अनुवाद्य त्रि० अनु + वद--ण्यत् । उद्देश्ये प्राप्तावपि किञ्चि- द्विधानार्थमनुकीर्त्तनीये । “अनुवाद्यमनुक्त्वैव न विधेयमुदी- रयेदिति वृद्धाः तथा च । पर्वतो वह्निमानित्येव प्रयोक्तव्यं व वैपरीत्येन, तथा प्रयोगे तु आलङ्कारिकैः वाक्यगतविधेया विमर्शदोषो भवतोति प्रतिपादितम् यथा “न्यक्कारो ह्यय- मेव मे यदरयः” इति वाक्ये अयमेव न्यक्कार इति प्रयोक्तव्ये तद्वैपरीत्येन प्रयोगात्तथात्वम् । अतएव “वृद्धिरादैच्” इति पा० सूत्रे आदैच् वृद्धिसंज्ञः स्यादित्यर्थके वृद्धेर्विधेय- त्वेन पूर्व्वनिर्वेशावश्यम्भावेऽपि वृद्धिशब्दस्य मङ्गलार्थत्वेन प्राक्प्रयोगो भाष्यादौ समर्थितः यथा “पूर्व्वोच्चारितः” संज्ञी परोच्चारितः संज्ञेत्याक्षिप्य “एतदेकमाचार्य्यस्य मङ्गलार्थं मृष्यताम् । माङ्गलिक आचार्य्यो महतः शास्त्रौघस्य मङ्गलार्थं वृद्धिशब्दमादितः प्रयुङ्क्ते । मङ्गलादीनि हि शास्त्राणि प्रथन्ते वीरपुरुषकाणि च भवन्त्यायुष्मत्पुरुषाणि च अध्येतारश्च वृद्धियुक्ता यथा स्युरित्यन्तेन” । “माङ्गलिको मङ्गल- प्रयोजनः । महतोऽर्थतः एकैकं सूत्रं शास्त्रमिति शास्त्रौ- धस्येत्युक्तम् । मङ्गलादीनीत्यादिना स्वप्रयोजनं श्रोतृ- प्रयोजनञ्चोक्तम् । प्रथन्ते विस्तृतानि भवन्ति तेन समाप्ति- रर्थाक्षिप्तेति” भा० उद्यो० ।
📄 मूल मुद्रित पृष्ठ (0185,a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।