अथर्ववेद पु० कर्म० । वेदभेदे तद्विवृतिः “अथर्वस्य नव शाखाः, पैप्पलादा शौनकी दामोदा औप्ता ब्रह्मदा पशशौनकी देवदर्शीचारणविद्या चेति तेषामध्ययनं द्वादशैव सहस्राणि तस्य पञ्च कल्पा भवन्ति कल्पे कल्पे पञ्च शतानि भवन्ति नक्षत्रकल्पो, विधानकल्पः संहिताबिधिकल्पः, अभिचार- कल्पः, शान्तिकल्पश्चेति” चरणव्यूहोक्ता । तस्याध्ययन- प्रचारभेदादि विष्णुपुराणेऽभिहितं यथा “अथर्वाणामथो वक्ष्ये संहितानां समुच्चयम् । अथर्ववेदं स मुनिः सुमन्तुरमितद्युतिः ॥ शिष्यमध्यापयामास कबन्धं सोऽपि तद् द्विधा । कृत्वा तु देवदर्शाय तथा पथ्याय दत्तवान् ॥ देवदर्शस्य शिष्यास्तु मौद्गो ब्रह्मबलिस्तथा । शौक्तायनिः पिप्पलादस्तथान्यो मुनिसत्तम! ॥ पथ्यस्यापि त्रयः शिष्याः कृता यैर्द्विज! संहिताः । जाजलिः कुमुदादिश्च तृतीयः शौनको द्विजः ॥ शौनकस्तु द्विधा कृत्वा ददावेकान्तु बभ्रवे । द्वितीयां संहितां प्रादात् सैन्धवायनसंज्ञिने ॥ सैन्धवमुञ्जकेशाभ्यां भिन्ना वेदा द्विधा पुनः । नक्षत्रकल्पो वेदानां संहितानां तथैव च ॥ चतुर्थः स्यादाङ्गिरसः शान्तिकल्पश्च पञ्चमः । श्रेष्ठास्त्वथ- र्वणामेते संहितानां हि कल्पकाः इति” ॥ एतस्य उपनिषदः एकत्रिंशत् तासां नामानि यथा प्रश्नः १ मुण्डकं २ माण्डूक्यम् ३ अथर्वशिरः ४ अथर्वशिखा ५ वृहज्जा- वालिः ६ नृसिंहतापनी ७ नारदपरिव्राजकः ८ सीता ९ शरभः १० नारायणः ११ रामरहस्यम् १२ रामतापनी १३ शाण्डिल्यः १४ परमहंसपरिव्राजकः १५ अन्नपूर्णा १६ सूर्य्यात्मा १७ पाशुपतम् १८ परब्रह्म १९ त्रिपुरा- तापनी २० देवी २१ भावना २२ भस्म २३ जाबालिः २४ गणपतिः २५ महावाक्यम् २६ गोपालतापनी २७ कृष्णतापनी २८ हयग्रीवः २९ दत्तात्रेयः ३० गरुडः ३१ एताश्च प्रायशः ब्रह्मविद्यातदङ्गोपासनाप्रतिपादिकाः मुक्तिको० ।
📄 मूल मुद्रित पृष्ठ (0112,a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।