अजिह्व पु० जि--वन् हुक् च जिह्वा रसना सा नास्ति यस्य ब० । भेके । तेषां जिह्वाशून्यत्वमुक्तं भारते आनु० । “उवाच देवान् मण्डूको रसातलतलोत्थितः । रसातलतले देवा! वसत्यग्निरिति प्रभो! । सन्तापादिह सम्प्राप्तः पावक प्रभवादहम् । स संसुप्तो जले देवा! भगवान् हव्यवाहनः । अपः सं सृज्य तेजोभिस्तेन सन्तापिता वयम् । तस्य दर्श- नमिष्टं वो यदि देवा! विभावसोः । तत्रैनमधिगच्छध्वं कार्य्यं वो यदि वह्निना । गम्यतां साधयिष्यामो वयं ह्यग्नि- भयात् सुराः! । एतावदुक्त्वा मण्डूकस्त्वरितो जलमाविशत् । हुताशनस्तु बुबुधे मण्डूकस्य च पैशुनम् । शशाप स तमासाद्य न रसान् वेत्स्यसीति वै । तं वै संयुज्य शापेन मण्डूकं त्वरितो ययौ । अन्यत्र वासाय विभुर्न चात्मा- नमदर्शयत् । देवास्त्वनुग्रहञ्चक्रुर्मण्डूकानां भृगूत्तम! । यत्तच्छृणु महाबाहो! गदतो मम सर्वशः । अग्निशापाद- जिह्वापि रसज्ञानबहिष्कृताः । सरस्वतीं बहुविधां यूय- ञ्चोच्चारयिष्यथ । बिलवासगतांश्चैव निराहारानचेतसः । गतासूनपि संशुष्कान् भूमिः सन्धारयिष्यति । तमोघना- यामपि वै निशायां विचरिष्यथ इति” । जिह्वाशून्ये त्रि० ।
📄 मूल मुद्रित पृष्ठ (0092,a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।