अत्रिजात पु० अत्रेर्नेत्रात् जातः जन--क्त ५ त० । चन्द्रे, चन्द्रो हि प्रजासर्गार्थं तपस्य तोऽत्रेर्नेत्रात् जातोयथा । “पिता सोमस्य वै राजन् जज्ञेऽत्रिर्भगवानृषिः । ब्रह्मणो मानसात् पूर्व्वं प्रजासर्गं विधित्सतः । तत्रात्रिः सर्व्व- भूतानां तस्थौ स्वतनयैर्वृतः । कर्म्मणा मनसा वाचा शुभा- न्येव चचार सः । अहिंस्रः सर्वभूतेषु धर्म्मात्मा शंसित- व्रतः । काष्ठकुड्यशिलाभूत ऊर्द्ध्वबाहुर्म्महाद्युतिः । अनु- त्तरं नाम तपो येन तप्तं महत् पुरा । त्रीणि वर्षसहस्राणि दिव्यानीति ह नः श्रुतम् । तत्रोर्द्ध्वरेतसस्तस्य स्थितस्या- निमिषस्य ह । सोमत्वं तनुरापेदे महासत्त्वस्य भारत । ऊर्द्ध्वमाचक्रमे तस्य सोमत्वं भावितात्मनः । नेत्राभ्यां वारि सुस्राव दशधा द्योतयन् दिशः । तं गर्भविधिना हृष्टा दश देव्यो दधुस्तदा । समेत्य धारयामासुर्न च ताः समशक्नुवन् । स ताभ्यः सहसैवाथ दिग्भ्यो गर्भः प्रभा- न्वितः । पपात भासयन् लोकान् शीतांशुः सर्वभावनः । यदा न धारणे शक्तास्तस्य गर्भस्य ता दिशः । तत- स्ताभिः सहैवाशु निपतात वसुन्धराम् । पतितं सोम- मालोक्य ब्रह्मा लोकपितामहः । रथमारोपयामास लोकानां हितकाम्यया । स हि वेदमयस्तात! धर्म्मात्मा सत्यसङ्गरः । युक्तो वाजिसहस्रेण सितेनेति हि नः श्रुतम् । तस्मिन्निपतिते देवाः पुत्त्रेऽत्रेः परमात्मनि । तुष्टुवुर्ब्रह्मणः पुत्त्रा मानसाः सप्त ये श्रुताः इति हरिवंशे ।
📄 मूल मुद्रित पृष्ठ (0111,a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।