🕉️ 16 October 2026, Friday · 05:20:36 AM · CDSHARMA.IN

📜 लघुसिद्धान्तकौमुदी

वरदराजाचार्य कृत · पाणिनीय सूत्र, मूल वृत्ति, हिन्दी अनुवाद एवं सरल व्याख्या

← सभी प्रकरण

५८. प्रागिवीयाः

प्रागिवीय (तर-तम आदि) · सूत्र 1211–1230 (20)
१२११ विधिसूत्रम् अष्टा० 5.3.55
अतिशायने तमबिष्ठनौ ॥
अनुवृत्ति/अधिकार: प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, वा
वृत्तिः
अतिशयविशिष्टार्थवृत्तेः स्वार्थ एतौ स्तः । अयमेषामतिशयेनाढ्यः आढ्यतमः । लघुतमः, लघिष्ठः ॥
हिन्दी अनुवाद
अतिशय से युक्त अर्थ वाले (शब्द) से स्वार्थ में तमप् और इष्ठन् होते हैं। अयम् एषाम् अतिशयेन आढ्यः = आढ्यतमः; लघुतमः, लघिष्ठः।
सरल व्याख्या
सर्वश्रेष्ठता (superlative): तम / इष्ठ: लघुतमः / लघिष्ठः (सबसे हल्का), प्रियतमः, बलिष्ठः।
१२१२ विधिसूत्रम् अष्टा० 5.3.56
तिङश्च ॥
अनुवृत्ति/अधिकार: तमप्-इष्ठनौ, अतिशायने, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, वा
वृत्तिः
तिङन्तादतिशये द्योत्ये तमप् स्यात्॥
हिन्दी अनुवाद
अतिशय द्योत्य होने पर तिङन्त से (भी) तमप् होता है।
सरल व्याख्या
क्रिया से भी: पचतितमाम् (सबसे अच्छा पकाता है)।
१२१३ संज्ञासूत्रम् · घसंज्ञा अष्टा० 1.1.22
तरप्तमपौ घः ॥
वृत्तिः
एतौ घसंज्ञौ स्तः॥
हिन्दी अनुवाद
तरप् और तमप् 'घ' संज्ञक होते हैं।
सरल व्याख्या
तर और तम का सामूहिक नाम 'घ'।
१२१४ विधिसूत्रम् अष्टा० 5.4.11
किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे ॥
अनुवृत्ति/अधिकार: प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, वा
वृत्तिः
किम एदन्तात्तिङोऽव्ययाच्च यो घस्तदन्तादामुः स्यान्न तु द्रव्यप्रकर्षे। किन्तमाम्। प्राह्णेतमाम्। पचतिमाम्। उच्चैस्तमाम्। द्रव्यप्रकर्षे तु उच्चैस्तमस्तरुः॥
हिन्दी अनुवाद
किम्, एकारान्त, तिङ् और अव्यय से जो घ (तरप्/तमप्), तदन्त से आमु होता है, पर द्रव्य के प्रकर्ष में नहीं। किन्तमाम्, प्राह्णेतमाम्, पचतितमाम्, उच्चैस्तमाम्। द्रव्य-प्रकर्ष में तो — उच्चैस्तमः तरुः।
सरल व्याख्या
अव्यय/क्रिया से तम के बाद 'आम्': उच्चैस्तमाम् (सबसे ऊँचे स्वर में)। पर 'सबसे ऊँचा वृक्ष' = उच्चैस्तमः तरुः।
१२१५ विधिसूत्रम् अष्टा० 5.3.57
द्विवचनविभज्योपपदे तरबीयसुनौ ॥
अनुवृत्ति/अधिकार: अतिशायने, तिङः, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, वा
वृत्तिः
द्वयोरेकस्यातिशये विभक्तव्ये चोपपदे सुप्तिङन्तादेतौ स्तः। पूर्वयोरपवादः। अयमनयोरतिशयेन लघुः लघुतरो लघीयान्। उदीच्याः प्राच्येभ्यः पटुतराः पटीयांसः॥
