अक्ष(क्षि)पटल न० अक्ष्णः नेत्रस्य पटलमिवाच्छादकत्वात् । नेत्रस्यावरके कोशभेदे नेत्ररोगभेदे (छानि) च । पटलस्थ- रोगभेदादि शुश्रुते उक्तं यथा “मसूरदलमात्रान्तु पञ्चभूतप्रसादजाम् । खद्योतविस्फुलि- ङ्गाभां सिद्धां तेजोभिरव्ययैः ॥ आवृतां पटलेनाक्ष्णोर्वा- ह्येन विवराकृतिम् । शीतसात्म्यां नृणां दृष्टिमाहुर्नयन चिन्तकाः ॥ रोगांस्तदाश्रयान् घोरान् षट् च षट् च प्रचक्ष्महे । पटलानुप्रविष्टस्य तिमिरस्य च लक्षणम् ॥ शिराभिरभिसम्प्राप्य विगुणोऽभ्यन्तरे भृशम् । प्रथमे पटले दोषो यस्य दृष्टौ व्यवस्थितः ॥ अव्यक्तानि स रूपाणि सर्व्वाण्येव प्रपश्यति । दृष्टिर्भृशं विह्वलति द्वितीयं पटलं गते । मक्षिकाः मशकान् केशान् जालकानि च पश्यति । मण्डलानि पताकाश्च मरीचीः कुण्डलानि च ॥ परिप्लवांश्च विविधान् वर्षमभ्रं तमांसि वा । दूरस्थान्यपि रूपाणि मन्यते च समीपतः ॥ समीपस्थानि दूरे च दृष्टेर्गोचर- विभ्रमात् । यत्नवानपि चात्यर्थं सूचीपाशं न पश्यति ॥ ऊर्द्ध्वं पश्यति नाधस्तात्तृतीयं पटलं गते । महान्त्यपि च रूपाणि च्छादितानीव वाससा ॥ कर्णनासाक्षियुक्तानि विपरीतानि वीक्षते ॥ यथादोषञ्च रज्येत दृष्टिर्द्दोषे बली- यसि ॥ अधःस्थिते समीपस्थं दूरस्थञ्चोपरिस्थिते । पार्श्व- स्थिते तथा दोषे ऽपार्श्वस्थानीव पश्यति ॥ समन्ततः स्थिते दोषे सङ्कुलानीव पश्यति । दृष्टिमध्यगते दोषे स एकं मन्यते [] द्विधा ॥ द्विधास्थिते त्रिधा पश्येद्बहुधा चानवस्थिते । तिमि- राख्यः स वै दोषश्चतुर्थपटलङ्गतः ॥ रुणद्धि सर्वतो दृष्टिं लिङ्गनाशः स उच्यते । तस्मिन्नपि तमोभूते नातिरूढे महागदे ॥ चन्द्रादित्यौ सनक्षत्रावन्तरिक्षे च विद्युतः । निर्मलानि च तेजांसि भ्राजिष्णूनि च पश्यति ॥ स एव लिङ्गनाशस्तु नीलिकाकाचसंज्ञितः” इति । अक्षाणां व्यवहाराणां पटलमस्त्यस्य अच् ६ त० । अक्ष- दर्शके धर्म्माध्यक्षे पु० ।
📄 मूल मुद्रित पृष्ठ (0043-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।