अग्निमुखी स्त्री अग्निरिव मुखमग्रं यस्याः गौरादित्वात् ङीष् । (भेला) भल्लातकवृक्षे, लाङ्गलिकावृक्षे (विषलाङ्गला) अग्निरेव मुखं मुखत्वेन कल्पितं यस्याः गौरा० । गायत्री- मन्त्रे । “कदाचिदपि नो विद्वान् गायत्रीमुदके जपेत् । गायत्र्यग्निमुखी यस्मात्तस्मादुत्थाय तां जपेदिति” गोभिलः । तस्याश्च “सोऽकामयत यज्ञं सृजेयेति स मुखत- एव त्रिवृतमसृजत तं गायत्री छन्दोऽन्वसृज्यताग्निर्देवता ब्राह्मणोमनुष्योवसन्तऋतुस्तस्मात् त्रिवृत् स्तोमानां मुखं, गायत्री च्छन्दसामग्निर्देवानमिति” श्रुतौ । अग्निना समंप्रजा- पतिमुखजातत्वात् तथात्वम् । अस्मिंश्च पक्षे । अग्नेरिव मुखं प्रजापतिमुखं मुखमुत्पत्तिद्वारमस्या इति विग्रहः गौरा० । गायत्रीमन्त्रश्च गायत्रीशब्दे वक्ष्यते । विप्रे तु पु० । अग्निरिव उत्तप्तं मुखं यस्याः गौ० ङीष् । पाक- शालायाम् स्त्री अग्निर्मुखमाद्यो यस्य अग्निप्रभृतौ देवे त्रि० ।
📄 मूल मुद्रित पृष्ठ (0058,b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।