अदण्ड्य त्रि० न दण्डमर्हति यत् । दण्डानर्हे “अदण्ड्यान् दण्डयन् राजा दण्ड्यांश्चैवाप्यदण्डयन्निति” याज्ञ० । “अपि भ्राता सुतोऽर्घ्यो वा श्वशुरोमातुलोऽपि वा नादण्ड्यो नाम राज्ञोऽस्ति धर्म्मात् प्रचलितः स्वकादिति” मनुः । स्मृत्यादौ कर्मविशेषे दण्डः तदभावश्च उक्तोऽनुसन्धेयः तत्र केचिददण्ड्याः संगृह्यन्ते । “अनिर्द्दशाहां गां सूतां वृषान् देवपशूंस्तथा । सपालान् वा विपालान् न दण्ड्यान् मनुरब्रवीत्” । यानवाहकदण्डाभावे प्रयोजकमुक्तम् अति वर्त्तनशब्दे, क्षेत्रे देयप्रावरणविशेषमुक्त्वा तदकरणे दण्डाभावो मनुनोक्तः यथा “तत्रापरिवृतं धान्यं विहिंस्युः पशवो यदि न तत्र प्रणयेद्दण्डं नृपतिः पशुरक्षिणामिति” “महोक्षोत्सृष्टपशवः सूतिकागन्तुकादयः पालोयेषाञ्च ते मोच्या दैवराजपरिप्लुता” इति “अदण्ड्या हस्तिनो- ऽश्वाश्च प्रजापाला हि ते स्मृताः । अदण्ड्याः काण- कुण्ठाश्च वृषभः कृतलक्षण इति” स्मृतिः ।
📄 मूल मुद्रित पृष्ठ (0113,a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।