संपूजा
अर्थ: पूजा करना, अर्चना करना, सम्मान करना (कर्तृवाचक कृदन्त)
संस्कृत: पूजायाम् · पर्याय: नमस्या, अपचिति, सपर्या, अर्चा, अर्हणा
अंग्रेज़ी: to worship, to pray, to honor, to respect
व्युत्पत्ति: पूज् + अ + टाप्
सम्भावित विश्लेषण (सबसे सम्भावित पहले):
- पूजा (स्त्री.) — प्रथमा विभक्ति, एकवचन · कृदन्त: सम् + पूज् + अच्
- पूजा (स्त्री.) — प्रथमा विभक्ति, बहुवचन · कृदन्त: सम् + पूज् + अच्
- पूजा (स्त्री.) — द्वितीया विभक्ति, बहुवचन · कृदन्त: सम् + पूज् + अच्
- पूज (पुं.) — प्रथमा विभक्ति, बहुवचन · कृदन्त: सम् + पूज् + अच्
- पूजा (स्त्री.) — सम्बोधन, बहुवचन · कृदन्त: सम् + पूज् + अच्
- पूज (पुं.) — सम्बोधन, बहुवचन · कृदन्त: सम् + पूज् + अच्
📗 शब्द-रूपावली में पूरी तालिका 📘 धातु-रूपावली में सभी लकार
शब्दरूप — पूजा (स्त्रीलिङ्ग)
| विभक्ति | एकवचन | द्विवचन | बहुवचन |
| प्रथमा | पूजा | पूजे | पूजाः |
| द्वितीया | पूजाम् | पूजे | पूजाः |
| तृतीया | पूजया | पूजाभ्याम् | पूजाभिः |
| चतुर्थी | पूजायै | पूजाभ्याम् | पूजाभ्यः |
| पञ्चमी | पूजायाः | पूजाभ्याम् | पूजाभ्यः |
| षष्ठी | पूजायाः | पूजयोः | पूजानाम् |
| सप्तमी | पूजायाम् | पूजयोः | पूजासु |
| सम्बोधन | हे पूजे | हे पूजे | हे पूजाः |
रंगीन खाना = आपका लिखा रूप। रूप प्रतिमान (paradigm) से बने हैं; कुछ शब्दों के वैकल्पिक/आर्ष रूप भिन्न हो सकते हैं।
धातुरूप — पूज् (चुरादिगण) · अर्थ: पूजा करना, अर्चना करना, सम्मान करना (पूजायाम्)
लट् लकार, परस्मैपद (कर्तरि):
| पुरुष | एकवचन | द्विवचन | बहुवचन |
| प्रथम | पूजयति | पूजयतः | पूजयन्ति |
| मध्यम | पूजयसि | पूजयथः | पूजयथ |
| उत्तम | पूजयामि | पूजयावः | पूजयामः |
दसों लकार (प्रथम पुरुष, एकवचन): लट्: पूजयति · लट् (आत्मने.): पूजयते · लिट्: पूजयाञ्चकार · लिट् (आत्मने.): पूजयाञ्चक्रे · लुट्: पूजयिता · लुट् (आत्मने.): पूजयिता · लृट्: पूजयिष्यति · लृट् (आत्मने.): पूजयिष्यते · लोट्: पूजयतात् · लोट् (आत्मने.): पूजयताम् · लङ्: अपूजयत् · लङ् (आत्मने.): अपूजयत · विधिलिङ्: पूजयेत् · विधिलिङ् (आत्मने.): पूजयेत · आशीर्लिङ्: पूज्यात् · आशीर्लिङ् (आत्मने.): पूजयिषीष्ट · लुङ्: अपूपुजत् · लुङ् (आत्मने.): अपूपुजत · लृङ्: अपूजयिष्यत् · लृङ् (आत्मने.): अपूजयिष्यत
प्रमुख कृदन्त: ल्युट्: पूजन · ण्वुल्: पूजकः · तृच्: पूजयिता · यत्: पूज्यः · तव्य: पूजयितव्यः · अनीयर्: पूजनीयः · क्त: पूजितः · क्तवतु: पूजितवान् · शतृ: पूजयन् · स्य-शतृ: पूजयिष्यन् · शानच्: पूजयमानः · क्त्वा: पूजयित्वा · ल्यप्: प्रपूज्य · तुमुन्: पूजयितुम् · णमुल्: पूजम् · क्तिन्: पूक्ति · क्वसु: पूजयाम्बभूवान्
📚 उमा संस्कृत-हिन्दी महाशब्दकोश — पूजा
पूजा
pūjā
