अनुपूर्व्व त्रि० अनुगतं पूर्व्वं परिपाटीं गतिस० । यथाक्रमप्राप्ते यथाहान्यनुपूर्व्वं भवति ऋ० १०, १८, ५ “यथावदनुपूर्व्वश” इति वर्ण्णानामनुपूर्व्वश” इति च मनुः । अनुपूर्व्व + शस् । अनुपूर्बशः । “वृत्तानुपूर्व्वे च न चातिदीर्घे” इति कुमा० “ततोऽनुपूर्व्वायतवृत्तबाहुरिति” भारविः पूर्व्वमनुगतौ गीपुच्छाकाराविति मल्लि० अनुगतः पूर्व्वम् । पश्चाद्गामिनि त्रि० । आग्नेयः प्रथमो गच्छत्यन्वारब्धो- [] ऽनुपूर्व्वा इतरे, कात्या० ८, ८, २९ “इतरे दश पशवः अनन्वारव्धा एव अनुपूर्व्वाः अनुगामिनो भवेयुरिति” व्या० निकृष्टप्रमाणे च “अनुपूर्व्वाइतरे” कात्या० ८, ८, २०, “अनुपूर्व्वांः निकृष्टा ह्यनुगच्छन्ति अत्र च प्रमाणेन निकृष्टत्वम् । अतश्च दक्षिणस्य वर्सिष्ठत्वमुक्तं तत उत्तरस्य तदपेक्षया हीनप्रमाणत्वं तदपेक्षया तत उत्तरस्य, तदपे- क्षया तदुत्तरस्येत्येवमेकादशो यूपः सर्वतो निकृष्टो यथा भवति तथा कर्त्तव्यमिति” व्याख्या । अनुपूर्व्व + भावादौ ष्यञ् । आनुपूर्ब्यं तद्भावे षित्त्वात् चातुरीवत् वा स्त्री “साजत्यञ्च समानानुपूर्व्वीकत्वेनेति” जग० । वेदे पृ० पूर्व्वपदह्रस्वः । अनुपूर्व्वी आनुपूर्व्व्ये स्त्रो । “वर्षिष्ठ- रशनः पुरुषोऽनुपूर्व्व्या इतरेषामिति” कात्या० १६, १, ९, “अनुपूर्ब्या द्विव्यामया रशनया” इति व्याख्या ।
📄 मूल मुद्रित पृष्ठ (0178-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।