अदाह्य त्रि० न दग्धुमर्हति दह--अर्हार्थे ण्यत् न० त० । शास्त्रोक्तविधिना अग्निसंस्कारानर्हे पतितादौ ते च स्मृतौ दर्शिता यथा । “शृङ्गिदंष्ट्रिनखिव्यालविषवह्निस्त्रिया जलैः । आदरात् परिहर्त्तव्यः कुर्वन् क्रीडां मृतस्तु यः । नागानां विप्रियं कुर्वन् दग्धश्चाप्यथ विद्युता । निगृहीतः स्वयं राज्ञा चौर्य्यदोषेण कुत्रचित् । परदारान् रमन्तश्च द्वेषात्तत्पतिभिर्हताः । असमानैश्च संकीर्णैश्चाण्डाला- द्यैश्च विग्रहम् । कृत्वा तैर्निहता ये तु चाण्डालादीन् समाश्रिताः । गराग्निविषदाश्चैव पाषण्डाः क्रूरबुद्धयः । क्रोधात् प्रायं विषं वह्निं शस्त्रमुद्वन्धनं जलम् । गिरिवृक्ष- प्रप्रातञ्च ये कुर्वन्ति नराधमाः । कुशिल्पजीविनश्चैव सूना- लङ्कारकारिणः । मुखेभगाश्च ये केचित् क्लीवप्राया नपुं- सकाः । ब्रह्मदण्डहता ये च ये च वै ब्राह्मणैर्हताः । महा- पातकिनोये च पतितास्ते प्रकीर्त्तिताः । पतितानां न दाहः स्यान्नान्त्येष्टिर्नास्थिसञ्चयः । नचाश्रुपातः पिण्डं वा कार्य्यं श्राद्धादिकं क्वचित् । एतानि पतितानाञ्च यः करोति विमोहितः । तप्तकृच्छ्रद्वयेनैव तस्य शुद्धिर्न- चान्यथा” इति । दग्धुमशक्ये निरवयवत्वात् परमात्मनि । “नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावक” इत्युपक्रम्य “अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्यएव चेति” गीतायां तस्यादाह्यत्वोक्तेस्तथात्वम् ।
📄 मूल मुद्रित पृष्ठ (0115,a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।