🕉️ 20 November 2026, Friday · 11:18:47 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

अधिकरण
adhikaraṇa
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟣 आप्टे🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
अधिकरण संज्ञा पुं॰ [सं॰]
१. आधार । आसरा । सहारा ।
२. व्याकरण में कर्तो और कर्म द्बारा क्रिया का आधार । सातवाँ कारक । इसकी विभक्तियाँ 'में ओर पर' है ।
३. प्रकरण । शीषर्क ।
४. दर्शन में आधार विषय़ । अधिष्ठान । जैसे—ज्ञान का अधिकरण आत्मा है (शब्द॰) ।
५. मीमांसा ओर वेदांत के अनुसार वह प्रकरण जिसमें किसी सिद्धात पर विवेचना की जाय ओर जिसमें ये पाँच अवश्य़ हो॰— विषय संशय, पुर्वपक्ष, उत्तरपक्ष ओर निर्णय ।
६. सामान । पदार्थ ।
७. न्यायालय ।
८. प्रधानता । प्रधान्य ।
६. अधिकारप्रदान ।
अधिकरण सिद्धात संज्ञा पुं॰ [सं॰ अधिकरणतिद्बान्त] न्याय दर्शन में वह सिद्धात जिसके सिद्ध होने से कुछ अन्य सिद्धात या अर्थ भी स्वयं सिद्ध हो जायँ । विशेष—जैसे, आत्मा देह ओर इंद्रियों से भिन्न है; इस सिद्बांत के सिद्ध होने से इंद्रियों का अनेक होना, उनके बिषयों का नियत होना, उनका ज्ञाता के ज्ञान ता साधक होना, इत्यादि विषयों की सिद्धि स्वयं हो जाती है ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
अधि-करण n. the act of placing at the head or of subordinating government, supremacy, magistracy, court of justice
a receptacle, support
a claim
a topic, subject
(in philosophy) a substratum
a subject (e.g. आत्मन् is the अधि-करण of knowledge)
a category
a relation
(in Gr.) government
location, the sense of the locative case
relationship of words in a sentence (which agree together, either as adjective and substantive, or as subject and predicate, or as two substantives in apposition)
(in rhetoric) a topic
a paragraph or minor section
अधि-करण mfn. having to superintend.
📄 मूल मुद्रित पृष्ठ (20,3)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟣 आप्टे संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
अधिकरणं [कृ-ल्युट्] 1 Placing at the head of, appointing &c. --2 Relation, reference, connection; रामाधिकरणाः कथाः Rām. referring to. --3 (In gram.) Agreement, concord, government or grammatical relation (as of subject and predicate &c.); तत्पुरुषः समानाधिकरणः कर्मधारयः P. I. 2. 42 having the members (of the compound) in the same relation or apposition; समानाधिकरणो or [] व्यधिकरणो बहुव्रीहिः; पीतांबरः, चक्रपाणिः &c. --4 A receptacle or subject, technically substratum; ज्ञानाधिकरणं आत्मा T. S. the soul is the substratum of knowledge. --5 Location, place, the sense of the locative case; आधारोधिकरणं P. I. 4. 45; कर्तृकर्मव्यवहितामसाक्षाद्धारयत् कियाम् । उपकुर्वत् क्रियासिद्धौ शास्त्रेधिकरणं स्मृतम् ॥ Hariv.; as गेहे स्थाल्यामन्नं पचति. --6 A topic, subject; section, article or paragraph; a complete argument treating of one subject; the Sūtras of Vyāsa and Jaimini are divided into Adhyāyas, the Adhyāyas into Pādas and the Pādas into Adhikaraṇas or sections. According to the Mīmāṃsakas a complete Adhikaraṇa consists of five members: --विषय the subject or matter to be explained, विशय or संशय the doubt or question arising upon that matter, पूर्वपक्ष the first side or prima facie argument concerning it, उत्तर or उत्तरपक्ष or सिद्धांत the answer or demonstrated conclusion, and संगति pertinency or relevancy, or (according to others निर्णय the final conclusion); विषयो विशयश्चैव पूर्वपक्षस्तथोत्तरं । निर्णयश्चेति सिद्धांतः शास्त्रेऽ धिकरणं स्मृतम् ॥ The Vedāntins put संगति in the 3rd place, and सिद्धांत last; तत्र एकैकमधिकरणं पंचावयवं, विषयः संदेहः संगतिः पूर्वपक्षः सिद्धांतश्च. Generally speaking, the five members may be taken to be विषय, संशय, पूर्वपक्ष, उत्तरपक्ष and सिद्धांत or राद्धांत. --7 Court of justice, court, tribunal; स्वान्दोषान् कथयंति नाधिकरणे Mk. 9. 3; ˚रणे च साधनं Dk. 40. --8 Stuff, material; विप्रतिषिद्धं चानधिकरणवाचि P. II. 4. 13 (अद्रव्यवाचि); ˚एतावत्त्वेच 15 fixed number of things, as दश दंतोष्ठाः Sk. --9 A claim. --10 Supremacy. --णी One who superintends. --Comp. --भोजकः a judge, Mk. 9. --मंडपः court or hall of justice Mk. 9. --विचालः [अधिकरणस्य विचालः अन्यथाकरणं] changing the quantity of any thing, increasing or decreasing it so many times; ˚विचाले च P. V. 3. 43; द्रव्यस्य संख्यांतरापादने संख्याया धा स्यात्; एकं राशिं पंचधा कुरु Sk. --सिद्धांतः a conclusion which involves others.
