अघनाशन त्रि० अघं नाशयति नश--णिच्--ल्यु । पाप- नाशके जप्यदानादौ “जपेत् सर्व्वाघनाशनमिति” स्मृतिः । स्त्रियां ङीप् । अघस्यासुरभेदस्य नाशनः । श्रीकृष्णे, स हि अजगररूपेण जिघांसन्तं तं हतवान् तत्कथा भागवते “अथाघनामाभ्यपतन्महासुरस्तेषां सुखक्रीडन- वीक्षणाक्षमः । नित्यं यदन्तनिजजीवितेप्सुभिः पीता- मृतैरप्यमरैः प्रतीक्ष्यते ॥ दृष्ट्वार्भकान् कृष्णमुखानघासुरः कंसानुशिष्टः स बको बकानुजः । अयन्तु मे सोदरनाशकृ- त्तयोर्द्वयोर्घ्नमेनं सवलं हनिष्ये । एते यदस्मत्सुहृदोस्तिलापाः कृतास्तदा नष्टसमा व्रजौकसः । प्राणे गते वर्ष्मसु कानुचिन्ता प्रजासवः प्राणभृतोहि संयते ॥ इति व्यवस्याजगरं बृहद्वपुः स योजनायाममहाद्रिपीवरम् । धृत्वाद्भुतं व्याप्तगुहाननं तदा पथि व्यशेत ग्रसनाशया खलः” ॥ इत्थम् अघनामकेऽसुरे स्थिते तदुदरे गोवत्सवत्सपालेषु गतेषु स्वयमपि हरिः प्रविश्य अत्यन्तं स्वदेहवर्द्धनेन तं हतवान् इत्यप्युक्तम् । “तच्छ्रुत्वा- भगवान् कृष्णस्त्वव्ययः सार्भवत्सकम् । चूर्णीचिकीर्षो- रात्मानं तरसा ववृधे गले ॥ ततोऽतिकायस्य निरुद्ध- मार्गिणो ह्युदीर्णदृष्टेर्भ्रमतस्त्वितस्ततः । पूर्णोन्तरङ्गे पवनो- [] निरुद्धो मूर्द्ध्वन्विनिर्भिद्य विनिर्गतो बहिः” इति ॥ “कृष्ण- चरितमिवाघनाशनमिति” श्लेषः ।
📄 मूल मुद्रित पृष्ठ (0068-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।