अच अविस्पष्टकथने गतौ च उभय० भ्वादि० सक० सेट् क्त्वा वेट् । अचति ते । आचीत् आचिष्ट । क्त अक्तः क्त्वा अचित्वा--अक्त्वा “स्वाहायज्ञमित्यङ्गुली अचते” इति कात्या० । “अचतेसङ्कोचयति” इति वेददीपः ।
अच(अन्चु) गतौ पूजायाञ्च प० सक० सेट् । तत्र अच इदित् ञीदिच्च (अन्चु) अव्यक्तशब्दे च । अञ्चति आञ्चीत् अन्चु--गतौ अच्यात् पूजायामञ्च्यात् । क्त अक्तः पूजायामुभयोः अञ्चितः अचि--वर्त्तमाने क्त अञ्चितः । अन्चु--क्त्वा अञ्चित्वा--अक्त्वा अचि--अञ्चित्वा । “अयमञ्चति पञ्चशरानुचर” इति सा० टी० । प्र + प्रकर्षे पूर्व्वदिक्- कालवृत्तौ च प्राञ्चति प्राङ्(पूर्व्वकालः) प्राची (पूर्व्वा दिक्) परा + प्रतिगतौ, आभिमुख्याभावे, पश्चाद्भावे, बहिर्भावे च [] पराञ्चति (परागच्छति) पराङ् (बाह्यः) । अप + अपसरणे अपाञ्चति । सम् + सुन्दरगमने, यथोचित- गमने च समञ्चति सम्यङ् । अनु + पश्चाद्गतौ । अन्व- ञ्चति अन्वङ् । उद् + ऊर्द्ध्वगमने, उत्तरदिग्वृत्तौ च उदञ्चति (उद्गच्छति) “उदञ्चद्रोमाञ्चमिति” उदङ् देशः उदीची (उत्तरा दिक्) । परि + समन्ताद्गतौ । पर्य्यञ्चति । प्रति + प्रतीपगतौ, पश्चाद्गतौ, पश्चाद्वर्त्तित्वे च प्रत्यञ्चति (प्रतीपं गच्छति) । प्रत्यङ्, प्रतीची (पश्चिमा दिक्) । आत्मनि व्याप्त्यर्थकप्रतिना योगात् प्रत्यक्शब्दः तस्य सर्वविषय- व्यापकत्वात् प्रत्यक्त्वम् । नि + न्यूनीभावे न्यञ्चति न्यङ् न्यग्भावः न्यक्कारः । अव + अधोगतौ, दक्षिणदिग्वृत्तौ च । अवाञ्चति अवाङ् (अधोमुखः) अवाची (दक्षिणा दिक्) यथा च उत्तरदक्षिणयोः ऊर्द्धाधोभावस्तया अवाक्शब्दे वक्ष्यते ।
अच गतौ पूजायाम् इदित् उभ० सक० सेट् क्त्वा वेट् । अञ्चति ते आञ्चीत् आञ्चिष्ट । क्त्वा अङ्क्त्वा--अञ्चित्वा । उपसर्गात् अन्चुवत् । “न्यञ्चते प्रत्यहं मोहो यस्मान्न्यञ्चन्ति चारय” इति कविर० ।
📄 मूल मुद्रित पृष्ठ (0082,a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।