हिन्दी अनुवाद
दो में से एक का अतिशय (कहना) हो, और विभाग करने योग्य उपपद हो, तो सुबन्त-तिङन्त से तरप् और ईयसुन् होते हैं — पूर्व (तमप्-इष्ठन्) के अपवाद। अयम् अनयोः अतिशयेन लघुः = लघुतरः, लघीयान्; उदीच्याः प्राच्येभ्यः पटुतराः, पटीयांसः।
सरल व्याख्या
तुलना (comparative): तर / ईयस्: लघुतरः / लघीयान् (दोनों में हल्का), गरीयान्, श्रेयान्।
१२१६ विधिसूत्रम् अष्टा० 5.3.60
प्रशस्यस्य श्रः ॥
अनुवृत्ति/अधिकार: तिङः, अजादी, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, वा
वृत्तिः
अस्य श्रादेशः स्यादजाद्योः परतः॥
हिन्दी अनुवाद
अजादि (इष्ठ, ईयस्) परे रहते प्रशस्य को 'श्र' आदेश होता है।
सरल व्याख्या
प्रशस्य → श्र + इष्ठ → श्रेष्ठ।
१२१७ विधिसूत्रम् अष्टा० 6.4.163
प्रकृत्यैकाच् ॥
अनुवृत्ति/अधिकार: इष्ठ-इमन्-ईयस्सु, अङ्गस्य, असिद्धवदत्राभात्, भस्य
वृत्तिः
इष्ठादिष्वेकाच् प्रकृत्या स्यात्। श्रेष्ठः, श्रेयान्॥
हिन्दी अनुवाद
इष्ठ आदि में एकाच् (शब्द) प्रकृति से रहता है। श्रेष्ठः, श्रेयान्।
सरल व्याख्या
श्रेष्ठः (सबसे उत्तम), श्रेयान् (दोनों में उत्तम) — 'श्रेयस्' (कल्याण) इसी से।
१२१८ विधिसूत्रम् अष्टा० 5.3.61
ज्य च ॥
अनुवृत्ति/अधिकार: तिङः, अजादी, प्रशस्यस्य, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, वा
वृत्तिः
प्रशस्यस्य ज्यादेशः स्यादिष्ठेयसोः। ज्येष्ठः॥
हिन्दी अनुवाद
इष्ठ और ईयस् परे रहते प्रशस्य को 'ज्य' आदेश भी होता है। ज्येष्ठः।
सरल व्याख्या
ज्येष्ठः (सबसे बड़ा)।
१२१९ विधिसूत्रम् अष्टा० 6.4.160
ज्यादादीयसः ॥
अनुवृत्ति/अधिकार: इष्ठ-इमन्-ईयस्सु, अङ्गस्य, असिद्धवदत्राभात्, भस्य
वृत्तिः
आदेः परस्य। ज्यायान्॥
हिन्दी अनुवाद
ज्य से परे ईयस् के आदि को आ होता है। ज्यायान्।
सरल व्याख्या
ज्यायान् (दोनों में बड़ा)।
१२२० विधिसूत्रम् अष्टा० 6.4.158
बहोर्लोपो भू च बहोः ॥
अनुवृत्ति/अधिकार: इष्ठ-इमन्-ईयस्सु, अङ्गस्य, असिद्धवदत्राभात्, भस्य
वृत्तिः
बहोः परयोरिमेयसोर्लोपः स्याद्बहोश्च भूरादेशः। भूमा। भूयान्॥
हिन्दी अनुवाद
बहु से परे इमन् और ईयस् (के आदि) का लोप होता है और बहु को भू आदेश। भूमा, भूयान्।
सरल व्याख्या
बहु → भूयान् (अधिक), भूमा (बहुलता)।
१२२१ विधिसूत्रम् अष्टा० 6.4.159
इष्ठस्य यिट् च ॥
अनुवृत्ति/अधिकार: इष्ठ-इमन्-ईयस्सु, बहोः, भू, बहोः, अङ्गस्य, असिद्धवदत्राभात्, भस्य
वृत्तिः
बहोः परस्य इष्ठस्य लोपः स्याद् यिडागमश्च। भूयिष्ठः॥
