अतिबल त्रि० अतिशयितं बलं यस्याः ५ ब० । अत्यन्तबलाधायि कायां पीतवर्णायां (वेडियाला) इति ख्यातायां लतायां, विश्वामित्रेण रामाय दत्ते अस्त्रविद्याभेदे च स्त्री । यथा “गृहाण द्वे इमे विद्ये बलामतिबलां तथा । न ते श्रमो जरा वाभ्यां भविता नाङ्गवैकृतम् ॥ न च सुप्तं प्रमत्तं [] वा धर्षयिष्यन्ति नैरृताः । न च ते सदृशो राम! वीर्य्ये- णान्यो भविष्यति । सदेवनरनागेषु लोकेष्विह पुमां- स्त्रिषु । न सौभाग्ये, न दाक्षिण्ये, न बुद्धिश्रु तिपौरुषे ॥ नोत्तरे प्रतिपत्तव्ये त्वत्तुल्यो वा भविष्यति । एतद्विद्याद्वयं प्राप्य यशश्चाव्ययमाप्स्यसि ॥ बलामतिबलां चैव ज्ञान- विज्ञानमातरौ । क्षुत्पिपासे च ते राम ! नात्यर्थं पीडयि- ष्यतः ॥ जयश्च दुर्गकान्तारप्रदेशेष्वटवीषु च । सारतां त्रिषु लोकेषु गमिष्यसि च राघव! ॥ पितामहसुते ह्येते विद्ये चायुर्बलावहे । पात्रं त्वमसि काकुत्स्थ! विद्ययोर्ग्र- हणेऽनयोः ॥ स्वभावजैर्गुणैर्दिव्यैः कर्म्मजैर्बहुलैर्वृतः । भूयस्तव गुणोत्कर्षमेते विद्ये करिष्यतः ॥ ततो रामो जलं स्पृष्ट्वा प्राञ्जलिः प्रणतः स्थितः । प्रतिजग्राह ते विद्ये विश्वामित्रात् तपोधनादिति” । अतिशयितं बलम् प्रा० स० । अत्यन्ते बले, सामर्थ्ये, सैन्ये च न० । अतिरिक्तं बल- मस्य । अत्यन्तबलयुक्ते त्रि० “जयत्यतिबलो रामो लक्ष्म- णश्च महाबल” इति रामा० । अतिरथे च भारते अति- रथविषयएव, “एष ह्यतिबलोमत” इति भीष्मेण भूरिशः प्रयुक्तत्वात् बलकार्य्यत्वाच्च तस्य तथात्वम् ।
📄 मूल मुद्रित पृष्ठ (0102-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।