🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
इष्टका स्त्री इष--तक्न् टाप् इष्टकेषीकामालानाम्” पा० निद्दैशान्नात इत्त्वम् । (इट्) मृददिनिर्म्मिते १ मृत्खण्डभेदे यज्ञिये अग्निचयनार्थे २ मृदादिनिर्मिते द्रव्यभेदे च शत० ब्रा० तु निर्वचनान्तरमुक्तं यथा । “यावद्यावद्वैजुहुयात्ता- वत्तावत् भवतीति तद्यस्मा इष्टेकमभवत्तस्माद्धेवेष्टका” ६, ।, २, २३ । “तं देवा अग्न्योराहुतिभिरभिषज्यन् ते यांयामा- हुतिमजुहवुः सासैनं पक्वेष्टका भूत्वा समपद्यत तद्यदिष्टात् कमभवत्तस्मादिष्टकास्तस्मादग्निना इष्टकाः पचन्त्याहु- तीरेवैनास्तत् कुर्वन्ति” इति च तत्रैव । इष्टकाकरणकाल- प्रकारादि” कात्या० श्रौ० १६, २ क० दर्शितं यथा । “उखासम्भरणमष्टम्याम्” १ सू० । “उस्वायाः सम्भरणमुखा सम्भरणम तदष्टम्यां भवति “अष्टकायामुखां सम्भरतीति [] (६, २, २, २३) शत० ब्रा० वचनात् । उखा चोपलक्षणम् अषाढाद्यप्यत्र सम्भ्रियतएव ततश्चान्तराले तस्या अपि प्रयोकृत्वम् । सम्प्रदायस्तु फाल्गुनकृष्णाष्टम्याम्” कर्कः “आहवनीयस्य पुरस्तान्मत्या चतुरश्रे श्वभ्रे मृत्पिण्ड- मवदधाति भूमिसमम्” २ सू० । “भूमिसममन्यूनान- तिरिक्तम्” क० । “पिण्डमपरेण व्यध्वे वल्मीकवपां छिद्रां निदधाति” ३ सू० । “पिण्डाहवनीययोर्व्यध्वे अर्धपथे” क० । “व्यध्वे पिण्डाहवनीययोर्मध्ये, वन्मीकवपाम् उपदी- काकृतस्य मृच्चयस्य वपामिव वपाम् अन्तःपुटां छिद्रां छिद्र- संयुक्ताम्” संग्र० । “आहवनीयं दक्षिणेन त्रिवृन्मुञ्ज- पञ्चाङ्गीबद्धास्तिष्ठन्ति प्राञ्चोऽश्वगर्दभाजाः पूर्वापरा रास- भोमध्येऽश्वपूर्वाः” ४ सू० । “आहवनीयस्य दक्षिणतः त्रिवृद्भिर्मुञ्जमयीभिः पञ्चाङ्गीभिः पञ्चाङ्ग्यो मुखरिकाः ताभिर्बद्धास्तिष्ठन्ति प्राङ्मुखाः अश्वगर्द्धभाजाः पूर्वापर- रीत्या रासभोमध्येऽश्वपूर्वाः” क० । “उत्तरत आहवनी- यस्यारत्निमात्र उभयतस्तीक्ष्णा वैणवी सुषिराभ्रिः कल्मा- ष्यभावेऽकल्माषी प्रादेशमात्र्यरत्निमात्री वा” ५ सू० । “आ- तन्तर्य्यात्पशूनामुत्तरतो मा भूदित्याहवनीयग्रहणम्” क० । “परिपाकवशात्कर्बुरा” संग्र० । “हिरण्मयीमेके” ६ सू० । “एके आचार्य्या इच्छन्ति, अतश्च विकल्पः” क० । “अष्ट- गृहीतं जुहोति संततमुद्गृह्णन् युञ्जान इति (११, १) ७ सू० । “अष्टगृहीतमाज्यद्रव्यं संततं जुहोति” क० । “देवस्य त्वेति (११, ३) अभ्रिमादाय “हस्त आधायेत्येनाम- भिमन्त्रयते” । (११, ११) ८ सू० । “अश्वप्रभृतींश्च प्रत्यृचं प्रतूर्त युञ्जाथां योगे योगऽइति (११, १२, १४) ९ सू० । “अभिमन्त्रयते” क० । “अनुपस्पृशन्नुत्क्रमयत्येनान् प्राचः प्रतिमन्त्रं प्रतूर्वन्नुर्वन्तरिक्षं पृथिव्याः सधस्थादिति” (११, १५, १६) १० सू० । “अग्निषु ज्वलत्सु पिण्डं गच्छन्त्यग्निं पुरीष्यमिति” (११, १६) । (६, ३, ३, १) शत० ब्रा० ११ सू० । “दक्षिणतश्च पशवो युगपत्” १२ सू० । “गच्छतां च दक्षिणतः पशवः, उत्तरतश्च पुरुषाः युगपद्गमनं कुर्वन्ति” क० । “अनद्धा पुरुषमीक्षते देवपितृमनुष्यानर्थकमग्निं पुरीष्यमिति” । (११, १६) १३ सू० । “यो देवादीन्नावति स देवपितृमनुष्यार्थ- तकः” क० । “वल्मीकवपामादाय छिद्रेण पिण्डमीक्ष- तेऽन्वग्निरिति” (११, १७) १४ सू० । “दृष्ट्वा निदधात्येनाम् । १५ सू० । “वल्मीकवपाम्” क० । “आगत्येत्यभिमन्त्रयतेऽ- द्यम्” (११ २८) १६ सू० । “आक्रम्येत्येनेन (११, १९) [] पिण्डमधिष्ठापयति” १७ सू० । “एनेनेत्यश्वोऽभिधीयते” क० “द्यौस्त इति (११, २०) पृष्ठस्योपरि पाणिं धारयन्न- नुपस्पृशन्नुत्क्रामेत्युत्क्रामयति (११, २१) १८ सू० । “अश्वम्” क० । “उदक्रमीदित्यभिमन्त्रयते (११, २२) १९ क० । “अश्वमेव” क० । “आहवनीयवत् स्थापयति पिण्डस्य” २० सू० । “पशून्” क० “उपविश्य मृदमभिजुहोत्या त्वा जिघर्मीति (११, २३) “व्यतिषक्ताभ्यामृग्भ्यामाहुत
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।