अतिमृत्यु पु० अतिक्रान्तो मृत्युम् अत्या० स० । मोक्षे “तमेव विदित्वाऽतिमृत्युमेति नान्यःपन्था विद्यते” इति श्रुतिः । स्वादृष्टादिभिः शरीरसंबन्धोहि जन्म, तद्वियोगश्च मरणम् तदभिमानिनोजीवस्य । सति च ज्ञाने तन्मूलाज्ञाने निवृत्ते तद्धेतुकशरीरसंबन्धादिकं तन्तुदाहे पटदाहवत् स्वयं निवर्त्तते अत एव ज्ञानवतो देहादिसंबन्धं श्रुतिर्निरास “अशरीरं [] वाव सन्तं प्रियाप्रिये न स्पृशत इति” । तथा च देहसंबन्धा- भावे कथं मरणसम्भवः । “न जायते म्रियते वा कथञ्चि- दिति” गीतावाक्येन तस्य मरणनिषेधात् । “न तस्य प्राणा ह्युत्क्रामन्ति इहैव समवलीयन्ते” इति श्रुत्या तत्त्व- ज्ञानिनः प्राणोत्क्रमणरूपमरणनिषेधेन ज्ञानिनो न मृत्यु- रिति वेदान्तिसिद्धान्तः । अन्यमते तु एतद्देहात् प्राणोत्- क्रान्तावपि न पुनर्देहसम्बन्धोत्तरं पुनर्मरणमिति तद्राहित्य- मेव मोक्ष इति भेदः । अतएवोक्तं श्रुत्या “मृत्युमुखात् प्रमुच्यते” इति तेन पुनर्मृत्युकारणीभूतादृष्टक्षय एव ज्ञानेन जन्यते “ज्ञानाग्निः सर्वकर्म्माणीति” शास्त्रेण प्रारब्धकर्म्मा- रिक्तकर्म्मक्षयस्यैव ज्ञानेन साध्यतायाः सर्वसम्मतत्वात् विदु- षश्च एतद्देहारम्भकादृष्टवत् एतद्देहविगमादृष्टस्यापि प्रारब्ध- फलकतया न तस्य नाश इति । अधिकमाकरे द्रष्टव्यम् ।
📄 मूल मुद्रित पृष्ठ (0103-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।