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟣 आप्टे🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
📗 अमरकोश — पर्याय(आगे के) छह शब्द तीनों लिङ्गों में (2.7.35) 🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
पूजा संज्ञा स्त्री॰ [सं॰]
१. ईश्वर या किसी देवी देवता के प्रति श्रद्धा, संमान, विनय और समर्पण का भाव प्रकट करनेवाला कार्य । अर्चना । आराधन ।
२. वह धार्मिक कृत्य जो जल, फूल, फल, अक्षत अथवा इसी प्रकार के और पदार्थ किसी देवी देवता पर चढ़ाकर या उसके निमित्त रखकर किया जाता है । आराधन । अर्चा । विशेष—पूजा संसार की प्रायः सभी आस्तिक और धार्मिक जातियों में किसी न किसी रूप में हुआ करती है । हिंदू लोग स्नान और शिखावंदन, आदि करके बहुत पवित्रता से पूजा करते हैं । इसके पंचोपचार, दशोपचार और षोडशोपचार ये तीन भेद माने जाते हैं । गंध, पुष्प, धूप, दीप और नैवेद्य से जो पूजा की जाती है उसे पंचोपचार; जिसमें इन पाँचों के अतिरिक्त पाद्य, अर्ध्य, आचमनीय, मधुपर्क और आचमन भी हो वह दशोपचार और जिसमें इन सबके अतिरिक्त आसन, स्वागत, स्नान, वसन, आभरण और वंदना भी हो वह षोडशोपचार कहलाती है । इसके अतिरिक्त कुछ लोग विशे- षतः तांत्रिक आदि १८, ३६ और ६४ उपचारों से भी पूजा करते हैं । पूजा के सात्विक, राजसिक और तामसिक ये तीन भेद भी माने जाते हैं । जो पूजा निष्काम भाव से, बिना किसी आडंबर के और सच्ची भक्ति से की जाती है वह सात्विक; जो सकाम भाव और समारोह से की जाय वह राजसिक; और जो बिना विधि, उपचार और भक्ति के केवल लोगों को दिखाने के लिये की जाय वह तामसिक कहलाती है । पूजा के नित्य, नैमित्तिक और काम्य के तीन और भेद माने जाते हैं । शिव, गणेश, राम, कृष्ण आदि की जो पूजा प्रतिदिन की जाती है वह नित्य, जो पूजा पुत्रजन्म आदि विशिष्ट अवसरों पर विशिष्ट कारणों से की जाती है वह नैमित्तिक और जो पूजा किसी अभीष्ट की सिद्धि के उद्देश्य से की जाती है वह काम कहलाती है ।
३. आदर सत्कार । खातिर । आचभगत । यौ॰—पूजा प्रतिष्ठा ।
४. किसी को प्रसन्न करने के लिये कुछ देना । भेंट । रिश्वत । जैसे, पुलिस की पूजा करना, कचहरी के अमलों की पूजा करना ।
५. तिरस्कार । दंड । ताड़ना । प्रहार । कुटाई । जैसे,—जबतक इस लड़के की अच्छी तरह पूजा न होगी तबतक यह नहीं मानेगा ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
पूजा f. honour, worship, respect, reverence, veneration, homage to superiors or adoration of the gods, GṛS.; Mn.; MBh. &c.
📄 मूल मुद्रित पृष्ठ (641,1) स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟣 आप्टे संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
पूजा [पूज्-भावे-अ] Worship, honour, adoration, respect, homage; R. 1. 79. --Comp. --अर्ह
a. venerable, respectable, worshipful, worthy of reverence.
