अध्यास पु० अधि + अस--क्षेपे घञ् । मिथ्याज्ञाने “आह कोऽयमध्यासो? नामेति प्रश्ने “स्मृतिरूपः परत्र पूर्व्वदृष्टावभास” इति शा० भाष्यम् । स्मृतेः रूपमिव रूप- मस्य संस्कारप्रभवत्वात् । परत्र अन्यस्मिन् स्वभिन्ने स्वाभा- ववति च पूर्व्वदृष्टस्य पूर्व्वानुभूतस्यावभासो ज्ञानम् । यथा शुक्तौ रजतभिन्नायां पूर्व्वदृष्टस्य रजतस्याभेदज्ञानम्, स्वाभाववति च स्फटिके पूर्व्वानुभूतस्य लोहितरूपस्य वा ज्ञानम् । तथाभूते मिथ्याभूतज्ञाने । तत्र चाध्यासे अधि- ष्ठानशुक्त्यादौ इन्द्रियसंप्रयोगे सत्यपि तस्य विशेषरूपेणा- ज्ञानात् सामान्याकारेण इदन्त्वादिरूपेण ज्ञानं, सादृ- श्यज्ञानम्, आरोप्यमाणस्य संस्कारश्चेति कारणत्रयं सति च तस्मिन् चाकचक्यादिदोषविशेषात् अधिष्ठानविशेष- ज्ञानं प्रतिरुध्य, रजतादिसंस्कारे चोद्बोधिते तत्रानिर्वचनीयं रजतादिकं शुक्त्याद्यज्ञानेनोत्पाद्यते तदाकारवृत्तिश्च जन्यते तत्र आविद्यिकरजताद्यनुत्पत्तौ इदं रजतं पश्यामीत्याद्यनु- भवानुपपत्तिः नच स्मरणेन तस्योपपत्तिः स्मरणस्य विषया- प्रवर्त्तकत्वात् तदुत्तरं प्रवर्त्तते च तत्तद्ग्रहणाय सर्वः । नापि अलौकिकप्रत्यक्षरूपता साक्षात्करोमीत्यनुभवस्य साक्षात्कारविषयत्वात् अन्यथानुमानादीनामपि अलौकि- कप्रत्यक्षत्वापत्तेः तत्पूर्व्वं नियतं तत्तज्ज्ञानस्यावश्यम्भावेन विशिष्टालौकिकप्रत्यक्षापत्तेर्दुर्निवारत्वात् अतः तत्तद्ग्रह- णाय प्रवर्त्तकस्य तत्तज्ज्ञानस्य प्रत्यक्षत्वसमर्थनाय अनि- र्वचनीयं रजतादिकम् अधिष्ठानाज्ञानेन तत्राधिष्ठाने उत्- पद्यते इति कल्प्यं प्रत्यक्षे हि विषयसन्निकर्षः कारणत्वेन कॢप्तः [] देशान्तरस्थरजतादिकं तु न इन्द्रियसन्निकृष्टमित्यगत्या तथा कलप्यते । अतएव श्रुतौ “यत्र द्वैतमिव भवति तदितर इतरत् पश्यतीति” “अथ रथान् रथयोगान् पथः सृजते” इति च जागरे द्वैतस्य इवशब्देन मिथ्यात्वं सूचितम् । स्वप्ने च रथादेः स्पष्टं सृष्टिरुक्ता । तथाच ब्रह्मणि जगदादे- रनिर्वचनीयस्य तदज्ञानेनोत्पत्तिः । इयांस्तु विशेषः रजतादेः स्वप्नरथादेश्च प्रतीतिसमकालत्वं, वियदादेस्तु व्यव- हारिकत्वम् । “देहात्मप्रत्ययो यद्वत् प्रमाणत्वेन कल्पितः लौकिकं तद्वदेवेदं प्रमाणं त्वात्मनिश्चयादित्युक्तेः व्यव- हारकाले विषयादिप्रमेयाणां सत्यत्वं, “परमार्थदृष्ट्या तु मिथ्यात्वमिति” “अन्यदार्त्तमित्यादि” श्रुत्या च ब्रह्मभिन्नानां मिथ्यात्वावगमात् । अधिकमाकरे दृश्यम् ।
📄 मूल मुद्रित पृष्ठ (0141-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।