अत्रि(त्त्रि) पु० अद--त्रिन् “मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः । ब्रह्मणोमानसाः पुत्रा वशिष्ठश्चेति सप्त ते इत्युक्ते सप्तर्षिमध्ये मुनिभेदे । “अग्निरत्रिं घर्म उरुष्ठदन्त इति श्रुतिः” । अत्र पक्षे वा तलोपे अत्रिरित्यपि । त्रिभिन्ने त्रि० बहुवचनान्तः । अस्य उत्तरदिशि तारारूपेणापि स्थितिः बृहत्संहितायामुक्ता यथा “एकावलीव राजति ससितोत्पलमालिनी सहासेव । नाथवतीव च दिव्यैः कौवेरी सप्तभिर्मुनिभिः ॥ ध्रुव- नायकोपदेशान्नरीनर्त्तीवोत्तरा भ्रमद्भिश्च । यैश्चारमहं तेषां कथयिष्ये वृद्धगर्गमतात् ॥ आसन्मघासु मुनयः शासति पृथ्वीं युधिष्ठिरे नृपतौ । षड्द्विकपञ्चद्वियुतः शककाल- स्तस्य राज्ञश्च ॥ एकैकस्मिन्नृक्षे शतं शतं ते चरन्ति वर्षा- णाम् । प्रागुत्तरतश्चैते सदोदयन्ते ससाध्वीकाः ॥ पूर्वे भागे भगवान् मरीचिरपरे स्थितो वशिष्ठोऽस्मात् । तस्या- ङ्गिरास्ततोऽत्रिस्तस्यासन्नः पुलस्त्यश्च ॥ पुलहः क्रतुरिति भगवानासन्नानुक्रमेण पूर्व्वाद्याः । तत्र वशिष्ठं मुनिवर- मुपाश्रितारुन्धती साध्वी ॥ उल्काशनिधूमाद्यैर्हता विवर्णा विरश्मयो ह्रस्वाः । हन्युः स्वं स्वं वर्गं विपुलाः स्निग्धाश्च तद्वृद्ध्यै” इति ॥ अत्रेर्वर्गाश्च तत्रैवोक्ता यथा [] “अत्रेः कान्तारभवा” इति । अधिकं सप्तर्षि शब्देदृश्यम् । अद--त्रिनि । अत्रीत्यप्यत्र उणादि० ।
📄 मूल मुद्रित पृष्ठ (0111-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।