📄 मूल मुद्रित पृष्ठ (0047-a)
स्रोत: V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
अधिकरण न० अधि + कृ--ल्युट् । आधारे, व्याकरणशास्त्रे “कर्तृकर्मव्यवहितामसाक्षाद्धारयत् क्रियाम् । उपकुर्वत् क्रियासिद्धौ शास्त्रेऽधिकरणं स्मृतमिति” हरिपरिभाषिते अधिकरणसंज्ञके कर्तृकर्म्मद्वारा क्रियाश्रये कारके, यथा गेहेस्थाल्यामन्नं पचतीत्यादौ गृहस्य कर्तृद्वारा, स्थाल्याश्च कर्म्मद्वारा, परम्परया पाकक्रियाश्रयत्वात्, गृहादेः । “आधारोऽधिकरणमिति” “सप्तम्यधिकरणे इति” पा० । [] अधिकरणं च यस्य गुणादेर्यो धर्म्मी स एव । यथा गुणकर्म- जातीनां द्रव्यम्, द्रव्यस्य च संयोगादिसम्बन्धेन द्रव्यान्तरं, तत्राधिकस्यैवाधिकरणत्वं यथा कुण्डादेर्वदरादीनामधि- करणत्वम् गृहादेर्घटादीनां, न तु वैपरीत्ये । द्रव्यादिषु गुणादेरेव, समवायेन तादात्म्येन वा मतभेदेन अधिकर- णत्वं नतु गुणादीनां द्रव्याधिकरणत्वमित्येव मन्तव्यम् । क्रियते निर्णयार्थं विचारोऽस्मिन् । पूर्व्वोत्तरमीमांसाशास्त्र- प्रसिद्धे एकार्थप्रतिपादके विषयसंशयपूर्व्वपक्षसिद्धान्त निर्णयात्मकपञ्चाङ्गबोधकवाक्यसमुदाये न्याये । तथा हि “विषयोविशयश्चैव पूर्व्वपक्षस्तथोत्तरं निर्णयश्चेति” सिद्धान्तः शास्त्रेऽधिकरणं स्मृतमिति” मीमांसा । तत्र विचा- रार्हं वाक्यं विषयः, तस्यार्थविषये विशयः इदमित्थं न वेति विकल्पः । तत्र सन्दिह्यमानयोः पक्षयोः असत्पक्षे युक्तिप्रदर्शनवाक्यं पूर्व्वपक्षवाक्यं, पूर्वपक्षोक्तां युक्तिं खण्ड यित्वा सत्पक्षे युक्तिप्रदर्शनवाक्यम् सिद्धान्तः । ततश्चेत्याद्यभि- लापेन सिद्धान्तसिद्धार्थोपसंहारकं वाक्यं निर्णायकवाक्यमिति यथा “स्वाध्यायोऽध्येतव्य” इत्यादिवाक्यं विचारार्थत्वेन विषयः । अत्राध्ययनमक्षरग्रहणमात्रम्? अर्थग्रहणपर्य्यन्ता- ध्ययनं? वेति संशयः । तत्र अक्षरग्रहणमात्रमध्ययनमिति पूर्व्वपक्षः । अर्थज्ञानसहिताक्षरग्रहणमिति सिद्धान्तः । तेन विधिवाक्यस्य सार्थवेदाध्ययनमेव फलितोऽर्थ इति निर्णय इत्थं तत् प्रतिपादकावयवपञ्चात्मको न्यायोऽत्रावसीयते । एव- मन्यदप्युदाहार्य्यम् । उत्तरमीमांसायामपि एतानि यथा- यथं योज्यानि विशेषस्त्वयं वेदान्ते पञ्चावयवा अन्यविधा यथोक्तं माधवाचार्य्येण । “तत्रैकैकमधिकरणं पञ्चावयवं विषयः सन्देहः सङ्गतिः पूर्व्वपक्षः सिद्धान्तश्चेति पञ्चावयवा