अनुवासन न० अनु + वास--सोरभ्ये ल्युट् । धूपादिभिः सुर- भीकरणे, वैद्यौकोक्ते स्नेहाद्यैः वस्तिकर्म्मणि च । “द्विधा- वस्तिः परिज्ञेयो निरुहश्चानुवासनम् । कषायाद्यैर्निरुहः स्यात् स्नेहाद्यैरनुवासनम्” इति वैद्यकम् । अनुवसति, अनुवासरं दीयते वा पृ० । सुश्रुतोक्ते अनुवासनद्रव्ये पु० । तत्र यथाप्रमाणगुणविहितः स्नेहवस्तिविकल्पोऽनुवा- सनः पादावकृष्टः । अनुवसन्नपि न दुष्यत्यनुदिवसं वा दीयत इत्यनुवासनः । तस्यापि विकल्पोऽर्द्धार्द्धमात्राव- कृष्टोऽपरिहार्य्यो मात्रावस्तिरिति” । “निरुहः शोधनो लेखी स्नेहनो वृंहणो मतः । निरुहशोधितान् मार्गान् सम्यक् स्नेहोऽनुगच्छति । अपेतसर्वदोषासु नाडीष्विव वहञ्जलम् । सर्वदोषहरश्चासौ शरीरस्य च जीवनः । तस्माद्धि शुद्धदेहस्य स्नेहवस्तिर्विधीयते” इति । “तत्रो- न्मादभयशोकपिपासारोचकाजीर्णाशपाण्डुरोगभ्रममदमूर्च्छा च्छर्दि--कुष्ठ--मेहोदर--स्थौल्यश्वासकासकण्ठशोषशोकोषसृष्ट- क्षतक्षीणचतुस्त्रिमासगर्भिणी दुर्बलाग्न्युत्सहा बालवृद्धौ च वातरोगाद्धते क्षीणा नानुवास्या नास्थापयितव्या उदरी च प्रमेही च कुष्ठी स्थूलश्च मानवः । असाध्यता विकाराणां स्यादेषामनुवासनात्” इति च सुश्रुतम् । अजादिवस्ति- चर्म्मधनवस्त्रादिनिर्मितेन (पिच्कारीति) प्रसिद्धयन्त्रेण धातुवैषम्यदोषनाशाय लिङ्गद्वारेण योनिद्वारेण वा दीय- मानं स्नेहादिद्रव्यमनुवासन इति वैद्यकप्रसिद्धिः । अधिकं वस्तिकर्म्मशब्दे वक्ष्यते । अनुवासनं प्रयोजनमस्य अनुप्रवच० छ । अनुवासनीयः अनुवासनहेतौ त्रि० ।
📄 मूल मुद्रित पृष्ठ (0185,b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।