यादिभ्यः, वा
वृत्तिः
दादौ प्राग्दिशीये सर्वस्य सो वा स्यात्। सर्वस्मिन् काले सदा सर्वदा। अन्यदा। कदा। यदा। तदा। काले किम्? सर्वत्र देशे॥
हिन्दी अनुवाद
दकारादि प्राग्दिशीय परे रहते सर्व को विकल्प से स होता है। सर्वस्मिन् काले = सदा, सर्वदा; अन्यदा, कदा, यदा, तदा। काल क्यों? सर्वत्र देशे।
सरल व्याख्या
सदा / सर्वदा (हमेशा), अन्यदा (दूसरे समय), एकदा (एक बार)।
१२०५ विधिसूत्रम् अष्टा० 5.3.16
इदमो र्हिल् ॥
अनुवृत्ति/अधिकार: अद्व्यादिभ्यः, किं-सर्वनाम-बहुभ्यः, सप्तम्याः, काले, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्दिशो विभक्तिः, किंसर्वनामबहुभ्योऽद्व्यादिभ्यः, वा
वृत्तिः
सप्तम्यन्तात् काल इत्येव॥
हिन्दी अनुवाद
(काल-अर्थक) सप्तम्यन्त इदम् से र्हिल् होता है।
सरल व्याख्या
इदम् + र्हि → एतर्हि (इस समय)।
१२०६ विधिसूत्रम् अष्टा० 5.3.4
एतेतौ रथोः ॥
अनुवृत्ति/अधिकार: किं-सर्वनाम-बहुभ्यः, अद्व्यादिभ्यः, इदमः, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्दिशो विभक्तिः, किंसर्वनामबहुभ्योऽद्व्यादिभ्यः, वा
वृत्तिः
इदम् शब्दस्य एत इत् इत्यादेशौ स्तौ रेफादौ थकारादौ च प्राग्दिशीये परे। अस्मिन् काले एतर्हि। काले किम्? इह देशे॥
हिन्दी अनुवाद
रेफादि और थकारादि प्राग्दिशीय परे रहते इदम् को (क्रमशः) एत और इत् आदेश होते हैं। अस्मिन् काले = एतर्हि। काल क्यों? इह देशे।
सरल व्याख्या
एतर्हि (इस समय), इत्थम् (इस प्रकार)।
१२०७ विधिसूत्रम् अष्टा० 5.3.21
अनद्यतने र्हिलन्यतरस्याम् ॥
अनुवृत्ति/अधिकार: अद्व्यादिभ्यः, किं-सर्वनाम-बहुभ्यः, सप्तम्याः, काले, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्दिशो विभक्तिः, किंसर्वनामबहुभ्योऽद्व्यादिभ्यः, वा
वृत्तिः
कर्हि, कदा। यर्हि, यदा। तर्हि, तदा॥ «एतदोऽन्» [1196] इत्यत्र 'एतद्' इति योगविभागः । एत इत् एतौ स्तौ रेफादौ थादौ च प्राग्दिशीये। एतस्मिन् काले एतर्हि॥
हिन्दी अनुवाद
अनद्यतन (काल) में विकल्प से र्हिल् होता है। कर्हि/कदा, यर्हि/यदा, तर्हि/तदा। 'एतदोऽन्' में 'एतद्' का योगविभाग — एत और इत् रेफादि-थादि प्राग्दिशीय में — एतस्मिन् काले = एतर्हि।
सरल व्याख्या
तर्हि (तब/तो), कर्हि (कब) — 'तर्हि' का प्रयोग 'तो फिर' अर्थ में भी।
१२०८ विधिसूत्रम् अष्टा० 5.3.23
प्रकारवचने थाल् ॥
अनुवृत्ति/अधिकार: किं-सर्वनाम-बहुभ्यः, अद्व्यादिभ्यः, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्दिशो विभक्तिः, किंसर्वनामबहुभ्योऽद्व्यादिभ्यः, वा
वृत्तिः
प्रकारवृत्तिभ्यः किमादिभ्यस्थाल् स्यात् स्वार्थे। तेन प्रकारेण तथा। यथा॥
हिन्दी अनुवाद
प्रकार अर्थ वाले किम् आदि से स्वार्थ में थाल् होता है। तेन प्रकारेण = तथा; यथा।
सरल व्याख्या
था = 'प्रकार' अर्थ: यथा (जैसे), तथा (वैसे), सर्वथा, अन्यथा।
१२०९ विधिसूत्रम् अष्टा० 5.3.24
इदमस्थमुः ॥
अनुवृत्ति/अधिकार: किं-सर्वनाम-बहुभ्यः, अद्व्यादिभ्यः, प्रकारवचने, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्दिशो विभक्तिः, किंसर्वनामबहुभ्योऽद्व्यादिभ्यः, वा
वृत्तिः
थालोऽपवादः। «एतदोऽपि वाच्यः» (वार्त्तिकम्)। अनेन एतेन वा प्रकारेण इत्थम्॥
हिन्दी अनुवाद
इदम् से थमु होता है — थाल् का अपवाद। (वार्तिक) एतद् से भी कहना चाहिए। अनेन एतेन वा प्रकारेण = इत्थम्।
सरल व्याख्या
इत्थम् (इस प्रकार)।
१२१० विधिसूत्रम् अष्टा० 5.3.25
किमश्च ॥
अनुवृत्ति/अधिकार: अद्व्यादिभ्यः, किं-सर्वनाम-बहुभ्यः, प्रकारवचने, थमुः, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्राग्दिशो विभक्तिः, किंसर्वनामबहुभ्योऽद्व्यादिभ्यः, वा
वृत्तिः
केन प्रकारेण कथम् ॥ इति प्राग्दिशीयाः ॥ १४ ॥
हिन्दी अनुवाद
किम् से भी (थमु)। केन प्रकारेण = कथम्। (प्राग्दिशीय समाप्त।)
सरल व्याख्या
कथम् (कैसे)। (प्राग्दिशीय पूर्ण।)

मूल पाठ: लघुसिद्धान्तकौमुदी (वरदराजाचार्य) — डिजिटल पाठ-स्रोत ashtadhyayi.com · हिन्दी अनुवाद व सरल व्याख्या: cdsharma.in

💬 ज्योतिषीय प्रश्न पूछें