📄 मूल मुद्रित पृष्ठ (0714-c) स्रोत: V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
पूजा स्त्री पूज--भावे अ । अर्चने । ल्युट् । पूजनमप्यत्र न० । उपचारशब्दे तङ्गभेदा उक्ताः देवीपूजायां मुखभेदनिरूपणं यथा [] “दिग्विभागे तु कौवेरी दिक् शिवापीतिकारिणी । तस्मात्तन्मुखमासीनः पूजयेच्चण्डिकां सदा” पूजास्था- नानि यथा “लिङ्गस्थां पूजयेद्देवीं पुस्तकस्थां तथैव च । स्थण्डिलस्थां महामायां पादुकाप्रतिमासु च । चित्रे च त्रिशिखे खड्गे जलस्थां वापि पूजयेत् । पञ्चाश- दङ्गुलं खड्गं त्रिशिखञ्चं त्रिशूलकम् । शिलायां पर्वतस्याग्रे गङ्गायामपि तत्समम् । आर्य्यावर्त्ते मध्य- देशे तथा पर्वतगह्वरे । देवीं संपूयेन्नित्यं भक्त्विश्रद्धासम न्वितः । वराणास्यां सदा पूजा सम्पूर्णफलदायिनी । ततस्तु द्विगुणा प्रोक्ता पुरुषोत्तमसन्निधौ । ततोऽपि द्विगुणा प्रोक्ता द्वारवत्यां विशेषता । सर्वक्षेत्रेषु तीर्थेष पूजा द्वारवतीसमा । बिन्ध्ये शतगुणा प्रोक्ता गङ्गाया- मपि तत्समा । आर्य्यावर्त्ते मध्यदेशे ब्रह्मावर्त्ते तथैव च । बिन्ध्यवत्फलदा पूजा प्रयागे पुष्करे तथा । तत- श्चतुर्गुणं प्रोक्तं करतोयानदीजले । तस्माच्चतुर्गुणफला- नन्दिकुण्डे च भैरव! । ततश्चतुर्गुणा प्रोक्ता जल्पी- शेश्वरसन्निधौ । तत्र सिद्धेश्वरीयोनौ ततोऽपि द्विगुणा स्मृता । ततश्चतुर्गुणा प्रोक्ता लोहित्यनदपाथसि । तत्- समा कामरूपे तु सर्वत्रैव जले स्थले । सर्वश्रेष्ठो यथा विष्णुर्लक्ष्मी सर्वोत्तमा यथा । देवीपूजा तथा शस्ता कामरूपे स्मरालये । देवीक्षेत्रं कामरूपं विद्यतेऽन्यन्न तत्समम् । अन्यत्र विरला देवी कामरूपे गृहे गृहे । ततः शतगुणं प्रोक्तं नीलकूटस्य मस्तके । ततोऽपि द्विगुणं प्रोक्तं हीरके शिवलिङ्गके । ततोऽपि द्विगुणा प्रोक्ता शैलपुत्रादियोनिषु । ततः शतगुणा प्रोक्ता का- माख्या योनिमण्डले” कालिकापु० ५४५७ अ० । पूजासनानि तत्फलानि च यथा “उपविश्यासने रम्ये कृष्णाजिनकुशोत्तरे । राङ्कवे कम्बले वापि काशादौ व्याघ्रचर्मणि । न कुर्य्यादर्च्चनं विष्णोः शिवे! काष्ठा- सनादिषु । काष्ठासने वृथा पूजा पाषाणे रोगसम्भवः । भूम्यासने गतिर्नास्ति वस्त्रासने दरिद्रता । कुशासने ज्ञानवृद्धिः कम्बले सिद्धिरुतमा । कृष्णाजिने धनी पुत्री मोक्षः स्याद्व्याघ्रचर्मणि । मन्त्रयोगं प्रकुर्वीत भोगार्थं सुखमासने” इति पाद्मोत्तरखण्डे ७४ अ० । पूजाधि- कारिताप्रयोजकदेवषट्कपूजाऽऽदौ कार्य्या “गणेशञ्च दिने शञ्च वह्निं विष्णुं शिवं शिवाम् । संपूज्य देवषट्कञ्च सोऽधिकारी च पूजने । गणेशं विघ्ननाशाय निष्पापाय दिवाकरम् । वह्निं शुद्धाय विष्णुञ्च मुक्तये पूजयेन्नरः । [] शिवं ज्ञानाय ज्ञानेशं शिवाञ्च वुद्धिवृद्धये । संपूज्य तान् लभेत् प्राज्ञो विपरीतमतोन्यथा” इति ब्रह्मवै० प्रकृति- खण्डे ८ अ० । सामान्यतस्तन्त्रोक्तपूजाप्रकारस्तुं “आदावृष्यादिकन्यासः करशुद्धिस्ततःपरम् । अङ्गुलि- व्यापकन्यासौ हृदादिन्यास एव च । ध्यानं पूजा जप- श्चेति सर्वतन्त्रेष्वयं विधिः” तन्त्रसारः ।
📄 मूल मुद्रित पृष्ठ (4394-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
पूजा, स्त्री, (पूजनमिति । पूज + “चिन्तिपूजि- कथिकुम्बिचर्च्चश्च ।” ३ । ३ । १०५ । इति अङ् । ततष्टाप् ।) पूजनम् । तत्पर्य्यायः । नमस्या २ अपचितिः ३ सपर्य्या ४ अर्च्चा ५ अर्हणा ६ । इत्यमरः । २ । ७ । ३५ ॥ नुतिः ७ । इति शब्दरत्नावली ॥ (यथा, रामायणे । १ । ५१ । ५ । “अपि रामे महाभागा मम माता यशस्विनी । वन्यैरुपाहरत् पूजां पूजार्हे सर्व्वदेहिनाम् ॥”) तस्याः सामान्यानुष्ठानं यथा, -- “आदावृष्यादिकन्यासः करशुद्धिस्ततः परम् । अङ्गुलिव्यापकन्यासौ हृदादिन्यास एव च ॥ तालत्रयञ्च दिग्बन्धः प्राणायामस्ततः परम् । ध्यानं पूजा जपश्चैव सर्व्वतन्त्रेष्वयं विधिः ॥” इति तन्त्रसारे यामलः ॥ शक्तिविषये चतुःषष्टिरुपचारा यथा, -- आसनारोपणम् १ सुगन्धितैलाभ्यङ्गः २ मज्जन- शालाप्रवेशनम् ३ मज्जनमणिपीठोपवेशनम् ४ दिव्यस्नानीयम् ५ उद्बर्त्तनम् ६ उष्णोदक- स्नानम् ७ कनककलसस्थितसकलतीर्थाभिषेकः ८ धौतवस्त्रपरिमार्ज्जनम् ९ अरुणदुकूलपरि- धानम् १० अरुणदुकूलोत्तरीयम् ११ आलेप- मण्डपप्रवेशनम् १२ आलेपमणिपीठोपवेशनम् १३ चन्दनागुरुकुङ्कुमकर्पूरकस्तूरीरोचनादिव्य- गन्धसर्व्वाङ्गानुलेपनम् १४ केशभारस्य काला- गुरुधूपमल्लिकामालतीजातीचम्पकाशोकशत- पत्रपूगकुहरीपुन्नागकह्बारयूथीसर्व्वत्तुंकुसुम- मालाभूषणम् १५ भूषणमण्डपप्रवेशनम् १६ भूषण- मणिपीठोपवेशनम् १७ नवमणिमुकुटम् १८ चन्द्रशकलम् १९ सीमन्तसिन्दूरम् २० तिलक- रत्नम् २१ कालाञ्जनम् २२ कर्णपालीयुगलम् २३ नासाभरणम् २४ अधरयावकः २५ ग्रथन- भूषणम् २६ कनकचित्रपदकम् २७ महापदकम् २८ मुक्तावलिः २९ एकावलिः ३० देवच्छन्दकः ३१ केयूरयुगलचतुष्टयम् ३२ वलयावलिः ३३ ऊर्म्मिकावलिः ३४ काञ्चीदाम ३५ कटिसूत्रम् ३६ शोभाख्याभरणम् ३७ पादकटकम् ३८ रत्ननूपुरम् ३९ पादाङ्गुरीयकम् ४० एककरे [] पाशः ४१ अन्यकरेऽङ्कुशम् ४२ इतरकरे पुण्ड्रेक्षु- चापः ४३ अपरकरे पुष्पबाणाः ४४ श्रीमन्मा- णिक्यपादुका ४५ स्वसमानवेशास्त्रावरणदेव- ताभिः सह सिंहासनारोहणम् ४६ कामेश्वर- पर्य्यङ्कोपवेशनम् ४७ अमृताशनचषकम् ४८ आचमनीयम् ४९ कर्पूरवटिका ५० आनन्दो- ल्लासविलासहासम् ५१ मङ्गलारात्रिकम् ५२ श्वेतच्छत्रम् ५३ चामरयुगलम् ५४ दर्पणः ५५ तालवृन्तम् ५६ गन्धः ५७ पुष्पम् ५८ धूपः ५९ दीपः ६० नैवेद्यम् ६१ पुनराचमनीयम् ६२ ताम्बूलम् ६३ वन्दनञ्च ६४ । इति तन्त्रसारे सिद्धयामलः ॥ * ॥ षट्त्रिंशदुपचारा यथा, -- “आसनाभ्यञ्जने तद्बदुद्वर्त्तननिरूक्षणे । सम्मार्जनं सर्पिरादिस्नपनावाहने तथा ॥ पाद्यार्घ्याचमनीयञ्च स्नानीयमधुपर्ककौ । पुनराचमनीयञ्च वस्त्रयज्ञोपवीतके ॥ अलङ्कारो गन्धपुष्पधूपदीपास्तथैव च । ताम्बूलादिकनैवेद्यं पुष्पमाला तथैव च ॥ अनुलेपनञ्च शय्या च चामरव्यजनन्तथा । आदर्शदर्शनञ्चैव नमस्कारोऽथ नर्त्तनम् ॥ गीतवाद्ये च गानानि स्तुतिहोमप्रदक्षिणम् । दन्तकाष्ठप्रदानञ्च ततो देवविसर्जनम् । उपचारा इमे ज्ञेयाः षट्त्रिंशत् सुरपूजने ॥” इत्येकादशीतत्त्वम् ॥ अष्टादशोपचारा यथा, -- “आसनं स्वागतं पाद्यमर्घ्यमाचमनीयकम् । स्रानं वस्त्रोपवीतञ्च भूषणानि च सर्व्वशः ॥ गन्धं पुष्पं तथा धूपं दीपमन्नञ्च दर्पणम् । माल्यानुलेपनञ्चैव नमस्कारविसर्जने ॥ अष्टादशोपचारैस्तु मन्त्री पूजां समाचरेत् ॥” अथ षोडशोपचाराः । “पाद्यमर्घ्ये तथाचामं स्रानं वसनभूषणे । गन्वपुष्पधूपदीपनैवेद्याचमनन्ततः ॥ ताम्बूलमर्च्चना स्तोत्रं तर्पणञ्च नमस्क्रिया । प्रपूजयेत् प्रपूजायां उपचारांस्तु षोडश ॥” (अन्यप्रकारषोडशोपचारा यथा, -- “आसनं स्वागतं पाद्यमर्घमाचमनीयकम् । मधुपर्काचमनीस्नानं वसनाभरणानिच । गन्धपुष्पधूपदीपनैवेद्यं वन्दनन्तथा ॥”) अथ दशोपचाराः । “पाद्यमर्घ्यं तथाचामं मधुपर्काचमनन्तथा । गन्धादयो नैवे
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
🔁 जिनके अर्थ में "पूजा" आता है (37)