अग्निघृत न० अग्न्युद्दीपनं घृतं शा० त० । वैद्यकोक्ते घृत- भेदे यथा चक्रदत्तः । “पिप्पलीपिप्पलीमूलं चित्रको हस्तिपिप्पली । हिङ्गुचव्या- ऽजमोदा च पञ्चैव लवणानि च ॥ द्वौ क्षारौ हवुषा चैव दद्यादर्द्धपलोन्मितान् । दधिकाञ्जिकशुक्तानि स्नेहमात्रा- समानि च । आर्द्रकं सरसं प्रस्थं घृतप्रस्थं विपाचयेदिति । एतदग्निघृतं नाम मन्दाग्नीनां प्रशस्यते इति” ॥ [] “भल्लातकसहस्रार्द्धं जलद्रोणे विपाचयेत् । अष्टभागावशे- षञ्च कषायमवतारयेत् । घृतप्रस्थं समादाय कल्कानीमानि दापयेत् । व्यूषणं पिप्पलीमूलं चित्रको हस्तिपिप्पली ॥ हिङ्गुचव्याजमोदा च पञ्चैव लवणानि च । द्वौ क्षारौ हवुषा चैव दद्यादर्द्धपलोन्मितान् ॥ दधिकाञ्चिकशुक्तानि स्नेहमात्रासमानि च । आर्द्रकं सरसञ्चैव शोभाञ्जनरस- न्तथा ॥ तत् सर्व्वमेकतः कृत्वा शनैर्मृद्वग्निना पचेत् । एतदग्निघृतं नाम मन्दाग्नीनां प्रशस्यते” इति च ।
📄 मूल मुद्रित पृष्ठ (0056-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।