अ(आ)नैश्वर्य्य न० अनीश्वरस्य भावः आद्यचो वा वृद्धिः । अनीश्वरत्वे अधीनत्वे । नास्ति ऐश्वर्य्यं यस्य । अनैश्वर्य्यः ऐश्वर्य्यशून्ये त्रि० ।
आ(अ)नैश्वर्य्य न० अनीश्वरस्य भावः ष्यञ् । उत्तरपदवृद्धिः पूर्व्वस्यपदस्यवा । १ ऐश्वर्य्याभावे २ ऐश्वर्य्यविरोधिनि सांख्या- दिमतसिद्धे बुद्धेर्धर्मभेदे धर्म्माधर्म्मज्ञानाज्ञानवैराग्यावैराग्यै- श्वर्य्यानैश्वर्य्यरूपा अष्टौ बुद्धेर्धर्मास्ते च भापरूपा एव तैरभा- वानङ्गीकारात् तत्र ज्ञानभिन्नानां सप्तानां बन्धहेतुत्वम् ज्ञा- नेन मोक्ष इति तेषां सिद्धान्तः यथाह सांका० कौमुद्योः” “रूपैः सप्तभिरेव तु बध्नात्यात्मानमात्मना प्रकृतिः । सैव च पुरुषार्थं प्रति विमोचयत्येकरूपेण” तत्त्वज्ञानवर्जं ब- ध्नाति धर्मादिभिः सप्तभिः रूपैरिति पुरुषाथं प्रति भोगापवर्गौ प्रति आत्मनात्मानमेकरूपेण तत्त्वज्ञानेन विवे- कख्यात्या विमोच्यति पुनर्भोगापवर्गौ न करोतीत्यर्थः” ।
📄 मूल मुद्रित पृष्ठ (0194,b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।