अच्छावाक पु० अच्छं निर्म्मलम् अच्छ आभिमुख्येन वा वक्ति शंसति वच--कर्त्तरि संज्ञायां घञ् (निपातस्य चेति) दीर्घः । शंसनकर्त्तरि होतृसहकारिणि सोमयागसम्बन्धिनि ऋत्विग्- भेदे । स च आश्वलायनेन दर्शितः । “प्रागपि सोमेनैके, इत्युपक्रम्य, “तस्यर्त्विजः, चत्वारस्त्रिपुरुषाः, तस्य तस्योत्तरे त्रयः, होता, मैत्रावरुणोऽच्छावाकोग्रावस्तुत्, अध्वर्युः, प्रति- प्रस्थिता नेष्टोन्नेता, ब्रह्मा, ब्राह्मणाच्छंस्याग्नीध्रः पोता, उद्गाता, प्रस्तोता प्रतिहर्त्ता सुब्रह्मण्य इति, एतेऽहीनैकाहैर्या- जयन्ति, एत एवाहिताग्नय इष्टप्रथमयज्ञा गृहपतिसप्तदशा दीक्षित्वा समाप्याग्नींस्तन्मुखाः सत्राण्यासते” इति । “अस्या- यमर्थः, दर्शपूर्णमासाभ्यामिष्ट्वा पश्चाद्वा तद्यजमानः पुरस्ताद्वा सोमेन यजेत तस्य सोमयागस्य होताध्वर्य्युर्ब्रह्मोद्गातेति चत्वारः ऋत्विजो मुख्याः ते च प्रत्येकं त्रिभिः त्रिभिः पुरुषैरुपेता अतस्तस्य तस्य एकैकस्योत्तरे त्रयः पुरुषा भवन्ति, त एते होत्रादिनामकाः षोडशर्त्विजो द्विरात्रादिभिरहीनसंज्ञकै- रग्निष्टोमादिभिरेकाहसंज्ञकैर्याजयन्ति । एतएव होत्रादयः षोडशर्त्विजः स्वयमप्याहिताग्नयः प्रथमयज्ञेनाग्नोमे- [] नेष्ट्वा गृहपतिसंज्ञकेन सप्तदशसंख्यापूरकेण सहिता द्वाद- शाहादिसत्रार्थं दीक्षित्वा स्वस्वसम्बन्धिनोऽग्नीनेकत्र स्थाप- यित्वा तत्प्रधानाः सत्राण्युपतिष्ठेयुः इति” भाष्यम् । “यदच्छावाकमनुसन्तिष्ठते इति” ता० ब्रा० । अच्छावाक- शब्दोऽस्त्यत्र छ । अच्छावाकीयम् तच्छब्दयुक्ते सूक्तभेदे, तच्च सूक्तम्” अच्छावाक! वदस्वेत्युक्तोऽच्छा वो अग्निमवस इति तृचमन्वाहेत्यादिना” दर्शितम् । अच्छावाकस्येयम् यत् । अच्छावाक्या । अच्छावाकर्त्विक्--पाठ्यायामृचि । “एषा होत्रा यदच्छावाक्या” इति ता० ब्रा० । “अच्छा- वाक्या अच्छावाकसम्बन्धिनी होत्राशंसनरूपा क्रियेति” तद्भाष्यम् ।
📄 मूल मुद्रित पृष्ठ (0086-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।