अजपा, स्त्री, (न जप्यते नोच्चार्य्यतेऽसौ अपितु श्वास- [] प्रश्वासयोर्गमनागमनागमनाभ्यां सम्पाद्यते जप् + घ- ञर्थे कः स्त्रियां टाप् नजपा नञ्समासः ।) हंसमन्त्रः । यथा, -- “वियदर्द्धेन्दुललितस्तदादिसर्गसंयुतः । अजपाख्यो मनुः प्रोक्तो द्व्यक्षरः सुरपादपः” ॥ * ॥ अस्य देवतार्द्धनारीश्वरमूर्त्तिः । यथा, -- “उद्यद्भानुस्फुरिततडिंदाकारमूर्द्ध्वाम्बिकेशं पाशाभीतिं वरदपरशुं संदधानं कराब्जैः । दिव्याकल्पैर्नवमणिमयैः शोभितं विश्वमूलं सौम्याग्नेयं वपुरवतु नश्चन्द्रचूडं त्रिनेत्रं” ॥ इति तन्त्रसारः ॥ * ॥ स्वाभाविकनिःश्वासप्र- श्वासरूपेण जीवजप्यहंसमन्त्रः । तथाच दक्षिणामूर्त्तिसंहितायां । “अथ वक्ष्ये महेशानि प्रत्यहं प्रजपेन्नरः । मोहबन्धं न जानाति मोक्षस्तस्य न विद्यते ॥ श्रीगुरोः कृपया देवि ज्ञायते जप्यते यदा । उच्छ्वासनिःश्वासतया तदा बन्धक्षयो भवेत् ॥ उच्छ्वासैरेव निःश्वासैर्हंस इत्यक्षरद्वयं । तस्मात् प्राणस्य हंसाख्य आत्माकारेण संस्थितः ॥ नाभेरुच्छ्वासनिःश्वासात् हृदयाग्रे व्यवस्थितः । षष्टिश्वासैर्भवेत् प्राणः षट्प्राणा नाडिका मता ॥ षष्टिनाड्या ह्यहोरात्रं जपसंख्याक्रमो मतः । एकविंशतिसाहस्रं षट्शताधिकमीश्वरि ॥ जपते प्रत्यहं प्राणी सान्द्रानन्दमयीं परां । उत्पत्तिर्जपमारम्भो मृत्युस्तत्र निवेदनं ॥ विना जपेन देवेशि जपो भवति मन्त्रिणः । अजपेयं ततः प्रोक्ता भवपाशनिकृन्तनी” ॥ अन्यत्रापि । “षट्शतानि दिवारात्रौ सहस्राण्येकविंशतिं । एतत्संख्यान्वितं मन्त्रं जीवो जपति सर्व्वदा” ॥ * ॥ सन्ध्यावन्दनहीना । इति महाभारतं ॥
📄 मूल मुद्रित पृष्ठ (1-018-a) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।