अत्यन्ताभाव पु० अत्यन्तः अन्तमतिक्रान्तः नित्यः अभावः कर्म्म० । नास्तीति वाक्याभिलप्यमाने नाशप्रागभावभिन्ने संसर्गाभावे । यथा न्यायमते भूतले घटाभावः प्रतीयते स च भूतले घटोनास्ति इति वाक्येन अभिलप्यते सोऽयमभावः, न नाशः, नापि प्रागभावः तयोः समवायि देशवृत्तित्वनियमात् भूतलादेश्च तदभावात् । नाशप्राग- भावयोस्तु न अत्यन्तता प्रतियोगिकाले तयोरसत्त्वात् । नापि तयोर्नित्यता प्रागभावस्य प्रयोगिनाश्यत्वात् ध्वंसस्य च प्रतियोगिजन्यत्वात् । भेदस्य नित्यत्वेऽपि संसर्गाभाव- त्वाभावात् न तथात्वम् । अत्यन्ताभावस्य नित्यत्वेऽपि प्रतियोगिसत्त्वकाले न तत्प्रतीतिः अभावप्रत्यक्षे योग्यानु- पलब्धेर्हेतुतया योग्यस्य घटादिरूपप्रतियोगिन उपलब्धौ तदनुपलब्धेरभावात् । नापि एकस्मिन् भावाभावयोः सत्त्वं विरुद्धम् एकस्मिन्नपि वृक्षे कपिसंयोगतद्भावयोरवच्छेद- भेदेन सत्त्वदर्शनात् तथा च एकस्मिन्नपि भूतलेऽवच्छेद- भेदेन तयोः सत्त्वं न विरुध्यते । द्रव्यादौ गुणतदभावयोः कालरूपावच्छेदभेदेन स्थितिरपि न विरुद्धा । तथा च प्रतियोगिसत्त्वकाले द्रव्ये गुणात्यन्ताभावबुद्धिः प्रतिबन्धक- सद्भावेन परं नोदेति इत्येव विरोधमात्रम् । अधिकमभाव- शब्दे वक्ष्यते । “प्रागभावस्तथाध्वंसोऽप्यत्यन्ताभाव एव चेति” भाषा० ।
📄 मूल मुद्रित पृष्ठ (0109,a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।