हिन्दी अनुवाद
बहु से परे इष्ठ (के इ) का लोप होता है और यिट् आगम। भूयिष्ठः।
सरल व्याख्या
भूयिष्ठः (सबसे अधिक)।
१२२२ विधिसूत्रम् अष्टा० 5.3.65
विन्मतोर्लुक् ॥
अनुवृत्ति/अधिकार: तिङः, अजादी, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, वा
वृत्तिः
विनो मतुपश्च लुक् स्यादिष्ठेयसोः। अतिशयेन स्रग्वी स्रजिष्ठः। स्रजीयान्। अतिशयेन त्वग्वान् त्वचिष्ठः। त्वचीयान्॥
हिन्दी अनुवाद
इष्ठ और ईयस् परे रहते विन् और मतुप् का लुक् होता है। अतिशयेन स्रग्वी = स्रजिष्ठः, स्रजीयान्; अतिशयेन त्वग्वान् = त्वचिष्ठः, त्वचीयान्।
सरल व्याख्या
मतुप्/विन् वाले शब्दों में ये हट जाते हैं: बलवान् → बलिष्ठः, बलीयान्।
१२२३ विधिसूत्रम् अष्टा० 5.3.67
ईषदसमाप्तौ कल्पब्देश्यदेशीयरः ॥
अनुवृत्ति/अधिकार: तिङः, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, वा
वृत्तिः
ईषदूनो विद्वान् विद्वत्कल्पः। विद्वद्देश्यः। विद्वद्देशीयः। पचतिकल्पम्॥
हिन्दी अनुवाद
ईषत् असमाप्ति (थोड़ा कम) अर्थ में कल्पप्, देश्य, देशीयर् होते हैं। ईषत् ऊनः विद्वान् = विद्वत्कल्पः, विद्वद्देश्यः, विद्वद्देशीयः; पचतिकल्पम्।
सरल व्याख्या
विद्वत्कल्पः (लगभग विद्वान्), मृतकल्पः (मरा-सा)।
१२२४ विधिसूत्रम् अष्टा० 5.3.68
विभाषा सुपो बहुच् पुरस्तात्तु ॥
अनुवृत्ति/अधिकार: तिङः, ईषद्-असमाप्तौ, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, वा
वृत्तिः
ईषदसमाप्तिविशिष्टेऽर्थे सुबन्ताद्बहुज्वा स्यात्स च प्रागेव न तु परतः। ईषदूनः पटुर्बहुपटुः। पटुकल्पः। सुपः किम्? जयतिकल्पम्॥
हिन्दी अनुवाद
ईषत्-असमाप्ति से युक्त अर्थ में सुबन्त से विकल्प से बहुच् होता है, और वह पहले ही (लगता है), बाद में नहीं। ईषत् ऊनः पटुः = बहुपटुः, पटुकल्पः। सुप् क्यों? जयतिकल्पम्।
सरल व्याख्या
बहुपटुः (लगभग चतुर) — 'बहु' पहले जुड़ता है।
१२२५ अधिकारसूत्रम् · काधिकारः अष्टा० 5.3.70
प्रागिवात्कः ॥
अनुवृत्ति/अधिकार: तिङः, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्रागिवात्कः, वा
वृत्तिः
इवे प्रतिकृतावित्यतः प्राक्काधिकारः॥
हिन्दी अनुवाद
'इवे प्रतिकृतौ' से पहले तक क का अधिकार है।
सरल व्याख्या
आगे 'क' प्रत्यय (छोटा/अज्ञात/निन्दित अर्थ)।
१२२६ विधिसूत्रम् अष्टा० 5.3.71
अव्ययसर्वनाम्नामकच् प्राक् टेः ॥
अनुवृत्ति/अधिकार: तिङः, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्रागिवात्कः, वा
वृत्तिः
कापवादः। तिङश्चेत्यनुवर्तते॥
हिन्दी अनुवाद
