अनिरुक्त त्रि० निष्क्रान्तं उक्तमवयवार्थं निर्बद्धमुक्तमवयवार्थो येन वा निरुक्तं निर्वचनम् न० त० । विशेषरूपेण निर्व- चनशून्ये “एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्ते” इति ऐत० । निर्वचनञ्च निरुक्ते यास्केन दर्शितं यथा “अथ निर्वचनम् तदेषु पदेषु स्वरसंस्कारौ समर्थौ, प्रादेशिकेन गुणेनान्वितौ स्यातां, तथा तानि निर्ब्रूयादथानन्वितेऽर्थे- ऽप्रादेशिके विकारेऽर्थनित्यः परीक्ष्येत केनचिद्वृत्तिसामा- न्येनाविद्यमाने सामान्येऽप्यक्षरवर्णसामान्यान्निर्ब्रूयात् नत्वेन न निर्ब्रूयान्न संस्कारमाद्रियेत विषयवत्यो हि वृत्तयो भवन्ति । यथार्थं विभक्तीः संनमयेत्प्रत्तमवत्तमिति धात्वादी एव शिष्येते । अथाप्यस्तेर्निवृत्तिस्थानेष्वादिलोप् भवति स्तः सन्तीति, अथाप्यन्तलोपो भवति गत्वा गतमिति, अथाप्युपधालोपो भवति जग्मतुर्जग्नुरिति, अथाप्युपधा- विकारो भवति राजा दण्डीति, अथापि वर्णलोपी भवति तत्त्वा यामीति अथापि द्विवर्णलोपः तृच इति, अथ प्यादिविपर्ययो भवति ज्योतिर्धनो विन्दुर्वाद्य इति अथा- प्याद्यन्तविपर्ययो भवति स्तोको रज्जुः सिकतास्तर्कु इति अथाप्यन्तव्यापत्तिर्भवति” इति ॥ तथा प्रकृतिप्रत्ययानपे- क्षयैव समुदायेन विशिष्टार्थबोधकमपि निरुक्तं यथोक्तम् ऋ० भा० माधवेन यथा “प्रकृतिप्रत्ययार्थमनपेक्ष्य विशिष्टैकार्थबोधकं पदं निरुक्तमिति” । अनिर्दिष्टे “अनि- रुक्तप्रातःसवनः प्रथम” इति कात्या० २२, ५, ७, “अनि- रुक्तं प्रातःसवनं यस्यासौ प्रथम” इति तद्व्याख्या ।
📄 मूल मुद्रित पृष्ठ (0163,a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।