इति” सङ्गतिश्च “शास्त्रेऽध्याये तथा पादे न्यायसङ्गतय- स्त्रिधा । शस्त्रादिविषये ज्ञाते तत्तत्सङ्गतिरूह्यता” मित्यनेन सङ्गतित्रैविध्यं तेनैव दर्शितं तद्विवरणं सङ्गतिशब्दे वक्ष्यते । तत्र वेदान्ताधिकरणं यथा “अथातो ब्रह्मजिज्ञा- सेति प्रथमाधिकरणम् “अविचार्य्यं विचार्य्यं वा ब्रह्मा- ध्यासानिरूपणात् । असन्देहाफलत्वाभ्यां न विचारं तद- र्हति । अध्यासोऽहंबुद्धिसिद्धोऽसङ्गं ब्रह्म श्रुतीरितम् सन्देहान्मुक्तभावाच्च विचार्य्यं ब्रह्म वेदत” इति माधवः । व्याख्यातञ्चैतत् स्वेनैव यथा “आत्मा वा अरे द्रष्टव्यः श्रोतव्य” इत्यत्र आत्मदर्शनं फलमुद्दिश्य तत्साधनत्वेन श्रवणं विधीयते । श्रवणं नाम वेदान्तवाक्यानां ब्रह्मणि तात्पर्य्यं निर्णेतुमनुकूलोन्यायविचारः तदेतद्विचारविधायकं [] वाक्यं विषयः । न चायं विषयः श्लोकयोर्न संगृहीतः, सन्देहसंग्रहेणैवार्थात् तत् संग्रहप्रतीतेः ब्रह्मविचारात्मक- न्यायनिर्णयात्मकशास्त्रमनारम्भणीयमारम्भणीयं वेति स- न्देहः । पूर्वोत्तरपक्षयुक्तिद्वयं सर्वत्र सन्देहवीजमुन्नेयम् । तत्रानारभ्यमिति तावत्प्राप्तं विषयप्रयोजनयोरभावात् । संदिग्धं हि विचारविषयोभवति ब्रह्म त्वसन्दिग्धं तथा हि तत् किं ब्रह्माकारेण सन्दिह्येत? आत्माकारेण? वा, नाद्यः “सत्यं ज्ञानमनन्तंब्रह्मेति” वाक्येन ब्रह्
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
अधिकरणं, क्ली, (अधि + कृ + अधिकरणे ल्युट् ।) एकन्यायोपपादनं । इति हेमचन्द्रः ॥ अधि- क्रियते अत्र । विषयादिपञ्चावयवविवेचनोपेत- ग्रन्थः । यथा, -- [] “विषयो विशयश्चैव पूर्व्वपक्षस्तथोत्तरं । निर्णयश्चेति पञ्चाङ्गं शास्त्रेऽधिकरणं स्मृतं” ॥ विषयो विचारार्हवाक्यं । विशयोऽस्यायमर्थो न वेति संशयः । पूर्व्वपक्षः प्रकृतार्थविरोधितर्कोप- न्यासः । उत्तरं सिद्धान्तानुकूलतर्कोपन्यासः । निर्णयो महावाक्यार्थतात्पर्य्यनिश्चयः । एवं क्रमेण विवेचनमत्राधिक्रियते इत्यधिकरणं । इति ति- थ्यादितत्त्वं ॥ अधिक्रियतेऽर्थाद्विचारोऽस्मिन्नने- नेति वा अधिकरणं वेदविचारग्रन्थात्मिका मी- मांसा । सा च द्विधा कर्म्ममीमांसा ब्रह्ममी- मांसा चेति । कर्म्मकाण्डवेदविचारग्रन्थः कर्म्म- मीमांसा जैमिनिप्रणीता सैव मीमांसात्वेन प्र- सिद्धा पूर्व्वमीमांसा इत्युच्यते । ब्रह्मकाण्डवेद- विचारग्रन्थश्च ब्रह्ममीमांसा