अगस्त्यचार पु० अगस्त्यस्य नक्षत्ररूपेण दक्षिणस्थस्य चारः शुभाशुभसूचकगत्यादि । वराहसंहितोक्ते अगस्त्यनामक- नक्षत्रस्य उदयादौ । यथा “विन्ध्यमस्तम्भयद्यश्च तस्योदयः श्रूयताम्” इत्युपक्रम्य । “उदये च मुनेरगस्त्यनाम्नः कु--समा- योगमलप्रदूषितानि । हृदयानि सतामिव स्वभावात् पुन- रम्बूनि भवन्ति निर्मलानि ॥ पार्श्वद्वयाधिष्ठितचक्रवाकामा- पुष्णती सस्वनहंसपङ्क्तिम् । ताम्बूलरक्तोत्कषिताग्रदन्ती विभाति योषेव सरित्सहासा ॥ इन्दीवरासन्नसितोत्पला- न्विता सरिद्भ्रमत्षट्पदपङ्क्तिभूषिता । सभ्रूलताक्षेपकटाक्ष- वीक्षणा विदग्धयोषेव विभाति सस्मरा ॥ इन्दोः पयोदवि- गमोपहितां विभूतिम् द्रष्टुं तरङ्गवलया कुमुदं निशासु । उन्मीलयत्यलिनिलीनदलं सुपक्ष्म वापी विलोचनमिवा- सिततारकान्तम् ॥ नानाविचित्राम्बुजहंसकोककारण्डवा- पूर्णतडागहस्ता । रत्नैः प्रभूतैः कुसुमैः फलैश्च भूर्यच्छती [] वार्धमगस्त्यनाम्ने ॥ सलिलममरपाज्ञयोञ्झितं यद्घन- परिवेष्टितमूर्त्तिभिर्भुजङ्गैः । फणिजनितविषाग्निसम्प्रदुष्टं भवति शिवं तदगस्त्यदर्शनेन ॥ स्मरणादपि पापमपा- कुरुते किमुत? स्तुतिभिर्वरुणाङ्गरुहः । मुनिभिः कथितोऽस्य यथार्घविधिः कथयामि तथैव नरेन्द्रहितम् ॥ संख्या- विधानात् प्रतिदेशमस्य विज्ञाय सन्दर्शनमादिशेज्ज्ञः । तच्चोज्जयिन्यामगतस्य कन्यां भागैः स्वराख्यैः स्फुट- भास्करस्य ॥ ईषत्प्रभिन्नेऽरुणरश्मिजांलैर्नैशेऽन्धकारे दिशि दक्षिणस्याम् । सांवत्मरावेदितदिग्विभागे भूपोऽर्घमुर्व्यां प्रयतः प्रयच्छेत्” ॥ इत्युक्त्वान्ते उपसहृतं यथा “दृश्यते स किल हस्तगतेऽर्के रोहिणीमुपगतेऽस्तमुपेतीति” ।
📄 मूल मुद्रित पृष्ठ (0048-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।