अव्यय और सर्वनामों से टि से पहले अकच् होता है — क का अपवाद; 'तिङश्च' की अनुवृत्ति।
सरल व्याख्या
सर्वनाम में 'अक' बीच में घुसता है: सर्वे → सर्वके, उच्चैः → उच्चकैः।
१२२७ विधिसूत्रम् अष्टा० 5.3.73
अज्ञाते ॥
अनुवृत्ति/अधिकार: प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्रागिवात्कः, वा
वृत्तिः
कस्यायमश्वोऽश्वकः। उच्चकैः। नीचकैः। सर्वके। «ओकारसकारभकारादौ सुपि सर्वनाम्नष्टेः प्रागकच्, अन्यत्र सुबन्तस्य» (वार्त्तिकम्)। युष्मकाभिः। युवकयोः। त्वयका॥
हिन्दी अनुवाद
अज्ञात (अर्थ) में। कस्य अयम् अश्वः = अश्वकः; उच्चकैः, नीचकैः, सर्वके। (वार्तिक) ओकार, सकार, भकार आदि वाले सुप् में सर्वनाम की टि से पहले अकच्, अन्यत्र सुबन्त की (टि से पहले) — युष्मकाभिः, युवकयोः, त्वयका।
सरल व्याख्या
अश्वकः (किसका यह घोड़ा? — अज्ञात)।
१२२८ विधिसूत्रम् अष्टा० 5.3.74
कुत्सिते ॥
अनुवृत्ति/अधिकार: प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्रागिवात्कः, वा
वृत्तिः
कुत्सितोऽश्वोऽश्वकः॥
हिन्दी अनुवाद
कुत्सित (निन्दित) अर्थ में। कुत्सितः अश्वः = अश्वकः।
सरल व्याख्या
अश्वकः (निकृष्ट घोड़ा)।
१२२९ विधिसूत्रम् अष्टा० 5.3.92
किंयत्तदो निर्द्धारणे द्वयोरेकस्य डतरच् ॥
अनुवृत्ति/अधिकार: प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्रागिवात्कः, वा
वृत्तिः
अनयोः कतरो वैष्णवः। यतरः। ततरः॥
हिन्दी अनुवाद
दो में से एक के निर्धारण में किम्, यद्, तद् से डतरच् होता है। अनयोः कतरः वैष्णवः; यतरः, ततरः।
सरल व्याख्या
कतरः (दोनों में से कौन-सा)।
१२३० विधिसूत्रम् अष्टा० 5.3.93
वा बहूनां जातिपरिप्रश्ने डतमच् ॥
अनुवृत्ति/अधिकार: किम्-यत्-तदः, निर्द्धारणे, द्वयोः, एकस्य, डतरच्, प्रत्ययः, परश्च, आद्युदात्तश्च, ङ्याप्प्रातिपदिकात्, तद्धिताः, प्रागिवात्कः, वा
वृत्तिः
जातिपरिप्रश्न इति प्रत्याख्यातमाकरे । बहूनां मध्ये एकस्य निर्धारणे इतमज्वा स्यात् । कतमो भवतां कठः । यतमः । ततमः । वाग्रहणमकजर्थम् । यकः । सकः ॥ इति प्रागिवीवीयाः ॥ १५ ॥
हिन्दी अनुवाद
(भाष्य-आकर में) 'जातिपरिप्रश्न' का खण्डन किया गया है। बहुतों में से एक के निर्धारण में विकल्प से डतमच् होता है। कतमः भवतां कठः; यतमः, ततमः। 'वा' ग्रहण अकच् के लिये — यकः, सकः। (प्रागिवीय समाप्त।)
सरल व्याख्या
कतमः (बहुतों में से कौन-सा)। (प्रागिवीय पूर्ण।)

मूल पाठ: लघुसिद्धान्तकौमुदी (वरदराजाचार्य) — डिजिटल पाठ-स्रोत ashtadhyayi.com · हिन्दी अनुवाद व सरल व्याख्या: cdsharma.in

💬 ज्योतिषीय प्रश्न पूछें