वेदव्यासप्रणीता सा च वेदान्तत्वेन प्रसिद्धा उत्तरमीमांसा इत्युच्यते । इत्थञ्च मीमांसापदमपि करणाधिकरणव्युत्पत्त्या ग्रन्थपरं ज्ञेयं । भावव्युत्पत्त्या तु विचारपूर्व्वक- निर्णयपरमिति । यत्तु अधिक्रियते विचारोऽस्मै इति व्युत्पत्त्या अधिकरणं मीमांसासिद्धान्त इत्युदीच्येनाभिहितं तन्न । सिद्धान्तस्याधिकरण- चरमावयवत्वेनाधिकरणाङ्गत्वात् अधिकरणत्वा- नुपपत्तेः । यथा न्यायमते निगमनस्य न्यायाव- यवत्वं न तन्मात्रस्य न्यायत्वं तथेहापीति सुधीभि- र्भाव्यं । तस्य चाधिकरणस्य पञ्चाङ्गानि । तदुक्तं, -- “विषयोऽविषयश्चैव पूर्व्वपक्षस्तथोत्तरं । निर्णयश्चेति पञ्चाङ्गं शास्त्रेऽधिकरणं स्मृतं” ॥ विषयो विचारार्हवाक्यं । यथा । खादिरे पशुं बध्नाति खादिरं वीर्य्यकामस्य यूपं कुर्व्वीत इत्यादि संयोगपृथक्त्वाधिकरणादेः । एवं विषयो निश्चयस्तद्भिन्नस्तद्विरोधी वा अविषयः संशयः । तदुक्तं, -- “विशब्दश्च विशेषार्थः सिनोतिर्बन्धनार्थकः । विशेषेण सिनोतीति विषयोऽर्थनियामकः” ॥ नियामकः कोटिनिश्चायकतया विशेषदर्शनात्मक- व्याप्यवत्त्वादिनिश्चय एव । एवमेव न्यायगुरु- न्यायवागीशभट्टाचार्य्यचरणाः ॥ अन्ये तु विशय इति विपूर्व्वस्य शेतेः संशयार्थकत्वमालोच्य ता- लव्यमध्यपाठं वदन्तः विशयः संशयः इति व्याच- क्षते तत्र विपूर्व्वशेतेः संशयार्थकत्वे मानमनु- सन्धेयं । संशयः अस्यायमर्थो न वेत्याकारकः । पूर्व्वपक्षः सिद्धान्तविरुद्धतर्कोपन्यासेन सिद्धान्त- विरुद्धसंशयैककोटिव्यवस्थापनं । उत्तरं प्रकृत- सिद्धान्तानुकूलतर्कोपन्यासेन प्रकृतसिद्धान्तसिद्ध- संशयापरकोटिव्यवस्थापनं । निर्णयः सिद्धान्तसिद्ध- विचार्य्यवाक्यतात्पर्य्यावधारणं । कर्म्ममीमांसा- धिकरणानि सहस्रसंख्यकानि जैमिनिप्रणीतानि शास्त्रदीपिकादौ पार्थसारथिमिश्रादिभिर्बहुधा विवृतानि । इति चन्द्रशेखरकृततत्त्वसम्बोधिनी ॥ * ॥ व्याकरणमते आधाररूपकारकं । तच्चतुर्व्विधं । सामीप्यं १ यथा गङ्गायां घोषः । कालिन्द्यां रेमे ॥ आश्लेषः २ यथा दिवि देवाः । कानने रेमे ॥ विषयः ३ यथा शास्त्रे निपुणः । केलौ [] कुशलः ॥ व्याप्तिः ४ यथा तिलेषु तैलं । सकले स्थितः ॥ * ॥
📄 मूल मुद्रित पृष्ठ (1-037-b)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
🔁 जिनके अर्थ में "अधिकरण" आता है (1)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें