अनृणी, [न्] त्रि, (ऋणं विद्यतेऽस्य, ऋण + इनि ऋणी, नञ्समासः ।) अऋणी । अधारी । यथा, -- “एकमप्यक्षरं यस्तु गुरुः शिष्ये निवेदयेत् । पृथिव्यां नास्ति तद्द्रव्यं यद्दत्त्वा सोऽनृणी भवेत्” ॥ इत्याह्निकतत्त्वं ॥ ऋणाभावविशिष्टः । यथा यक्ष उवाच । “को मोदते किमाश्चर्य्यंकः पन्थाः का च वार्त्तिका । वद मे चतुरः प्रश्नान् मृता जीवन्तु बान्धवाः” ॥ युधिष्ठिर उवाच । “पञ्चमेऽहनि षष्ठे वा शाकं पचति स्वे गृहे । अनृणी चाप्रवासी च स वारिचर मोदते ॥ अहन्यहनि भूतानि गच्छन्तीह यमालय । शेषाः स्थिरत्वमिच्छन्ति किमाश्चर्य्यमतःपर ॥ तर्कोऽप्रतिष्ठः श्रतयो विभिन्ना नैको मुनिर्यस्य मतं प्रमाण । [] धर्म्मस्य तत्त्वं निहितं गुहायां महाजनो येन गतः स पन्थाः ॥ अस्मिन् महामोहमये कटाहे सूर्य्याग्निना रात्रिदिवेन्धनेन । मासर्त्तुदर्व्वीपरिघट्टनेन भूतानि कालः पचतीति वार्त्ता” ॥ इति मुद्राङ्कितमहाभारते वनप्रर्व्वणि ३१२ अ- ध्यायः ॥ अपि च । “देवानामनृणी जन्तुर्यज्ञैर्भवति मानवः” । इत्यादि शुद्धतत्त्वं ।
📄 मूल मुद्रित पृष्ठ (1-053-a) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।